________________
10
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ प्रथमे विध्यरे
तथाच कारणे कार्यसदसत्त्वानियमः, कारणे सत्येव भावाभावाभ्यामसति च सेवाद्युद्योगफलानियमात् । तद्यथा-वातकर्कोटकीपुष्पं दृष्टमसत्कार्यम् । अव्यक्त
तथान्येऽपि
25
३६
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
5
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ [ वाक्यप० १ | ३४ ] इति ।
२३-२ अनुमानान्तर्रबाध्यत्वेऽनवस्थितानुमानत्वाल्लोकप्रसिद्धिरेव प्रमाणमित्यर्थः । को ह्येतद् वेद इत्यशक्यप्राप्तिं दर्शयति किं वानेन ज्ञातेन इति प्रयोजनाभावं च । यस्मात् प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनानां जिज्ञासासंशय-शक्यप्राप्ति-प्रयोजनपूर्वाणां संशयव्युदासः फलमन्ते भविष्यतीति दशावयववादिनां मतम्, तथा च व्यवहारप्रसिद्धिः। तस्मात् त्यज्यन्तामद्य तनाव्या त्यतिप्रसङ्गागमकाक्षरदरिद्रकु सृतिकाररचितन्यायलक्षणानीति ।
तथा च कारणे कार्य सदसत्त्वानियमः । एवं च कृत्वानेन न्यायेन यथा 'कारणमेव, न कार्यम्; कार्यमेव, न कारणम् ; सामान्यमेव, न विशेष: ; विशेष एव न सामान्यम्; उभयम्; अन्यतरोपसर्जनम्; उभयाभावो वा' इत्ययं नियमो नास्त्युक्तविधिना तथा कारणे कार्यस्य सत्त्वमेव असत्त्वमेवेत्ययमपि नियमो नास्ति । कथम् ? यदि कार्यं सत् ततः ' कारणमेव ' इति नास्ति, कार्यस्यापि सत्त्वात् । कथम् ? क्रियानिमित्तकत्वात् कारणकार्यत्वयोः कार्याभावे कारणाभावः कारणाभावे कार्याभाव इति । 15 तथा यदि कारणं सत्, ततः कार्यमेव न भवति, कारणस्यापि सत्त्वात् । एवं सामान्यविशेषोभयान्यतरोपसर्जनोभयाभावेष्वपि भावनीयम् । तत्र तावत् कारणे कार्य सदेव असदेव सदसच्चैव इति वा ये ब्रुवते तेषां नियमाभाव उक्तः अन्यतरोपसैर्जनोभयाभावयोरप्युक्त एव भवतीत्यभिप्रायः । 'कारणे कार्यं सदेव, असदेव' इत्यनियमः । को हेतुः ? कारणे सत्येव भावाभावाभ्यामित्ययथासङ्ख्यं हेतू । सत्येव भावात् 'असत् कारणे कार्यम्' इत्यनियमः, संत्येवाभावात् 'सदेव' इत्यनियमः । असति च 20 ‘कारणे कार्यस्य सदसत्त्वानियमः' इति वर्तते । कुतः ? सेवाद्युद्योगफलानियमात् । दृष्ट २४-१ लोके कॄषीवलवणिग्राजपुरुषशिल्प्यादीनां कृषिवाणिज्यसेवा शिल्पादिषु कारणेषूद्युक्तानां फलानियमः । स सत्स्वसत्सु च दृष्टः । तद्यथा - - वातकर्कोटकीपुष्पं फलकारणं सत्कार्यम्, पुष्पत्वात्, आम्रपुष्पवदित्यनुमानप्रसङ्गेऽपि च दृष्टमसत्कार्यम् । असत् कार्यं पुष्पफलमस्मिन्नित्यसत्कार्यम् । तस्याफलत्वदर्शनाद् दृष्टविरुद्धमनुमानम् । अतोऽसत्कार्यं तदिति ।
1
अव्यक्तमिति चेत् । स्यान्मतम् - अव्यक्तानि वातकर्कोटकी - वञ्जुल - जपाकुसुमादीनां फलानि
-
1
१ पाध्यत्वेऽनुवस्थिता भा० । 'रपाध्यत्वेनुवस्थिता य० ॥ २ ज्ञानेन प्र० ॥ ३ संशयसम्यक्प्राप्ति' य० । “प्रतिज्ञा हेतूदाहरणोपनयनिगमनान्यवयवाः [ न्यायसू० १।१।३२ ] | दशावयवानेके नैयायिका वाक्ये सञ्चक्षते जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदास इति". इति न्यायसूत्रभाष्ये १।१।३२ ॥ ४ व्यायव्याप्यतिप्रस य० । व्याप्यतिप्रस' भा० ॥ ५ कार्य सदसत्त्वानिवसः य० । कार्यसत्त्वानिवसः भा० ॥ ६ असत्वमेव त्ययमपि भा० लीं० । अत्र 'असत्त्वमेव वेत्ययमपि' इत्यपि पाठः स्यात् ॥ ७ कार्यात्सत्ततः प्र० ॥ ८ कारणभावे भा० ॥ ९ 'सर्जनाभावयो' प्र० । १० भ्यामिति यथासंख्यं प्र० ॥ ११ सत्येवात् भा० । सत्येव भावात् य० ॥ १२ कृषीवल प्र० । एवमग्रेऽपि ॥ १३ शिल्पादीनां प्र० । १४ ज्यासेवा य० ॥ १५ °शिल्पादिषूद्युक्तानां य० ॥ १६ वातकक्वेटिकी भा० । वातककोटिक य० ॥ १७ कर्कोटिकी ं प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org