________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे शिवकस्थासकोसकुशलघटकपालशकलशर्करिकापांशुवातायनरेणुपुनरुपचयप्राप्तानन्त्यस्कन्धपांशुमृत्पिण्डादेरनियतादिसदसद्भूतकारणाध्यासाविमुक्त्यनिर्मूलत्वं कार्यस्य ।
अतोऽवगम्यतां न किञ्चिदन्यत् फलं तच्छास्त्रेण क्रियते यल्लोकव्यवहार5 कार्यानियमोऽपि च । कार्यमेव सदसद्भूतकालादिविशेषकारणमेवेत्यनियमः प्रधानादिशास्त्रकारपरिकल्पितकारणपूर्वकमेवेति वा । किं कारणम् ? तथानुगम्यमानदृष्टान्ताभावात् । किं तर्हि ? एतावानियमः - कारणाध्यांसाविमुक्त्यनिर्मूलत्वं कार्यस्येति, तथानुगम्यदृष्टार्थत्वात् , मृत्पिण्डशिवकेत्यादिपांशुमृत्पिण्डादेरित्यन्तस्य दण्डकस्योपरि अनियतादिसदसद्भूतकारणाध्यासाविमुक्त्यनिर्मूलत्वमिति
वक्ष्यमाणसम्बन्धत्वात् । कार्यमेव, सदेव असदेव वा कारणं कालादि, सादिकारणमित्यस्य वाऽनियम10 प्रदर्शनार्थमुदाहरणमाह -- मृत्पिण्डशिवकेत्यादि यावत् पांशुमृत्पिण्डादेरिति, एषां मृत्पिण्डाद्यवस्था२९-२ विशेषाणां वातायनरेणुपर्यन्तानामेव लोके दृष्टत्वात् पुनरुपचयात् प्राप्तमानन्त्यं येषां स्कन्धानां ते पुनरुपचय
प्राप्तानन्त्यस्कन्धाः वातायनरेणुभ्यः प्रभृति पुनरुपचयक्रमेण पांशु-मृत्पिण्ड-शिवक-स्थास-कोसँक-कुशूल[घट-कपाल-]शकल-शर्करिका-पांशु-वातायनरेणव इति चक्रकक्रमेण कारणकार्यानियमो दृष्टः । उत्क्रमेणापि च
सङ्घातभेदाभ्यां कार्यकारणसदसत्त्वानियमो दृष्टः, पिण्डमुपमृद्य शिवककरणात् शिवकं चोपमृद्य पिण्ड16 करणात् स्थासकादीनामन्यतममवस्थाविशेषमुपमृद्यापि पिण्डादिकरणात् क्रियाक्रियाफलक्रमेण च कदाचित्
कारणकार्यानियमदर्शनादित्यनियतादि, इत्थमनियत आदिरस्येत्यनियतादि, जगदिति सम्बध्यते, तदेव अनियतसदसद्भूतकारणकार्यम् , अनियतादिसद]सद्भूतं कारणम् , तस्य अध्यासस्तेनं वा कारणेन अध्यासोऽधिष्ठानम् । तेन कारणाध्यासेन अविमुक्तिरत्यागः कारणसामान्याविनाभावः, न तु अत्यन्तनिर्मूलोत्पत्तिविनाशलक्षणकार्यत्वं खपुष्पवत्, तथैव लोके दृष्टत्वात् । तया अविमुक्त्या अनिर्मूलत्वं कार्य20 भूतस्य जगतः।
अतः प्रोक्तहेतोदृष्टकार्यकारणसदसत्त्वानियमात् परपरिकल्पितप्रधानाद्यदृष्टैककारणानुपपत्तेः कालादि. विशेषकारणैक्यानुमानाभावाच्च कारणसामान्यमात्रानुमानाच्चावगम्यताम्-न किञ्चिदन्यत् फलं
तच्छास्त्रेण क्रियते, निरर्थकानि शास्त्राणीत्यर्थः । किं तत् ? यल्लोकव्यवहारफलादतिरिच्य वर्तेत, ३०-१ यदपेक्ष्य शास्त्राणि सार्थकानि स्युः । तस्मादवगम्यताम् - इदं जगल्लोकप्रसिद्धमेव अनियतानुपरताय॑न्त25 दृष्टकारणकार्यप्रबन्धमिति । न तु यथान्यैः कल्पितम् – उपरतव्यापारं सत् प्रधानमतीन्द्रियं पुनरिन्द्रियग्राह्यत्वादिभावेन जगत् सृजति, पुनरात्मानं संहृत्य उपरतव्यापारं तिष्ठति । न चात्यन्तासत्कार्य क्षणोत्पन्नविनष्टमसम्बद्धमूलं वैतदिति । इतिशब्दो हेत्वर्थः । को हेतुः ? शास्त्रनैरर्थक्यम् । कस्मिन् साध्ये ?
१ कार्यमेव सद्भूतकालादि प्र० ॥ २°ध्यासाधिमुत्य प्र० ॥ ३त्यंत्यस्य य० । 'त्यस्य भा०॥ ४ वा कालादि कालादि सादि भा० ॥५°कोसकुशूलशर्करिका य० ॥ ६°पांसु भा० ॥ ७ कारणाकार्या भा० ॥८°स्तेन कारणेन प्र० ॥ ९°दन्यत्र फलं प्र०॥ १० काणि शास्त्रा य० ॥११ धन्तरदृष्ट य० ॥ १२ उपहृतव्यापारं य० ॥१३ हेत्वों भा० । अत्र हेत्वर्थ इति पाठः समीचीनतर इति भाति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org