________________
३९
सदसत्कार्यवादः]
द्वादशारं नयचक्रम् तत्र देशकालाकारनिमित्तावबद्धत्वान्नेष्टमेव फलमवाप्यते, ज्ञाव्याख्यानवत् । अथ देशादयः किम् ? यदि ते कार्य ततस्तेषामकारणत्वादसर्वत्वादतन्त्रत्वादप्रतिबन्धकत्वम् । अथ ते कारणं ततः सर्वकारणत्वसर्वात्मकत्वात् किमिति सर्व न भवति, समुदितकारणत्वात् , संयुक्ततन्तुपटवत् ?
अथ वा सर्व न भवति, अनभिव्यक्तत्वाद्देशादेः, प्रधानसाम्यावस्थानवद् । सेवकयोर्यथेष्टं विग्रहसम्बन्धौ । युक्तं हि ताभ्यामीप्सितार्थप्राप्तियुक्ताभ्यां भवितुम् , नानीप्सितक्लेशभाग्भ्याम्। को दृष्टान्तः ? सर्वशास्त्रज्ञान्यतरव्याख्यानवत् । यथा सर्वशास्त्रज्ञः पुरुषो व्याकरणाद्यन्यतमच्छास्त्रमीप्सितमेव व्याचष्टे तथैतदिति ।
अत्र ब्रूमः -तत्र देशकालाकारनिमित्तावबद्धत्वान्नेष्टमेव फलमवाप्यते सेवकेनेव प्रसन्ननृपादपि, स्वनगरभाण्डागारादिक्षेत्रप्रतिबन्धवत् श्वःप्रभातादिकालप्रतिबन्धवत् प्रसाददानाभिमुख्याकारा- 10 वबन्धवत् द्वितीयकर्मण्यताप्रदर्शनादिनिमित्तावबन्धवत् । शास्त्रज्ञदृष्टान्तस्यापि तादृग्विधावबन्धसद्भावे सति अव्याख्यानवदनियम एव फलस्येत्यत आह - ज्ञाव्याख्यानवत् , सर्वशास्त्रज्ञोऽप्येभिरेवावबन्धैरीप्सितं न व्याचष्ट इति ।
लौकिको ब्रवीति - अथ देशादयः किम् ? इति । विकल्पद्वयान्तःपातेन निरोत्स्याम्येतदित्यभिप्रायः । ये देशादयोऽवबन्धकाभिमतास्ते यदि कार्यतयेष्टास्ततस्तेषामकारणत्वादसर्वत्वम् । 15 कारणभावाद्धि सर्वं सर्वात्मकं स्यात्, तदभावादसर्वत्वं देशादीनां प्राप्तम् । असर्वत्वाञ्च तेषामतत्रत्वं तेषु, कस्यचित् तदधीनवृत्तित्वाभावात् । ततोऽतत्रत्वादप्रतिबन्धकत्वमपि ।
अथाचक्षीथाः - ते देशादयः कारणमिति । ततः कारणं चेत्, सर्वकारणत्वात् सर्वात्मकत्वात् किमिति सर्व न भवति ? भवत्येवेत्यर्थः । कस्मात् ? समुदितकारणत्वात्, समुदितकारणत्वं सर्वकारणत्वात् सर्वात्मकत्वाच्च । अत्र प्रयोगः - सर्वं सर्वत्र स्यात् , समुदितकारणत्वात् , संयुक्ततन्तु-20 पटवत् । यथा तन्तूनां परस्परसंयोगे सति नियमात् पटो भवति स्वकारण वसंनिधानादेवं सर्वकारणत्व- २६-१ सर्वात्मकत्वसद्भावे को देशादिप्रतिबन्धो नाम अन्य इति किमिति मुँधा सर्वं न भवेदिति ? .
अथ वा सर्व न भवतीत्यादि स एव लौकिक आशङ्कते । अथ मतं भवतः साङ्ख्यस्य - सर्व न भवति शरीरक्लेशसुखार्थानर्थप्राप्त्यादि । कुतः ? अनभिव्यक्तत्वात् । अङ्ग व्यक्तिम्रक्षणगतिषु [पा० धा० १४५९], म्रक्षितमभिव्यक्तं स्फुटीकृतम् , अनभिव्यक्तमस्फुटम् , अनभिव्यक्तत्वाद् देशादेः कारणस्य सर्वं 25 न भवति । को दृष्टान्तः ? प्रधानसाम्यावस्थानवत् । यथा प्रधानं सत्त्वरजस्तमस्त्रिगुणत्वसाम्यावस्थानेऽनभिव्यक्तत्वात् सर्वकारणमपि सत् सर्वान् भावान्न प्रकरोति घटपटादीन , अथ च प्रकरणात् 'प्रकृतिः' प्रधीयन्ते भावास्तत इति 'प्रधानम्' इत्यादिभिर्नामभिरुच्यते, तस्य चानभिव्यक्तत्वं तत्साम्यावस्थानान्म- .
१°वत् धेःप्रभाता प्र०॥२ शास्त्रज्ञादृष्टान्तस्यापि य०।शास्त्रस्यापि भा० ॥३°ख्यानवादनि य०॥ ४ सर्वशशास्त्रज्ञों य० ॥ ५ यदे कार्य प्र० ॥६°मकारत्वाद प्र० ॥ ७ मुवा भा० । मुचा य० ॥ ८ "अजू व्यक्तिम्रक्षणकान्तिगतिषु'-पा० धा० १४५९ । “अजीप व्यक्तिम्रक्षणगतिषु"- 10 ॥१६॥ ९ मपि न भावान्न भा०। मपि सत् सर्वा भावान्न य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org