________________
सदसत्कार्यवादः ]
द्वादशारं नयचक्रम्
आत्मान्तरत्वप्रकाशनं हि ज्ञानार्थस्य स्वतन्त्रस्य अप्रतिहतसर्वगतत्वस्य प्रधानस्य धर्मः । अतस्तेन नित्यप्रवृत्तेनैव भवितव्यम्, तत्स्वभावत्वात्, यथा
प्रकृते
सम्बन्धिनी यस्मात् कारणान्तरस्य वा तथाप्रणेतुरापत्तिः, कारणादन्यत् कारणं कारणान्तरम्, रन्यत् कारणं यत् प्रकृतिं तथा प्रणयति तदस्ति स्वभावनियतिकालयदृच्छेश्वरादीनामन्यतमदित्यापन्नम्, अनिष्टं चैतत् ।
४१
कारणान्तरनिरपेक्षस्य कारणस्य स्वकार्याकरणं च युक्तिविरुद्धमित्यत आह - आत्मान्तरत्वप्रकाशनं त्यादि यावत् प्रधानस्य धर्म इति । आत्मनोऽन्य आत्मा आत्मान्तरम् तस्य भाव आत्मान्तरत्वं परस्परविभिन्नमहदहङ्काराद्यवस्थान्तरत्वम्, तस्य प्रकाशनम् । हिशब्दो यस्मादर्थे, यस्मादनभिव्यक्तेः साम्यावस्थानस्य च प्रतिपक्षोऽवस्थान्तरप्रकारत्वेन आत्मप्रकाशनमयं प्रकृतेर्धर्मः । स्यान्मतम् - उपायानभिज्ञत्वात् कारणान्तरं साचिव्यगुणोपेतमपेक्षत इति एतच्चायुक्तम्, ज्ञानार्थत्वात् । उक्तं च - धर्मज्ञान- 10 वैराग्यैश्वर्याणि बुद्धिधर्मः(र्मा) अधर्माशांना वैराग्यानैश्वर्याणि च । तेषामष्टानां सप्तभिर्बध्नाति न मोचयति [ ] इति तस्य प्रधानस्य ज्ञानार्थस्य परिणत्यवस्थात्मकस्यायुक्ता सचिवापेक्षा | स्यान्मतम् - परतन्त्रत्वात् सहायान्तरमपेक्षते, तच्च न, स्वतन्त्रत्वात् । स्यान्मतम् - क्वचित् प्रधानं कारणं कचि - दन्यत्, अव्यापित्वात्, लौकिककालादिकारणवदिति । एतच्चायुक्तम्, अप्रतिहत सर्वगतत्वात् तस्य ।
२७-२
अथवा आत्मान्तरत्वप्रकाशनमिति आत्मा पुरुषः, आत्मनोऽन्य आत्मा आत्मान्तरम्, 15 तस्य भाव आत्मान्तरत्वं पुरुषाद्भिन्नं त्रिगुणस्वभावं स्वमात्मानं प्रधानं पुरुषाय प्रकाशयति । पुरुषाद्वान्यः पुरुष आत्मान्तरम्, तस्य भाव आत्मान्तरत्वं पुरुषान्तरत्वम्, तस्मै पुरुषाय प्रकाश्य आत्मस्वरूपं पुरुषान्तराणां प्रकाशयति, पुरुषान्तरत्वं वा चैतन्य स्वरूप मध्यस्थशुद्ध केवलत्वैः परस्परभिन्नैः पुरुषान्तरस्थैः पुरुषान्तरेषु प्रकाशितेष्वपि अन्येषां पुरुषाणां यत् पुरुषान्तरत्वं तैरेव चैतन्यादिभिर्युक्तं प्रकाशयति । प्रकृतेर्वा स्वयमचेतनाया आचैतन्यस्वरूपस्य प्रकाशनम् । अयं हि धर्मस्तस्य ज्ञानार्थस्य स्वतन्त्रस्य 20 अप्रतिहत सर्वगतत्वस्य प्रधानस्य ।
एवं तस्य स्वभावधर्मं समर्थ्य इदानीमनभिव्यक्तिसाम्यावस्थानप्रतिपक्षभूतं नित्यप्रवृत्तत्वं प्रधानस्यामिमीते - अतस्तेन नित्यप्रवृत्तेनैव भवितव्यमिति प्रतिज्ञा । अत इत्यनन्तरोक्तधर्मत्वात् प्रधानस्य, तद्धर्मत्वमिदानीं हेतुत्वेन व्यापारयितुमाह सामान्यतः - तत्स्वभावत्वादिति, स स्वभावो धर्मो यस्य तत् तत्स्वभावं प्रधानं पूर्वोक्तैर्हेतुभिर्विशेषितमतस्तन्नित्यप्रवृत्तं भवितुमर्हति । इह यद् यद् यत्स्वभावं तत् तत्
25
१ प्रकृति तथा य० ॥ २ उपायानभिक्षत्वात् य० । उपयानभिक्षत्वात् भा० ॥ ३ 'ज्ञानवैराग्या' प्र० ॥ ४ सयुक्तिर्बध्नाति प्र० । “रूपैः सप्तभिरेवं बध्नात्यात्मानमात्मना प्रकृतिः । सैव च पुरुषार्थं प्रति विमोचयत्येक रूपेण ॥ [ साङ्ख्यका० ६३ ] । रूपैरिति सप्तभी रूपैः प्रकृतिरात्मानं बध्नाति । कतमैः ? तदुच्यते - धर्माधर्माज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्याणि एतानि सप्त रूपाणि । एतैः सप्तभी रूपैरात्मानं बध्नाति । सैव च पुरुषार्थं विमोचयत्येकरूपेण । किं तदेकरूपम् ? ज्ञानम् । तेन ज्ञानेन आत्मानं पुरुषाद् विमोचयति एकेन" - जे० साङ्ख्य का० वृ० B ॥ ५ अव्याप्तित्वात् प्र० ॥ ६ आत्मान्तरप्रका प्र० ॥ ७ प्रकाशाव्यात्मस्वरूपं भा० । प्रकाशाय्यात्मस्वरूपं य० ॥ य० ॥ ९ यद्यत्स्वभावं तत्तेनैव य० ॥
८ अचैतन्य
नय० ६
Jain Education International
5
For Private & Personal Use Only
www.jainelibrary.org