________________
सदसत्कार्यवादः]
द्वादशारं नयचक्रम् कालादिकारणान्तरनिरपेक्षस्य तस्य स्वतन्त्रत्वात् सर्वपुरुषार्थप्रवृत्तत्वाच निरवशेषपुरुषविषये खान्यत्वज्ञापने कृते कृतकृत्यत्वात् किं साम्यावस्थानेन ? अकृतेऽप्यकृतकृत्यत्वात् किं प्रतिनिवृत्त्या प्रयोजनम् ? ।
अनभिव्यक्तिसाम्यावस्थानानुपपत्तेश्च किमिति सततसमवस्थितसमनुप्रवृत्ति प्रत्यक्षकारणनानाभेदाभिव्यक्तिखभावमेवेदं जगन्नाभ्युपगम्यते? मृत्पिण्डप्रवृत्तिः स्वभावाद् नियतेः कालाद् यदृच्छाया वेति। एतदपि नोपपद्यते, कालादिकारणान्तरनिरपेक्षस्ये-२८-२ त्यादि । प्रधानं हि कारणं नियतिकालस्वभावेश्वरयदृच्छाद्यन्यतमानपेक्षं कारणं जगतोऽभ्युपगतं भवता, न तु यथा लोकनये क्वचित् कालोऽपि नियतिरपीत्यादि । स्वतन्त्रत्वाञ्च तस्य प्रकृतिपुरुषयोः स्वरूपभेदपरिज्ञापनस्य स्वार्थस्यानुरूपश्रोत्रायेकादशेन्द्रियग्रामस्य शब्दबुद्ध्यादिविकल्पग्रामस्य वचनादानविहरणानन्दोत्सर्गकर्मशब्दाद्यर्थग्रामस्य च निर्वर्तने स्वतन्त्रत्वान्न कारणान्तरापेक्षास्ति । सर्वपुरुषार्थप्रवृत्तत्वाच्च 10 कृतार्थस्याकृतार्थस्य च यथासङ्ख्यं साम्यावस्थाने 'निवृत्तौ च प्रयोजनाभाव इत्यत आह-निरवशेषपुरुषविषये स्वान्यत्वज्ञापने कृते कृतकृत्यत्वात् किं साम्यावस्थानेन ? अकृतेऽप्यकृतकृत्यत्वात् किं प्रतिनिवृत्त्या प्रयोजनम् , असिद्धौदनसूपकारनिवृत्तिवत् ? इति तदवस्थमप्रयोजनत्वम् । अत्र चोद्यम् - ननु प्रागुक्तम् - अनभिव्यक्तिसाम्यावस्थाने चायुक्ते, अप्रयोजनत्वात् , निर्वृत्तानिर्वृत्तार्थक्रियौदासीन्यवदिति, अतः पुनरुक्तमिति । अत्र ब्रूमः - न, कारणान्तरापेक्षाप्रतिषेधपरत्वादस्य, प्रवृत्ति-15 निवृत्त्योः प्रधानस्य अप्रयोजनत्वमात्रप्रतिपादनपरत्वात् तस्येत्यदोषः। "
अव्यक्तिसाम्यावस्थानानुपपत्तेश्चेति । अप्रयोजनत्वादिभिरनभिव्यक्तिसाम्यावस्थाने अनुपपन्ने, ततश्चाव्यक्तिसाम्यावस्थानानुपपत्तेः किमिति किं कारणं जगदेवंस्वभावमिति न गृह्यते ? इत्यभिसम्बन्धः । सततसमवस्थितसमनुप्रवृत्तीति, सततं सर्वकालं समवस्थिता नित्यानुपरता समनुप्रवृत्तिः कारणकार्यप्रवृत्त्यात्मिका प्रकर्षेण वृत्तिर्यस्य तदिदं जगत् सततसमवस्थितसमनुप्रवृत्ति । प्रत्यक्षकारणनाना-20 भेदाभिव्यक्तिस्वभावमिति, प्रत्यक्षाणि च तानि कारणानि च प्रत्यक्षकारणानि मृत्पिण्डदण्डचक्रोदकसूत्र-२९-१ कुलालादीनि घटादीनां कार्याणाम् , तानि नानाजातीयानि, तन्तुतुरीवेमकुविन्दादीनि पटादीनामित्येवंप्रकाराणि, तेषां भेदाः प्रत्यक्षकारणनानाभेदाः, तैस्तेषां वाभिव्यक्तिर्घटपटादिकार्यरूपेण, सैव स्वभावो यस्य तदिदं प्रत्यक्षकारणनानाभेदाभिव्यक्तिस्वभावम् । किं तत् ? जगत् । एवेत्यवधारणे, किमवधारयति ? प्रत्यक्षदृष्टशुक्रशोणिताहारादिकारणान्येव इत्यवधारयति । किमतो निरस्तम् ? अव्यक्तादि अदृष्टं कारणा- 25 न्तरम् । तस्माद् दृष्टकारणनानाभेदाभिव्यक्तिस्वभावमेवेदं जगत् किमिति नाभ्युपगम्यते ? किमित्यदृष्ट कारणान्तरं परिकल्प्यते ? इति । एवं तावत् कारणे कार्यसदसत्त्वानियम उक्तः ।
१ यदृच्छायद्यत्यतदपि प्र०॥ २ निवृत्ते च प्र०॥ ३ पृ. ४० पं० ३ ॥ ४ वायुक्ते य० ॥ ५ नुपपत्तिः प्र० ॥ ६ नित्या अनुप' भा० ॥ ७ प्रवृत्ति क्षकारणनानामेदादिव्यक्ति प्र०॥ ८ च तानि प्रत्यक्ष भा० ॥ ९इत्यवधारयंते भा० । इत्यवधार्यते पा० डे. ली. । इत्यवधार्यते वि. रं. ही। तुलना- "एवेत्यवधारणे, किमवधारयति ? लोकेऽर्थमवधारयति"-नयचक्रवृ० पृ. ३९-२॥ १० अदृष्टकारणा भा०वि०विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org