________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे व्यवस्थितस्तथा गृह्यत एव । तत्र पुनर्वचनं प्रत्यक्षप्रसिद्धर्बाधकमापद्यते 'अनुबादादिभावाभावे सिद्धे सत्यारम्भो नियमार्थः' इति लोके दृष्टत्वात्-न यथेदं लोकेन गृह्यत इति ।
प्रत्यक्षाप्रमाणीकरणे सर्वविपर्ययापत्तिस्तर्कतः-अलोमा हरिणः, चतुष्पात्त्वे 5 सत्युत्प्लुत्य गमनात्, मण्डूकवत् । मण्डूकोऽपि लोमशः, तस्मादेव, हरिणवत् ।
स्यान्मतम् - लोकदर्शनमप्रमाणम् , अव्युत्पन्नलोकप्रत्यक्षव्यभिचारात्, मृगतृष्णिकादिष्विवेति । अत्रोच्यते – तथा सति प्रत्यक्षस्य अप्रमाणीकरणं प्रमाणज्येष्ठस्य । मा च मंस्थाः - मृगतृष्णिकादिप्रत्यक्षज्ञानव्यभिचारात् सर्वं प्रत्यक्षं व्यभिचरतीति । किं तर्हि ? अनुपहतेन्द्रियमनःप्रत्यक्षं यत् तन्न व्यभिचर
तीति गृह्यताम् । तादृशा च प्रत्यक्षेण लोके घटपटादिर्यथासौ येन प्रकारेण येन स्वरूपेण व्यवस्थित10 स्तथा गृह्यत एव स्वस्थेन्द्रियमॉनसैः, तत्र तादृशेऽर्थे पुनर्वचनम् इदमेवं नैवं वेति, प्रत्यक्षप्रसिद्धे
बर्बाधकमापद्यते यदि तद् वचनं प्रमाणं स्यात् । न पुनस्तत् प्रमाणम् , तया प्रसिद्ध्या स्वयमेव बाध्यमानत्वात् । प्रसिद्धार्थं वचनं न नियमादनुवादाद् वा अन्यत्र प्रमाणं स्यादित्यतो ज्ञापकमाह - अनुवादादिभावाभावे यः सिद्धे सति आरम्भो नियमार्थः स इति परिभाषाया लोके दृष्टत्वात् , लोकव्यवहारानुवादि व्याकरणादिशास्त्रमपि लोकत एवेति कृत्वा । कीदृक् पुनस्तद् वचनम् ? इत्यत आह - न यथेदं 15 लोकेन गृह्यत इति । इतिशब्दः प्रदर्शने, इदं तद्वचनं प्रसिद्धर्बाधकाभिमतमिति प्रदर्यते । कथम् ? ११- नेति प्रतिषेधे, येन प्रकारेण यथा, यथा मृत्पिण्डदण्डचक्रसूत्रोदककुलालपरिस्पन्दनिर्वृत्तो घटः पृथुकुक्ष्यादि
स्वरूप उदकाद्याहरणसमर्थ इति लोकेन चक्षुरादिभिर्गृह्यते नायमेवंस्वभावः । किं तर्हि ? यथाहं खुवे सर्वसर्वात्मकत्वात् पटकटरथादिरूपोऽपि, गुणकर्मसामान्यविशेषसमवायाश्रयः परमाण्वाद्यस्मदत्यन्तापरोक्ष
पार्थिवद्रव्यारब्धस्तद्व्यतिरिक्तोऽवयवी, रथाङ्गादिवद् बुद्ध्या विभज्यमानो विभज्यमानो न परमाणुषु न 20 रूपादिषु न बुद्धिमात्रे वा तिष्ठति निरुपाख्यत्वादिति वा, तथा तथा भवतीति । शास्त्रविद्वचनं मा भूदनर्थकमिति प्रसिद्धर्बाधकमापद्यते इति न्याय्यमुच्यते । यथोक्तम् -
प्रमाणानि प्रवर्तन्ते विषये सर्ववादिनाम् ।
संज्ञाभिप्रायभेदात्तु विषदन्ते तपस्विनः ॥ [सिद्ध ० द्वा० २०।४] इति । तस्मादप्रमाणं प्रत्यक्षविरुद्धत्वाच्छास्त्रकारवचनम् । 25 शास्त्रकारवचनप्रामाण्ये वा प्रत्यक्षाप्रामाण्यम् । एवं च सति को दोषः ? तत्र प्रत्यक्षाप्रमाणी
करणे सर्वविपर्ययापत्तिस्तर्कतः, सर्वभावानां प्रत्यक्षप्रमाणसिद्धानां विपर्यय आपादयितुं शक्यते । तद्यथा- अलोमा हरिणः, चतुष्पात्त्वे सत्युत्प्लत्य गमनात् , मण्डूकवत्। मण्डूकोऽपि "लोमशः, तस्मादेव हेतोः, हरिणवत् । यूका पक्षिणी, षट्पात्त्वात् , भ्रमरवत् । भ्रमरोऽपक्षः, षपात्त्वात् ,
१°नगममा प्र० ॥ २ कादिष्वेवेति प्र०॥ ३ मा व मंस्थाः प्र.॥ ४'प्रत्यक्ष ज्ञान प्र.॥ ५°मानसेस्तत्र प्र.॥ ६ प्रमाणतया प्र०॥ ७ प्रतिषेध भा० । प्रतिषेधः य० ॥ ८ लोके चक्षु भा० ॥ ९ रथाङ्गादिबद्वद्ध्या प्र०॥ १० °माणुपु न प्र० ॥ ११ मात्रे या तिष्ठति प्र० ॥ १२ अत्र 'प्रत्यक्षप्रसिद्धेबधिकमापद्यते' इत्यपि पाठः स्यात् ॥ १३ सर्वविषययापत्ति भा० । सर्वविषयापत्ति य०॥ १४ लोमश[शो.] वैतस्मा भा० ॥ १५ पद्यात्वात् य० । षट्पदत्वात् भा०॥ १६ पद्यात्वात् य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org