________________
३७
सदसत्कार्यवादः]
द्वादशारं नयचक्रम् मिति चेत्, न, व्यक्तिकार्यस्य अव्यक्तकार्यत्वादसत्त्वतुल्यत्वात् । बीजादीनामप्यकारणतैव क्वचिदकरणादिति कारणमप्यकारणमेव, कार्यकारणाव्यभिचाराभावात् । कार्यसदसत्त्वानियमातु कारणे कारणतायामेव करणाकरणे कार्यस्य, अविदितवेदनार्थविधिपरतायां वाक्यप्रवृत्तेस्तस्यामवस्थायामनुपजनितविषयत्वादपवादकार्याणीति । एतच्चायुक्तम् , व्यक्तिकार्यस्य अव्यक्तकार्यत्वादसत्त्वतुल्यत्वात् । व्यक्तिः कार्यमस्येति । व्यक्तिकार्यम् । किं तत् ? कार्यम् । तस्य कार्यस्य अव्यक्तकार्यत्वात् , असत्त्वेन तुल्यम् , तद्भावोऽसत्त्वतुल्यत्वम् , तस्मादसत्त्वतुल्यत्वान्नाव्यक्तं कार्यमस्तीति । अथवा व्यक्तिश्च सा कार्य तद् व्यक्तिरेव कार्यम् , तदव्यक्तं कार्यमव्यक्तकार्यम् , तस्याव्यक्तकार्यत्वादसत्त्वतुल्य[त्व]म् , तस्मादसत्तद् वातकर्कोटक्यादिपुष्प फलम् , नाव्यक्तं कार्यमिति । स्यान्मतम् – करोतीति कारणम् । यथोक्तम् -
__ 'ष्ठिवसिव्योयुट्परयोर्दीर्घत्वं वष्टि भागुरिः।
करोतेः कर्तृभावे च सौनागाः सम्प्रचक्षते ॥ [ तस्मात् स्वकार्यस्याकरणादकारणत्वमेवेति । एतदपि नोपपद्यते, यस्माद् बीजादीनामप्यकारणतैव क्वचिदेकरणादिति प्राप्तम् । इतिशब्दो हेत्वर्थे । यस्मात् तेषामपि बीजानां त्रिवर्षपरमोषितानामङ्कराद्युत्पादने शक्त्यभावः, आदिग्रहणाद् मृदादेर्घटाद्युत्पादने । ततः को दोषः ? कारणमप्यकारणमेवास्तु । कार्यकारणाव्यभिचाराभावादिति । एवं च सति कृषीवलादीनां सकृदृष्टबीजाङ्कुरादिकारणकार्यभावव्यभिचाराणां तदर्थप्रवृत्तेः पुनरनारम्भात् करणाभावे कारणाभाव एव स्यात्, अनिष्टं चैतत् । लोके २४-: पुनरुपपद्यते-कार्यसदसत्त्वानियमात्तु कारणे बीजादौ कारणतायामेव सत्यां करणाकरणे सन्निहिते तन्त्वादौ कारणे कार्यस्य पटादेश्च, कादाचित्कयोः करणाकरणयोर्दर्शनात् ।.
स्यान्मतम् - कारणे कार्यस्य सदसत्त्वयोः करणाकरणयोश्चानियमे किमर्थं पुनः 'करोतीति कारणम्' 20 इति शब्दव्युत्पत्तिराश्रीयते ? "इति । अत्रोच्यते - अविदितवेदनेत्यादि । अज्ञातज्ञापनमविदितवेदनमर्थोऽस्य विधेरिति अविदितवेदनार्थो विधिः, तत्परतायां वाक्यप्रवृत्तेः तस्यामवस्थायामनुपजनितविषयत्वादपवादस्पर्शस्य । तदा हि 'करोतीति कारणम्' इति कारणत्वविधानमात्रं क्रियते देशकालादिविशेषाविशेषणादसति स्वविषये कमर्थमपवादः स्पृशेत् - किं करोत्येष न करोत्यपि क्वचित् कदाचिदिति ?
१ व्यक्तिंच प्र०॥२ अत्र 'तदव्यक्तं कार्यमव्यक्तकार्य तस्याव्यक्तकार्यत्वादसत्त्वतुल्यम्' इति योजनायां यथाश्रुतमपि समीचीनमेवेति भाति ॥ ३ ष्ठिवसीब्योर्लुट्पर य० ।ष्टिव्सीव्योल्ट्पर भा। “ष्ठिवु निरसने" -पा० धा० ५६०, १११० । “षिवु तन्तुसन्ताने"-पा० धा० ११०८ । “ष्ठिविषिव्योयुटि वा दीर्घः” - इति अमरकोषटीकायां क्षीरखामी ॥ ४ °स्याकरणात्कारणत्वमे य० । °स्याकारणाकारणत्वमे भा० ॥ ५ °दकारणा प्र० ॥ ६ त्रिवर्षे परमोषितामंकुराधुउत्पादनं । शत्त्य भा० । त्रिवर्षपरिमोषितामंकुराधउत्पादनाशक्य य० । “वि यज्ञेन धर्मस्तेषु महान्भवेत् । यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः ॥"-महाभा० आश्वमे० ९१।१६ ॥ ७ मृदादिघटा' प्र० ॥ ८ कार्यकरणाव्य भा० ॥ ९ तदर्था याः ?] प्रवृत्तेः प्र० ॥ १० कारणाभावे प्र० ॥ ११ कायसदसदसत्त्वानिय भा० । कासहसत्वानिय य.॥ १२ करणे प्र०॥ १३°णयोएघानियमे प्र०॥ १४ इत्युच्यते अविदित य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org