________________
o
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [प्रथमे विध्यरे मयूराण्डकरसगतग्रीवादिवद्वा। ननु च देशादेः सर्वत्वात् सर्वात्मकत्वाद् वैषम्यावस्थैव इति लौकिकप्रकृतित्वमेव प्रकृतेः, सर्वात्मकत्वात् , देशादिवत् ।
अनभिव्यक्तिसाम्यावस्थाने चायुक्ते, अप्रयोजनत्वात्, निवृत्तानिवृत्तार्थक्रियौदासीन्यवत् । प्रकृतिकारणत्यागेन कारणान्तरस्य वा तथाप्रणेतुरापत्तिः। 5 न्येथाः तथा हि देशादिकारणं साम्यावस्थानादनभिव्यक्तं प्रधानवत् सर्वं कार्यं न कुरुते । लोकप्रसिद्ध
मप्यत्रोदाहरणम् - मयूराण्डकरसगतग्रीवादिवत् । यथा मयूराण्डकरसावस्थायामेव मेचकवर्णग्रीवाद्यवयवानभिव्यक्तिः तत्साम्यावस्थानात् , अतः सर्वं न भवति मयूराण्डकरसावस्थायामिव तद्रीवादीति ।
अत्रोच्यते - मैवं मंस्थाः, ननु चेत्यादि । नन्वित्यनुज्ञापने, त्वयाप्येतदिष्टम् - सर्व देशादीति । २६-२ तस्माद् देशादेः सर्वत्वात् सर्वात्मकत्वम्, सर्वात्मकत्वाच्च वैषम्यावस्थैव । इतिशब्दो हेत्वर्थे, 10 यस्माल्लौकिकप्रकृतित्वमेव प्रकृतेः सूक्ताभिमतायाः । कथम् ? यथा हि लौकिकी प्रकृतिर्देशादिर्विषमावस्थैव सती सर्वकारणात्मिका कार्यात्मिका विषमा समा च व्यक्ता चाव्यक्ता च तथा साङ्ख्यपरिकल्पितप्रकृतिरपि स्यात् । किं कारणम् ? सर्वात्मकत्वात् , देशादिवद् मयूराण्डकरसवद् वा वैषम्यावस्थैवेत्यर्थः । साम्यावस्थैव वा देशादेरपि, सर्वात्मकत्वात् , प्रकृतिवदिति ।।
किश्चान्यत् - एते अपि च कल्पने नोपपन्ने- देशादीनामनभिव्यक्तिः प्रकृतेः साम्यावस्थान15 मिति । कस्मात् ? अप्रयोजनत्वात् । न हि देशादीनामनभिव्यक्ती प्रयोजनमस्ति, पुरुषविमोक्षणहेतो
य॑क्तरूपतया प्रवर्तमानानां तथा पुरुषार्थसिद्धेः, अंनिर्वृत्तौदैनस्य पचिक्रियायामौदासीन्यवत् । नापि निर्वर्तितार्थायाः प्रकृतेः पुनरात्मानमुपसंहृत्य साम्यावस्थाने किञ्चित् प्रयोजनमस्ति, सिद्धौदनस्य ओदनार्थरन्धनादिप्रवृत्तिवत् । अथवा प्रकृतेरेव अनभिव्यक्तिसाम्यावस्थाने न युक्ते, अप्रयोजनत्वात् । अप्रयो
जनत्वं निर्वृत्तानिवृत्तार्थत्वात् । यदि निर्वृत्तार्था, सिद्धौदनरन्धनवदयुक्तं साम्यावस्थानम् । अनिर्वृत्तीर्थं चेत् ५८ प्रधानम् , असिद्धौदनौदासीन्यवदयुक्तं साम्यावस्थानम् । तथानभिव्यक्तिः । किं कारणम् ? प्रकाशनार्थं
प्रवृत्ताया व्यक्तिवैषम्याभ्यां तदर्थसिद्धेः, ताभ्यामृते चासिद्धेः, अनभिव्यक्तिसाम्यावस्थानयोरपि प्रवृत्तिविशेषत्वात् , द्विधाप्यप्रयोजनत्वादयुक्तमिति । अथवाऽप्रयोजना अनभिव्यक्तिः, निर्वृत्तार्थत्वात् , देशादि
रूपेण प्रकाशितात्मवृत्तिः किमर्थं नाभिव्यज्यते ? किमर्थं वा सर्वं पुरुषार्थमकृत्वा साम्येन अवतिष्ठते ? २७-१ सायश्च द्विविधपुरुषार्थसिद्ध्यै प्रकृतिप्रवृत्तिरिष्टा, नाकस्मिकी यदृच्छावादिमतवत् । न चेश्वरस्वभावादि20 कारणवादिमतवद् वा कारणान्तरम् । यथासङ्ख्यं चात्र दृष्टान्तद्वयं दर्शयति - निवृत्तानिवृत्तार्थक्रियौदासीन्यवदिति, पचनापचनवदोदनस्येत्यर्थः । स्यान्मतम् - तस्याः प्रकृतेरव्यक्तिसाम्यावस्थाने कालनियतियदृच्छास्वभावेश्वराद्यन्यतमकारणवशादिति। एतच्चायुक्तम् , प्रकृतिकारणत्यागेन अभ्युपेतविरोधदोष
१°वर्णाग्रीवा प्र० ॥ २°नादतः सर्व न भवति मयूराण्डकरसादतः सर्वे न भवति मयूराण्डावस्थायामिव य०॥ ३ प्रकृतेष्टक्ताभिमतायाः प्र० । तुलना-“समस्ततन्त्रार्थविघटनमेवेति किमवशिष्यते वार्षगणे तन्त्रे ? सुभाषिताभिमतस्त्याज्योऽयमनुपपन्नपरोक्षार्थवादः" - नयचक्रवृ० पृ. २३२-२॥ ४ देशादिविषमा प्र०॥ ५ विषमा च व्यक्ता चा भा० ॥ ६ स्थानामिति प्र०॥ ७°षार्थसिद्धिः भा० ॥ ८ अनिवृत्तौ प्र० ॥ ९°वनस्पते क्रियाया वि०॥१० ओदनाथोरन्धनादि भा०।ओदनाथोरचनादि य० ॥ ११°त्तार्था चेत् य० ॥ १२ प्रवृत्तयो रे. ही• विना ॥ १३ प्रकाशिका ता(वा.)त्मवृत्तिः प्र० ॥ १४ °कारणित्वत्यागेन भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org