________________
प्रत्यक्षाप्रामाण्ये दोषाः ]
द्वादशारं नयचक्रम्
पृथिवी अवसुधा, पदार्थत्वात् महाभूतत्वात्, आकाशवत् । एवं शेषपदार्थेष्वपि दृष्टान्तभेदात् ।
शास्त्रनिरूपणविपरीतमप्रमाणं न हरिणस्वरूपादि, निरपवादत्वात् । न, यूकावत् । तथा 'पृथिव्यवसुधा, पदार्थत्वात्, आकाशवत् । असाधारणधर्मसम्बन्धेनापि रूपरसगन्धस्पर्शधर्मसम्बन्धिनी न भवति । पृथिव्यवसुधा, महाभूतत्वात्, आकाशवत् । आकार-गौरव- 5 रौक्ष्यादिधर्मसम्बन्धिनी न भवति, तत एव तद्वत् । तथा बौद्धमतेऽपि पृथिवी न भूः, महाभूतत्वाद् रूपत्वाच्च, जलवत् ; न कैक्खट-धारणधर्मा, तत एव तद्वत् । एवं शेषपदार्थभेदेष्वपीति जलानला - ३१-२ निलेषु व्योमनीन्द्रियादिषु आत्मादिषु यथाप्रक्रियं यथासम्भवं च स्वरूपनिराकरणम्, असाधारणधर्मनिराकरणे च पदार्थत्वमहाभूतत्वरूपत्वादिहेतुकानि साधनानि योज्यानि महदहङ्कारतन्मात्रेन्द्रियशब्दादिषु आत्मनि च द्रव्यगुणकर्मसामान्यविशेषसमवायेषु सप्रभेदेषु नामरूपयोः संज्ञाविज्ञानवेदनासंस्कारेषु 10 क्षित्युदकज्वलनपवनेषु चक्षुरादिषु रूपादिषु च । दृष्टान्तभेदादिति भूमेराकाशदृष्टान्तवदाकाशस्य भूम्यादिदृष्टान्तेन तथा जलादेरपि परस्परतस्ते ते धर्मा निराकार्या इतरमितरस्य दृष्टान्तं कृत्वेति ।
४७
तार्किक आह - शास्त्रनिरूपणविपरीतमप्रमाणमित्यादि । शास्त्रेण निरूपणं शास्त्रे निरूपणं वा शास्त्रनिरूपणम् । सन्दिग्धविपर्यस्ताव्युत्पन्नबुद्ध्यनुग्रहार्थं हि शास्त्रेण निरूपयन्ति सन्तो वस्तु अनुग्राह्येभ्यः शिष्येभ्यः - प्रकृतिपुरुषावेव, क्षणभङ्गः, विज्ञानमात्रमेत्र, द्रव्यगुणादि वा इति शास्त्रस्यापवादत्वा - 15 च्छास्त्रेणापोदिताद् विपरीतं वैस्तूच्यमानमप्रमाणम्, शास्त्रस्य सन्देहाद्यपवादत्वात् । न हरिणादिस्वभावादि अप्रमाणम्, तत्र शास्त्रेण "मोह एव व्यापार इति तन्निरपवादं हरिणस्वरूपादि, तस्य निरपवादत्वात् तत्तु लोकेन यथा गृहीतं तथैव । आदिग्रहणाद् मण्डूकस्वरूपादि । तत् प्रमाणमेव, निरपवादत्वात्, अग्नेरिवौष्ण्यमिति । अत्रोच्यते-न, सर्वस्यैवापोदितत्वात् । यथा हि शास्त्रं घटादिर्वस्तु परिकल्प्य अपवादप्रवृत्तं तथा हरिणादिस्वरूपं प्रत्यक्षतो लोकप्रसिद्धमप्यपवदति निरङ्कुशत्वात् । तत् कथमिति चेत्, 20 देशकालकृतविशेषैकान्तिन इत्यादि ।
1
अथवा शास्त्रनिरूपणविपरीतमप्रमाणम्, 'निरपवादत्वात्' इति वक्ष्यते, शास्त्रनिरूपणं 'पृथिवीगन्धवत्त्वादि प्रकृतिपुरुषादि वा, तस्य व विपरीतं तर्कतः प्रतिपाद्यमानमप्रमाणम्, प्रत्यक्षतर्कयो - ३२-१
१ पृथिव्यपसुधा य० । पृथिव्यच्सुधा भा० ॥ २ * * एतच्चिहान्तर्गतः पृथिव्यवसुधा इत्यत आरभ्य न भवति इत्यन्तः पाठो य० प्रतिषु नास्ति ॥ ३ करकट य० । दृश्यतां पृ० १६ टि० ८ । “खरखभावा न मही, भूतत्वात्, तयथा अनिल इत्यादिषु हेत्वासिद्धिः स्वत एव योज्या ।" - माध्यमिकवृ० पृ० ३३ ॥ ४ करणं असाधा प्र० । ra ' स्वरूप निराकरणेsसाधारणधर्मनिराकरणे च' इत्यपि पाठः स्यात् ॥ ५ स्तात्युत्पन्न बुद्ध्यनु य० । 'स्तायुत्पन्नबुद्धि भा० ॥ ६ ग्रहार्थ किं शास्त्रेण प्र० । अत्र पूर्वापरसन्दर्भानुसारेण 'किं' स्थाने 'हि' इत्येव शुद्धं प्रतीयते । प्राचीन लिप्यां ककारहकारयोः समानलेखदर्शनात् 'हि' इत्यस्यैव 'किं' इति विकृतिर्जातेति प्रतिभाति ॥ ७ वस्तुभ्यमानप्रमाणं भा० । वस्तुभ्यनुमानप्रमाणं य० ॥ ८ नोह एव वि० विना । अस्मिन् पाठे तु 'न ऊह एव' इत्यर्थः स्यात् ॥ ९ ज्यादि ० ॥ १० सर्वस्येवा' वि० विना ॥ ११ 'वस्तु परपरिकल्प्यापवा य० । वस्तु परिकल्पापवा भा० ॥ १२ 'कालकृतविशेषैकान्निकंन इत्यादि भा० । कालविशेषैकान्निकंत इत्यादि य० ॥ १३ पृथिवीयत्ववत्वादि प्र० | १४ चा विष° भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org