________________
5
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ प्रथमे विध्यरे
स्पर्शस्य, नीलोत्पलवत् । तथा न्यग्रोधफलमसत्कारणं दृष्टम् । आम्रपुष्पफले सत्कार्यकारणे दृष्टे ।
सर्वसर्वात्मकत्व सर्वकारणत्वात् सेवादिक्रियाकलापो यथा अर्थप्राप्तेः कारणं तथा क्लेशप्राप्तेरपि ।
नवत एव क्लेशोऽपि भवतीति चेत्, एवं सतीप्सितेन तावद्भवितव्यम्, सन्निहिततच्छक्त्तयभीहितत्वात्, सर्वशास्त्रज्ञान्यतरव्याख्यानवत् ।
तदा स मन्यते वक्ता - इदं तावत् प्रतिष्ठां यातु 'करोतीति कारणम्' इति । प्रतिष्ठिते चास्मिंस्तत उत्तरकालं सिद्धे सति कारणत्वे सम्भवतः कार्यसत्त्वासत्त्वयोः तेन विशेषणप्रकारेण करोत्येव न करोत्येवेति विकलादेशवशान्नियमोपपत्तेर्विशेषणमाश्रीयते । को दृष्टान्तः ? नीलोत्पलम् । यथा हि 'नीलोत्पलं भवति' इति 10 तद्भवनमात्रं विधीयते ' नीलमेव, उत्पलमेव' इति वा नियमविशेषानाश्रयणात्, तथा 'करोतीति कारणम् इति क्रियाभवनमात्रं विधीयते 'करोत्येव, न वा' इत्यनाश्रित्य विशेषनियमम् । यथा वा नीलं तिल - कम्बलादिविशेषानपेक्षम् उत्पलमपि रक्ततादिविशेषानपेक्षं परस्परविशिष्टमुभयमुच्यते तथा 'करोतीति कारणम्' इति करणमात्रं देशकालादिकार्यप्रतिबन्धाप्रतिबन्धनिरपेक्ष मुच्यते । अथवा शबलोत्पलत्वे सत्यपि तस्य धर्मभेदानपेक्षं 'नीलोत्पलम्' इत्युच्यते, तथा करणभावाभावभेदधर्मनिरपेक्षं क्रियामात्रं 'करोतीति कारणम्' इत्युच्यते ।
20
३८
15
तथा न्यग्रोधफलम् । तेन प्रकारेण तथा, यथा प्रागुक्तसदसत्त्वानियमात्तु कारणे कार्यस्य २५-१ कारणतायामेव करणाकरणे तथा कार्यकरणाकरणानियमात्तु कारणस्य कार्यस्य कार्यत्वानियमः । वट
25
न्यग्रोधोदुम्बरादिफलानां फलत्वात् पुष्पकार्यत्वानुमानप्रसङ्गे फलमसत्कारणं दृष्टमिति पूर्ववद् व्यभिचारः । आम्रपुष्पफले सत्कार्यकारणे दृष्टे इत्यत्रापि कादाचित्कयोरेव कार्यकारणयोर्दर्शनात् कार्यकारणसदसँत्करणाकरणानियममेव दर्शयति ।
इतश्च कार्यकारणसदसत्त्वानियमः - सर्वसर्वात्मकत्व सर्वकारणत्वात् । स्थावरजङ्गमाभ्यवहृतान्योन्यरसरुधिरादिरूपादिपरिणामापत्तिवैश्वरूप्यदर्शनात् सर्वं सर्वात्मकम्, तत एव सर्वं सर्वस्य कारणं कार्यं चेति कृत्वा सेवादिक्रियाकलापो यथा अर्थप्राप्तेः कारणं तथा क्लेशप्राप्तेरपि प्रकल्प्यत एव कारणम् । तदपि च फलमर्थकुशप्राप्त्यादि अनियतम् उभयत्र व्यभिचारात् ।
२५-२
इतर आह- नन्वत एव क्लेशोऽपि कार्यसत्त्वादेव भवतीति 'नियतं कारणे कार्यम्' इत्यापन्नं "चेदित्येवं चेन्मन्यसे । एवं सति ईप्सितेन तावद् भवितव्यम् । किं च तदीप्सितं फलम् ? अर्थप्राप्तिः, न क्लेशः सेवकस्य । किं कारणम् ? सन्निहिततच्छक्त्यभीहितत्वात् । सन्निहिता सा शक्तिरस्य सोऽयं सेवकः सन्निहिततच्छक्तिः अप्रोषितार्थप्राप्तिशक्तिः, "सेवा वा सन्निहिता, सा शक्तिरस्याः सा सन्निहिततच्छक्तिः, तया अभीहितत्वात् चेष्टितत्वादिति वृत्तिवृत्तिमतोरनन्यत्वात् सेवा - १ सम्भवतः इति पञ्चम्यर्थे 'तसि' प्रत्ययान्तः शब्दप्रयोगः, कार्यसत्त्वासत्त्वयोः सम्भवादित्यर्थः ॥ २ करोत्येव वेति १० ही ० । करोत्येव न करोत्येवेवेति पा० । अत्र 'करोत्येव न करोत्येव वेति' इत्यपि पाठः स्यात् ॥ ३ कारणभावा° य० ॥ ४ तथा तथा प्रागुक्त' य० । तथा प्रागुक्त' भा० ॥ ५ पृ० ३७ पं० ३ । अत्र 'प्रागुक्तं' इत्यपि पाठः स्यात् ॥ ६ दृष्टवदिति पूर्ववद् प्र० ॥ ७ सत्करणाकारणनियम प्र० ॥ ८ रूपदर्शनात् पा० विना ॥ ९ प्रकृत्यत प्र० ॥ १० वेदिव्यचेन्मन्यसे य० ॥ ११ सवा वा य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org