________________
लौकिकार्थे शास्त्रवैयर्थ्यम् ]
द्वादशारं नयचक्रम्
४५
फलादतिरिच्य वर्तेत इति वृथैवमादौ शास्त्रारम्भः । अत्र तु शास्त्रमर्थवत् स्यात् - इदङ्काम इदं कुर्यादिति । अर्थ्यो हि क्रियाया एवोपदेशः, चित्रादिवत्, न तु लौकिके एव गृह्यमाणेऽर्थे इदमेवं नैवं वेति विचारः । अनुपहतेन्द्रियमनःप्रत्यक्षेण लोके यथासौ
शास्त्रारम्भवृथाभावे, अत आह- वृथा एवमादौ शास्त्रारम्भः । क्व तर्हि शास्त्रमर्थवत् स्यादिति चेत्, अतीन्द्रिये पुरुषार्थसाध्यसाधनसम्बन्धे । कोऽसौ ? इत्यत आह- अत्र तु शास्त्रमर्थवत् स्यात् - 6 इदङ्काम इदं कुर्यादिति । इदं शब्देन सर्वनाम्ना सामान्यवादिना सर्वाः क्रियाः फलेच्छाप्रेरितास्तत्साधनीः सूचयति 'अग्निहोत्रं जुहुयात् स्वर्गकामः, पुत्रकामो यजेत, पशुकामो यजेत, अन्नाद्यकामो यजेत' इत्याद्याः, क्रियाक्रियाफलसम्बन्धस्यातीन्द्रियत्वात् । उक्तं च- अप्राप्ये शास्त्रमर्थवत् [मीमांसाद० ६।२।१८], प्रत्यक्षादिप्रमाणैरनधिगम्ये इत्यर्थः ।
अर्थ्यो हीत्यादि । अर्थादनपेतोऽर्ध्यः । हिशब्दो यस्मादर्थे, यस्मात् क्रियाया एवो - 10 पॅदेशोऽर्थ्यः ससाधनायाः फलादिसम्बन्धिन्याः, चित्रादिवत् । आदिग्रहणाच्चित्र पुस्तकाष्ठकर्मादिवत् । यथावयवस्थानविन्यासवर्णसंयोगप्रविभागविषयविनियोगाद्युपदेश एवोपयोगात् सार्थकः, न कुड्यवर्णचित्रकारादिखरूपोपदेशः तत्र तदनुपयोगात्, तथा नित्यक्षणिकत्वादितत्त्ववर्णनं घटपटादेः त्रिगुणकारणपूर्वकत्वादिवर्णनं जगतः सतत संप्रवृत्तिक्षणिकानुपाख्यत्वादिवर्णनं वा । स्यान्मतम् - प्रधानक्षणभङ्गादिवादारम्भोऽप्रत्यक्षविषयत्वात् सार्थकः, क्रियाक्रियाफल सम्बन्धोपदेशवदिति । एतदपि नोपपद्यते, यस्माद् न तु 15 लौकिक एव गृह्यमाणेऽर्थे इंदमेवं नैवं वेति सार्थको विचार इत्यभिसम्बन्धः, प्रसिद्धार्थविर्षयस्य विचारस्यानिष्ठादोषनिष्ठत्वात् । नेति प्रतिषेधे, तुर्विशेषणे लोके भवो लौकिकः, देशकालपुरुष क्रिया- ३० - २ विशेषाद्यपेक्षरूपादिर्मदर्थे कार्यकारणमृत्पिण्डादिघटाद्याकारादिके प्रत्यक्षत एव गृह्यमाणे 'इदं सर्वं सत्त्वरजस्तमः संज्ञेत्रिगुणात्मकमेव, न चैतदेवम्; क्षणभङ्गजन्मात्मकम्, 'नॅ वैवम्' इत्यादिविचारः किंसम्बन्धः ? किम्फलः ? को वात्र पुरुषार्थसाधनपरिज्ञानोपयोगः ? इति विमृश्यतां भवद्भिरेव ।
20
१ वाविना डे० लीं० । अत्र 'वाचिना इति पाठः समीचीनतर इति भाति । २ इत्याद्याः क्रियाः क्रियाफल ० भा० प्रतौ तु इत्याद्याः क्रि° इति पाठादनन्तरः अर्थादनपेतोऽर्थ्यः इत्यन्तः सर्वोऽपि पाठो नास्त्येवात्र । तुलना“क्रियाक्रियाफलक्रमेण च” पृ० ४४ पं० १५ । “क्रियाक्रियाफल सम्बन्धोपदेशवदिति" पं० १५ ॥ ३ त्वाद्रक्तं धप्राप्य य० । “अशास्त्रा सूपसम्प्राप्तिः शास्त्रं स्यान्न प्रकरूपकम् । तस्मादर्थेन गम्येताप्राप्ते वा शास्त्रमर्थवत् ॥” - इति जैमिनिप्रणीते मीमांसादर्शने पाठः ॥ ४ यस्मादर्थो भा० ॥ ५ 'पदेशोर्थः य० । 'पदेशार्थः भा० ॥ ६ 'सम्बन्धेत्याः भा० । 'सम्बन्धत्याः २० ही ० । सम्बन्धेव्याः रं० ही ० विना य० ॥ ७ क्षणिक चादित्वतत्ववर्णनं रं० ही ० । 'क्षणिकवादित्व तत्ववर्णनं रं० ही ० विना य० । 'क्षणिकवादितत्ववर्णनं भा० ॥ ८ सार्थकः क्रियाफलसम्बन्धो भा० ॥ ९ इदमेवं वेति प्र० । “लौकिक एव गृह्यमाणेऽर्थे इदमेवं नैवं चेति विचारोऽर्थवान्न भवति । यदि भवेत् चतुष्पात्वे सति उत्सुत्य गमनातू लोमशो हरिणवद् मण्डूकः, तत एव निर्लोमा हरिणो मण्डूकवत् स्यादिति प्रसिद्धिविपरीतं सिध्येल्लोकाप्रामाण्यकरण इति तत् प्रसक्तमिहापीत्यत आह- न तु लौकिक एव गृह्यमाण इत्याद्युक्तदर्शन वदिति ।" इति वक्ष्यते नयचक्रवृत्तौ पृ० ९८-२ ॥ १० यस्य निष्ठादोषनिष्ठत्वात् भा० । षयस्य विचारस्यानित्वादोषनित्वात् य० । अत्र अनिष्ठा अनवस्था, तथा च अनवस्थादोषवत्त्वादित्यर्थः ॥ ११ तुविशेषणे य० ॥ १२ मर्थे य० ॥ १३ द्याकाशादिके प्र० ॥ १४ संक्षित्रि भा० ॥ १५ न चैवम् य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org