________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे अग्निदहनप्रकाशनप्रवृत्तः।
ननु भस्मच्छन्नोऽग्निरपि न दहति न प्रकाशयति। अथ कथं जीवति ? कथं ज्ञायते 'अग्निः' इति अदहन्नप्रकाशयन् वा तावत् कोशकादि स्वाश्रयमात्रम् , गृहप्रदीपकवत् ? छादनाभावोऽपि च प्रधाने ।
5 तेनैव स्वभावेन नित्यप्रवृत्तं दृष्टम् , यथाग्निदहनप्रकाशनप्रवृत्तः। यत् पुनर्नित्यप्रवृत्तं न भवति न तत् तत्स्वभावम् , यथा न किञ्चित् तादृगिति ।
दहनादितत्स्वभावस्याग्नेस्तथाप्रवृत्त्यदर्शनात् साध्यधर्मवैकल्यं दृष्टान्तदोष इति तन्निदर्शयन्नाह - ननु भस्मच्छन्नोऽग्निरपि न दहति न प्रकाशयतीति, दहनतपनयोरभेदादिति । अत्रोच्यते- अथ २८-१ कथं जीवति ? इति । जीवनमग्नेश्चेतनत्वात् , चैतन्यमाहारलाभालाभयोः पुष्टिग्लान्यादिदर्शनाद् मनुष्य10 वत् । स चेन्धनं दहन जीवति, स्थितेर्जीवितपर्यायत्वात् स्थितेरिन्धनदहनाविनाभावात् । अचेतनत्वमभ्युप
गम्यापि स्थितिप्रकाशनेन्धनदहनात्मकस्याग्नेः प्रत्यक्षानुमानविषयस्य सतस्तथा प्रत्यक्षानुमानाभ्यामग्रहणेऽस्तित्वे प्रमाणान्तरासिद्धेः कथं ज्ञायते 'अग्निः' इति अदहन् अप्रकाशमानः अप्रकाशयन् वा द्रव्यान्तरं तावत् कोशकादि स्वाश्रयमात्रम् ? तत् पँरिमाणमस्य तावत् , स्वपरिमाणमात्रमपि स्वाश्रय
द्रव्यं कोशकादि अप्रकाशयन् कथम् 'अग्निः' इत्युच्यते ? कोशक इत्युच्यतेऽन्नपुलिका । दृष्टान्तो 16 गृहप्रदीपकः । गृहे प्रज्वालितः प्रदीपको गृहप्रदीपकः, यथा गृहप्रदीपँकोऽन्नपुलिकामात्रमपि यदि न
प्रकाशयति प्रकाशात्मकः सन्न 'प्रदीपः' इति ज्ञायते; अग्निवैधर्म्यदृष्टान्तो वा- गृहप्रदीपो गृहं प्रकाशयअस्ति, यदि न तथाग्निः स्वमाश्रयं प्रकाशयति प्रकाशात्मकः संस्ततो नास्तीति गम्यते । किश्चान्यत् , भस्मच्छन्नाग्निसाधाभावोऽपि च प्रधानस्य च्छादनाभावादित्यत आह -छादनाभावोऽपि च प्रधान इति । अग्नेर्भस्मवत् प्रकृतेरावरणाभावाद् भस्मच्छन्नाग्नितुल्यं न भवति प्रधानमतो विशेष्य ब्रूमः - निरा20 वरणाग्निदहनप्रकाशनवत् तत्स्वभावत्वान्नित्यप्रवृत्तेनैव भवितव्यम् । इति तदवस्था नित्यप्रवृत्तता । ततश्चानभिव्यक्तिसाम्यावस्थानानुपपत्तिः ।
स्यान्मतम् – यद्यपि प्रधानं महदादिभावनात्मान्तरत्वप्रकाशनार्थं पुरुषस्य प्रवर्तते तथापि केषाश्चित पुरुषाणां कृते प्रयोजनेऽन्येषामकृते कालक्रमेण व्यक्त्यव्यक्तिसाम्यवैषम्यावस्थाः प्रतिपद्यते, सा चास्य
१ स चेनं भा० । स चेतनत्वनं य० ॥ २ प्रकाशनेत्वमदहना प्र०॥ ३ अदहनप्रकाशमानः प्र०॥ ४ परिणमस्य प्र० । “यत्तदेतेभ्यः परिमाणे वतुप्"-पा० ५।२॥३९॥ ५ °च्यतेऽत्रपुलिका य० । 'च्यतेत्रपुलिका भा० । सर्वाखपि प्रतिषूपलभ्यमानस्य 'अत्रपुलिका' इति पाठस्यात्र कोऽर्थ इति सम्यग् न विज्ञायते, तथापि भाजनविशेषोऽत्राभिप्रेतः स्यादिति मत्वा अन्नपुलिका इति पाठोऽत्र सम्भाव्यते । 'अत्र' इति 'पुलिका' इति च पृथक् पदद्वयं तु नैवात्र जाघटीति । अप्रेऽपि गृहप्रदीपकोऽत्रपुलिकामात्रमपि [पं० १५] इति वचनात् तत्र च 'अत्र' इति पृथक् पदस्य सर्वथा अनावश्यकत्वादमङ्गतत्वाच्चेति ध्येयम् ॥ ६ गृहीदीपकः प्र० ॥ ७°पकाऽत्रपुलिका प्र०॥ ८ ज्ञायतेग्निरिति वैधर्म्य य०। य०प्रतिपाठानुसारेणात्र 'ज्ञायते तथा न ज्ञायतेऽमिरिति । वैधHदृष्टान्तो वा' इत्यपि पाठः स्यात् ॥ ९भश्म य० । एवमग्रेऽपि ॥ १० अग्निर्भ० प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org