________________
सामान्यविशेषकान्ते दोषाः] द्वादशारं नयचक्रम् कुतोऽणुहरिणमण्डूककारणकार्यधरणिसंयोगगुणोत्प्लवनकर्मभवनव्यावृत्तितथासमवायाः, द्रव्यादीनामितरेतरानात्मकत्वादत्यन्तमन्यत्वान्निर्मूलत्वात् सर्वथा तत्त्ववृत्तिव्यतीतत्वात् , खपुष्पवत् ; अन्यथा बालकुमारवत् ।
भेदादिति ये वदन्ति तेषां तन्नानात्यैकान्ते अतदात्मकत्वात् कुतोऽणुहरिणमण्डूककारणकार्यधरणिसंयोगगुणोत्प्लवनकर्मभवनव्यावृत्तितथासमवायाः? अणुग्रहणेन हरिणमण्डूकसमवायिकारण- 5 द्रव्यग्रहणं परमतेन । हरिणमण्डूकग्रहणेन सैम्बद्धाणुव्यणुकाद्यारम्भनिर्वृत्तावयविद्रव्यं कार्यं गृह्यते । तस्य हरिणमण्डूकादिद्रव्यस्य धरण्यां संयोगो गुणः, उत्प्लवनं कर्म, भवनं भावः सत्ता, व्यावृत्तिरन्यभवनविलक्षणो विशेषः, तेषां तथासमवायः सम्बन्ध इति षडप्येते पदार्था वक्ष्यमाणखपुष्पदृष्टान्ता न सन्ति । का तर्हि भावना ? नास्ति परपरिकल्पितं द्रव्यम् , गुणकर्मसामान्यविशेषानात्मकत्वात् , खपुष्पवत् , तेभ्योऽ-३३-१ त्यन्तमन्यस्वभावत्वाद्वा । न गुणकर्मणी स्तः, अद्रव्यात्मत्वात्, खपुष्पवत् । एवं सामान्यविशेषसम-10 वायाः । न द्रव्यं सत् , अगुणकर्मत्वात् , खपुष्पवत् ; असामान्यविशेषात्मत्वात् , खपुष्पवत् । न पृथिवी 'पृथिवी' इति व्यपदेश्या, पृथिवीत्वादत्यन्तमन्यत्वात् , जलवत् । पृथिवीत्वं 'पृथिवीत्वम्' इति न व्यपदेश्यम् , पृथिव्या अत्यन्तमन्यत्वात् , जलतावत् । न सन्ति गुणकर्मसामान्यविशेषसमवायाः, अद्रव्यात्मकत्वात् , खपुष्पवत् । एवमेकैकमपि इतरानात्मकत्वात् खपुष्पवन्नास्ति, इतरस्वरूपवद् वा न स्वात्मस्वरूपमिति शेषपदार्थदृष्टान्तभेदादायोज्यमिति । द्रव्यं भव्यम् , द्रव्यं च भव्ये [पा० ५।३।१०४] 15 इति वचनाद् भवतीति भव्यं द्रव्यम् , भवनं च भावः । भवनादन्यत्वाद् द्रव्यादयो न सन्त्येव वन्ध्यापुत्रवत् । भवनमपि द्रव्यादन्यत्वाद् नास्त्येव वन्ध्यापुत्रवत् । न भवति वा द्रव्यम् , भवनस्वरूपानापत्तेः, वन्ध्यापुत्रवत् । एवं भवनमपि द्रव्यस्वरूपानापत्तेः तद्वत् । एवं गुणादयोऽपि । एवं व्यावृत्तिः समवायश्चेति ।
अथवा 'क्रियागुणव्यपदेशाभावादसदेव कार्य पैश्चाज्जायते' इति, तन्नोपपद्यते, निर्मलत्वात. खपुष्पवत् । न सन्ति गुणकर्मसामान्यविशेषसमवायाः, अद्रव्यत्वात् , खपुष्पवत् । एवमगुणत्वाद् 20 गुणादन्ये, असामान्यत्वात् सामान्यादन्ये, अविशेषत्वाद् विशेषादन्ये, अकारणत्वात् कारणादन्यत्, अकार्यत्वात् कार्यादन्यद् नास्ति । एतेभ्यो हेतुभ्यः कुतोऽणुहरिणमण्डूककारणकार्यधरणिसंयोगगुणोत्प्लवनकर्मभवनव्यावृत्तितथासमवायाः ? न सन्तीत्यर्थः । तदुपसंहृत्योच्यते - सर्वथा तत्त्ववृत्तिव्यतीतत्वात् । तस्य भावस्तत्त्वम् , तत्त्वस्य वृत्तिस्तदतत्त्वेन तत्स्वरूपान्यस्वरूपेण च वृत्तिः, ३३-२
१ कुतोऽणुमण्डूकहरिणकारणकायधरणि प्र. । अत्र पूर्वापरसन्दर्भपर्यालोचनेन कुतोऽणुहरिणमण्डूककारणकार्यधरणि इति पाठ एव समीचीन इति प्रतीयते। दृश्यतां पं० २२ ॥ २°वाय । अणु भा० । °वाय अणु यः ॥ ३ संबंधाणु भा० वि० विना ॥ ४रप्यभवन य० ॥ ५ अत्र 'वक्ष्यमाणखपुष्पदृष्टान्तान्न सन्ति' इत्यपि पाठः स्यात् ॥ ६ * * एतादृशचिह्नान्तर्गतः खपुष्पवत् इत्यत आरभ्य अगुणकर्मत्वात् खपुष्पवत् इत्यन्तः पाठो य० प्रतिषु नास्ति ॥ ७अत्र अगुणाकर्मत्वात इत्यपि पाठः स्यात् । तुलना--"अगुणाकर्मत्वादिभ्यो हेतुभ्यः
वदभाव एव" पृ० ५३ पं०५॥८स्वात्मरूप भा०॥९°भेदायोज्य भा०॥१० द्रव्यं भव्यं द्रव्यवदभव्य इति भा० । द्रव्यं द्रव्यवदभव्य इति य० ॥ ११ पंचज्ञोयत इति य० । पचाज्ञायत इति भा० ॥ १२ °हरिणामण्डूकाकारणकार्यधरणि य० । हरिणामण्डूकाकारणाकार्याधरणि भा० ॥ १३ तद्रूप भा०॥ . .
नय०७ Jain Education International For Private & Personal Use Only
www.jainelibrary.org