________________
वस्तुस्वरूपनिरूपणम् ]
द्वादशारं नयचक्रम्
को हि वादानामन्तं कर्तुं शक्नुयात् ? आह च -
णिययवय णिज्जसच्चा सणया परवियालणे मोहा ।
1
अदिसमय विभजइ सच्चे व अलिए वा ॥ [ सम्मति० १२८ को ह्येतद् वेद ? किं वाऽनेन ज्ञातेन ? [
]
वर्तत इति । भाव इति वृत्तिभवनयोः प्रागुक्तं पर्यायशब्दत्वं दर्शयति । योऽसाविति प्रत्यामनति, य एवं 5 व्याख्यातो भावः सोऽसौ तदेव वस्तु नान्यदिति प्रतिपत्तव्यमिति निगमयति । तदन्तरङ्गं प्रधानमनपेक्षं पूर्व वर्तमानं च तद् वस्तु । इतिशब्दः परिसमाप्यर्थोऽवधारणार्थो वा, इयानेव पर्याप्तोऽर्थः, नाँतोऽधिको न्यूनो वा, येऽन्येऽन्यत् कल्पयन्ति - कारणमेव, कार्यमेव, सामान्यमेव, विशेष एव, तदुभयमेव, अन्यतरोपसर्जन प्रधानमेव, नैव वास्त्युभयमिति । किं न एतेन ? यदि कारणम्, यदि २३-१ कार्यम्, ततः को दोष: ? दृश्यते हि कारणमपि कार्यमपि, यथा- परमाणुकारणं द्वधणुकादि मृत्पिण्ड- 10 शिवकादीनां कार्यमपि तद्भेदजत्वात् । एवं द्वद्यणुकत्र्यणुकादीनामपि कारणकार्यभावः सङ्घातभेदाभ्याम् । सामान्यं द्रव्यक्षेत्र कालभावानां स्वपरभवनसामान्यानतिवृत्तेः । स्वपरविशिष्टभवनात्मकत्वाद् विशेषः । एवमुभयमन्यतरोपसर्जनप्रधानत्वं सहक्रमस्वातंत्र्यपारतंत्र्यविवक्षावशात् । न चास्त्युभयम्, एकान्तरूपस्य परस्पराप्रतिबद्धस्यासिद्धेर सिद्ध्या दिशून्यतानुभवनात् ।
३५
स एव व्यवहारनयाश्रैयाल्लौकिको ब्रूते - को हि वादानामिति एकान्तवादानाम् अन्तं कर्तुं शक्नु 15 यात् - उच्छेदं शक्नुयात् कर्तुमिति । किं कारणम् ? न हि साङ्ख्याभिहिताः सत् कारणे कार्यम्, असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥ [ साङ्ख्यका० ९ ]
इत्येवमादयो हेतवः, न वा वैशेषिकोक्ताः क्रियागुणव्यपदेशाभावादसत् [ वै० सू० ९|१|१ ] इत्यादयः, 'क्षणिका घटादयः प्रत्ययायत्तजन्मत्वात्' इत्यादयो वा बौद्धोक्ताः परस्परे णोच्छेत्तुं शक्यन्ते, अभियुक्त- 20 बुद्ध्युत्कर्षपरम्पराया अदृष्टनित्वात् । एतस्मिन्नर्थे ज्ञापकमाह - आह चेति, नाहमेव स्वमनीषिका ब्रवीमि किं तर्हि ? अन्येऽप्येवं ब्रुवते ।
णिययवयणिजसच्चा सवणया परवियालणे मोहा ।
ते पुण अदिमयो विभजइ सच्चे व अलिए वा ॥ [ सन्मति० १।२८ ] स्वविषयसत्यत्वादेवाविचाल्या इति तच्चालने मोघाः । तेषामनेकान्तस्थितिस्वतत्त्वानवबोधात् 'सत्यमेव, 25 असत्यैमेव वा' इत्यदृष्टसमयस्तान् विभजते इत्याचार्यसिद्धसेनः ।
Jain Education International
१ 'ना अभ्यासे' [ पा० धा० ९२९] इति धातोः प्रत्यापूर्वकस्य रूपमिदम् ॥ २ पूर्ववर्त' प्र० ॥ ३ नातो न्यूनोधिको वा भा० ॥ ४° कत्वा विशेषः प्र० ॥ ५ 'तन्याविवक्षा भा० ॥ ६ 'या लौकिका य० ॥ ७ °हिता सत् य० ॥ ८ पा० विनान्यत्र - 'ष्टनिष्टत्वात् । ष्टानिष्टत्वात् पा० । निष्ठा समाप्तिरन्त इति पर्यायाः, तथा च अदृष्टनिष्ठत्वात् अदृष्टपर्यन्तत्वादित्यर्थः ॥ ९ ब्रूमि भा० ॥ १० सम भा० ॥ ११ °त्यमेवेत्यदृष्ट' य० ॥
For Private & Personal Use Only
www.jainelibrary.org