________________
न्यायागमानुसारिणीवृत्त्यलकृतम्
[प्रथमे विध्यरे सर्वस्यैवापोदितत्वाद्देशकालकृतविशेषकान्तिनः । सर्वसर्वात्मकैकान्ते मण्डूकोऽपि लोमश एव, अर्थानर्थविषयसामान्यविशेषनानात्वैकान्तेऽतदात्मकत्वात् विषयार्थत्वाच्छास्त्रस्य केनापोद्यते शास्त्रम् ? न हरिणस्वरूपादि । 'विपरीतमप्रमाणम्' इति वर्तते, कस्य ? प्रत्यक्षप्रसिद्धेः । कस्मात् ? सापवादत्वात्। तद्धि हरिणालोमत्वादि प्रत्यक्षप्रसिद्धेन लोमशत्वादिना निराक्रियमाणत्वादप्रमाणमेवेति । लौकिक आह - न, सर्वस्यैवापोदितत्वादिति । शास्त्रेष्वपि हि हरिणस्वरूपादि प्रत्यक्षसिद्धमपोद्यत एव, कथं निरपवादत्वं शास्त्राणाम् ? वरं हरिणस्वरूपादिविपरीतप्रतिपादनं तर्कतः तन्मात्रापवादात् , तार्किकैस्तु शास्त्रेण सर्वमपोद्यते प्रत्यक्षतो लोकप्रसिद्धं कारणं कार्य च । तत् कथमिति चेत्, देशकालकृतविशेषैकान्तिनः, "देशकृतः कालकृतश्च विशेषो देशकालकृतविशेषः, स एवैकान्तः, स यस्यास्त्यसौ देशकालकृतविशेषकान्ती, तस्य वादिनः प्रतिदेशं प्रतिसमयं च सर्वं विशि10 ष्टमेव न समानं किञ्चित् । अतो यावदणुशो रूपादिशो विज्ञानमात्रशो निरुपाख्यत्वशश्च भेदात् कुतो हरिणः ? कुतस्तस्य लोमाद्यवतिष्ठते ? अतः सर्वमपोदितम् , 'किं वा नापोदितम् ? किं वात्र प्रत्यक्षमनुमानं चेति ?
तथा सर्वसर्वात्मकैकान्ते मण्डूकोऽपि लोमश एव, स्थावरस्य जङ्गमतां गतस्य स्थावरस्य स्थावरतां जङ्गमस्य स्थावरतां जङ्गमस्य जङ्गमतां गतस्य [ ] इति वचनादिति । ननु तेन 15 वादिना सर्वं समर्थितम् , नापोदितमिति चेत् , सर्वस्य सर्वात्मकत्वे सर्वैक्यात् किं तत् सर्वम् ? इत्यपोदित
मेवेति, भिन्नार्थसमूहवाचित्वात् सर्वशब्दस्य । ३२-२ अर्थानर्थविषयसामान्यविशेषनानात्वैकान्ते । अर्थविषयं सामान्यम् , अर्थविषयश्च विशेषः ।
तद्यथा- द्रव्यस्य पृथिव्यादेरर्थविषयं सामान्यम् - रूपरसगन्धस्पर्शवती पृथिवी [वै० सू० २।१।१],
यत्रैतच्चातुर्गुण्यं सा पृथिवी, रूपस्पर्शरसद्रवस्नेहवत्य आपः, एवं यत्र रूपस्पर्शी तत् तेजः, यत्र स्पर्श एव स 20 वायुरिति सामान्यम् । विशेषः पुनरितरेतरधर्मव्यावृत्तिभिरितरत्र चतुःपञ्चद्व्येकगुणत्वं यथासङ्ख्यम् ।
तेषामेवानर्थसामान्यं पृथिवीत्वम् , तत्सम्बन्धलभ्यत्वात् पृथिवीबुद्ध्यभिधानयोः, एवमप्तेजोवायुत्वानि सामान्यानि, 'विशेषाश्चेतरेतरेभ्यस्त एव, स्वसामान्यभेदा वा "विशेषाः । तानि द्रव्याणि गुणाः कर्म सामान्यानि विशेषाः तत्समवायलक्षणश्च सम्बन्ध इत्येते पदार्था नौना, स्वतत्त्व-प्रयोजन-लक्षण-मत्यभिधान
१°रविषयत्वार्थद्भशास्त्रस्य भा० । रविषयार्थत्वाच्छाच्छास्त्रस्य य० । अत्र रविपर्ययार्थत्वाच्छास्त्रस्य इत्यपि पाठः सम्भवेत् ॥ २ प्रत्यक्षसिद्धेः य० ॥ ३°वादिवा निरा भा० डे० ॥ ४ प्रदेश प्र०॥ ५ सर्वविशिष्ट डे. ली. विना ॥ ६ किंवा नापोदितम् इति पाठो भा० प्रती नास्ति ॥ ७°विषयं च प्र०॥ ८ रित्यत्र भा० ॥९विशेषाण्वेतरे भा० । विशेषावेतरे य० ॥ १०विशेषा एतानि य० ॥११ गुणाकर्म । सामान्यानि भा० ॥१२ नानात्वखतत्व प्र० । अत्र नाना, स्वस्वतत्त्व इत्यपि पाठः स्यात् ॥ १३ मित्यप्र० । 'मतिः बुद्धिः' इत्यर्थप्रत्यवेक्षया अत्र मत्य इति शुद्धं प्रतीयते। 'मित्य इति यथाश्रुतपाठेऽभिरुचौ तु 'मानं मितिः' इति व्युत्पाद्य मितिः प्रमितिः यथार्था बुद्धिरित्यर्थो ज्ञेयः। तुलना- "अभिहाणबुद्धिलक्खणभिन्ना वि जहा सदत्थओऽणन्ने । दिक्कालाइविसेसा तह दवाओ गुणाइआ ॥ [ विशेषाव. भा० २११०] । एतदेव हि विशेषाणां विशेषत्वं यत्ते परतो विशिष्यन्ते । एतदेव लक्षणं मेदानां संज्ञा-खालक्षण्य-स्वतत्त्व-प्रयोजन-मतिभेदात्" - इति विशेषावश्यकभाष्यस्य कोठार्यगणिवादिमहत्तरविरचितटीकाया हस्तलिखितप्रती पृ० १७४-२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org