________________
म्यायागमानुसारिणीवृत्त्यलङ्कृतम् [प्रथमे विध्यरे हरिणादिवरूपविपरीतोक्तौ प्रसिद्धिविरुद्ध प्रतिज्ञत्वादेवातथात्वमिति चेत्, न, उक्तवत् तुल्यत्वाल्लोकस्य चाप्रमाणीकृतत्वादेवं वचनेऽभ्युपगमविरोधात् ।
___ लोमशालोमशैक्ये सपक्षासपक्षावृत्तिवृत्त्योरतर्क इति चेत्, न, दृष्टान्तस्य यथा द्रव्यमेव वर्तते तथा तथा रूपरसादिगुणस्थितिगत्यादि क्रियाभवनव्यावृत्तिसम्बन्धि, एकपुरुषपितृ5 पुत्रत्वादिधर्मसम्बन्धित्ववदिति । तो वृत्तिं सर्वथा व्यतीतत्वादणुद्रव्यादिषट्पदार्थानां सविकल्पानामसत्त्वम् । खपुष्पवदित्यन्ते दृष्टान्त उपदिष्टः सर्वत्र द्रष्टव्यः, तथा च योजितम् । अन्यथेति वैधयेण बालकुमारवत् । यदस्ति तत् तदतत्स्वरूपतत्त्वव्यतीतं न भवति, यथा बाल एव कुमारः कुमार एव च बालः, अन्यौ च तौ अवस्थाभेदात् , बालत्वमूलं कुमारत्वं कुमारत्वान्यच्च बालत्वमिति तदतत्त्वरूपा तत्त्व
वृत्तिः, तां व्यतीत्य न स बालः कुमारो वेति, स च संस्तत्त्ववृत्तिव्यतीतो न भवतीति । 10 हरिणादिस्वरूपवितथोक्तौ प्रसिद्धिविरुद्धप्रतिज्ञत्वादेवातथात्वमिति चेत् । चेदित्याशङ्का
याम् , स्यादाशङ्का - हरिणस्वरूपं लोमशत्वम् , तस्य वितथोक्तिरलोमा हरिण इति, तस्यां वितथोक्तौ प्रसिद्धिविरुद्धा प्रतिज्ञा यस्य स प्रसिद्धिविरुद्धप्रतिज्ञः, तद्भावः प्रसिद्धिविरुद्धप्रतिज्ञत्वम् , तस्मादेव अतथात्वमिति । अत्रोच्यते-न, उक्तवत् तुल्यत्वात् । नेति प्रतिषेधे, नैतदप्युपपद्यते । "किंवत् ? उक्तवत्, उक्तेन तुल्यमुक्तवत् । यथोक्तम् - शास्त्रनिरूपणविपरीतमप्रमाणं निरपवादत्वादिति, तेनैतदपि तुल्यम् - 16 'हरिणादिस्वरूपवितथोक्तौ प्रसिद्धिविरुद्धप्रतिज्ञत्वादेव अतथात्वम्' इति, अत्रापि उत्तरस्यापि तुल्यत्वात् । ३४-१ कथमिति चेत् , ७, सर्वस्यैवापोदितत्वादित्यादि सर्वं तदेव यावत् खपुष्पवत्, अन्यथा बालकुमारव
दिति । किञ्च, लोकस्य चाप्रमाणीकृतत्वात्तथा कुतः प्रसिद्धिविरोधः ? के वा तत् प्रसिद्धमिति । किश्चान्यत् - ऐवं वचनेऽभ्युपगमविरोधात् । ननु भवतामेकान्तवादिनां लोकमप्रमाणीकृत्य लोकप्रसिद्धिविरुद्धप्रतिज्ञत्वदोषापादनमभ्युपगमविरोधाय कल्पते, तस्मादयुक्तमेवं वक्तुमिति । 20 स्यान्मतम् - "प्रतिज्ञादोषद्वारेण हरिणस्वरूपादिविपरीतप्रतिपादनाप्रामाण्यं न शक्यते मयाभ्यु
पेतविरोधात् , हेतुदोषद्वारेण शक्नोमीत्यत आह - लोमशालोमैक्ये सपक्षासपक्षावृत्तिवृत्त्योरतर्क इति चेत् । 'चतुष्पात्त्वे सति उत्प्लुत्य गैमनाद् हरिणो निर्लोमा, लोमशो मण्डूकः' इत्युभयोरुभय- १ गुणास्थिति य० । 'गुणेस्थिति भा० ॥ २ ता वृत्तिं य० ॥ ३ त्वात् गुणद्रव्यादि य०। 'कुतोऽणुहरिणमण्डूककारणकार्यधरणिसंयोगगुणोत्प्लवनकर्मभवनव्यावृत्तितथासमवायाः' [पृ. ४९ पं० १] इत्यत्र उल्लिखिता अणुद्रव्यादयः षट् पदार्था अत्राभिप्रेता इति बोध्यम् ॥ ४ बालत्वमृलं य० । बालत्वमलं भा० ॥ ५ रत्वान्यं च य० । रत्वात्पंच भा० ॥ ६ प्रतिज्ञात्वा प्र०॥ ७ स्यादाशंक्यहरिकहरिण प्र.॥ ८ प्रतिशात्वम् भा० ॥ ९ अतथातथात्व य० ॥ १० °दप्युपद्यते भा० । 'दप्युत्पद्यते य० ॥ ११ किंवद्रक्तवत् प्र० ॥ १२ दृश्यतां पृ. ४७ पं०३॥१३ प्रतिज्ञात्वादेव प्र.॥१४ दृश्यतां पृ.४७ पं. ३॥ १५ दृश्यतां पृ. ४९ पं०३॥ १६ अत्र 'कृतत्वात्त्वया कुतः इति पाठः स्यादिति सम्भाव्यते ॥ १७क्ष वा प्र०॥ १८ प्रसिद्धिमिति यः॥ १९ भा० विनान्यत्र-एवं घने वि. रे. ही.। एवं चने पा. डे.ली.॥ २० प्रतिज्ञापत्वदोषा प्र.॥ २१ पादान य० ॥ २२ प्रतिज्ञादोषद्वारेण स्वरूपादि भा०। प्रतिज्ञादोषद्वारेण स्वरूपादि य० ॥ २३ पेतविधात् हेतु भा० । पेतविधात हेतु य० ॥ २४ °क्षवृत्ति य० ॥ २५ गमनाद् इति पाठः सर्वासु प्रतिषु नास्ति ॥ २६ निलोमा प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org