________________
३४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [प्रथमे विध्यरे पेक्षत्वाच तस्यास्तदपेक्षा व्यर्था, इतरेतराश्रयदोषापादनात् । तथा विशेषेऽप्यस्य नापेक्षा, तथाहि स एव न स्यात् , उक्तवत्।-पूर्व यथालोकप्रसिद्धमनपेक्षितपूर्वापरप्रभेदं प्रकृतिः' इति वा 'अन्यत्' इति वा वर्तमानं नित्यं न प्रलयभाक् सद् वर्तते भावो
योऽसौ तदेव वस्त्विति प्रतिपत्तव्यम् । किं न एतेन ? यदि कारणम् , यदि कार्यम् । 5 पेक्षत्वाच्च तस्याः तदपेक्षा व्यर्था । घटावयवसन्निवेशस्वरूपमपेक्षते घटान्तरानुवृत्तिः पटादिव्यावृत्तिश्चेति युक्ता अनुवृत्तेर्घटापेक्षा व्यावृत्तेश्च पटादेः । घटस्य पुनरनुवृत्तिव्यावृत्त्यपेक्षा व्यर्था, स्वत एव सिद्धत्वात् । स्यान्मतम् - घटोऽपि घटत्वापेक्षात्मलाभः, तत्त्वानुवृत्तिरपि घटात्मलाभापेक्षेति । एतच्चायुक्तम् , इतरेतराश्रयदोषापादनात् । घट-घटत्वानुवर्तनयोरितरेतराश्रयत्वदोषमापादयत्येषा कल्पना, इतरेतराश्रयाणि च कार्याणि न पँकल्पन्ते, तद्यथा- नौ वि बद्धा नेतरत्राणाय । 10 इत्युक्तम् - सामान्य नापेक्षत इति । तथा विशेषेऽप्यस्य नापेक्षेति । यथा सामान्यापेक्षा नास्ति
घटात्मलाभस्य तथाविशेषेऽपीति प्रोक्तहेतुविधिनातिदिशति । तथा च योजितमस्माभिरर्थतः । ग्रन्थतो योजनापि - तथा हि स एव न स्यादुक्तवदिति । न हि तस्य व्यावृत्त्यपेक्षा पटादिषु । यदि स्यात्, स तेभ्योऽपि व्यावर्तेत । ततश्च सर्वविशिष्टत्वात् स एव न स्याद् घटोऽपि, घटपटयोरिव । तत्सन्निवेशस्वरूपापेक्षत्वाच्च तस्याः तदपेक्षा व्यर्था, इतरेतराश्रयदोषापादनादिति सर्वमतिदेश्यम् । 15 किश्चान्यत् - पूर्वत्वाच्च घटात्मभवनस्य । सामान्यविशेषाभ्यां हि पूर्व घटभवनम् । तत् कथमिति २२-२ चेत् , यथालोकप्रसिद्धम् । लोके प्रसिद्धं लोकप्रसिद्धम् , यथैव "लोके प्रसिद्धं तथा घटभवनम् ,
आकारादिमात्रमेव च घट इति लोके प्रसिद्धम् , तदेव पूर्वम् , अनपेक्षितपूर्वापरप्रभेदत्वात् । के पुनः पूर्वापरप्रभेदाः ? घटादारभ्य यावत् प्रकृतिस्ते पूर्वप्रभेदाः सायानाम् , 'सत्' इति वा वैशेषिकाणाम् ,
अपरे प्रभेदाः यावदन्त्यविशेषकृतमन्यत् , इति सायवैशेषिकाभ्यां कल्पितम् , अत आह - प्रकृतिरिति 24 वान्यदिति वा । बौद्धेन वा क्षणिकत्वादत्यन्तमन्यदिति । वर्तमानत्वाच्च, वर्ततेरस्त्यर्थत्वात् , अस्तिभवतिविद्यतिपद्यतिवर्ततयः सन्निपातषष्टाः सत्तार्थाः [ ] इति वचनात् । अत एव नित्यं जलाहरणादिव्यवहारसन्निपाति सततमतीतानागतकालयोरपि घटपटाद्यवस्थानात् । न प्रलयभागिति, न अम्भस्तरङ्गवत् खात्मप्रवेशम् , न प्रदीपज्वालानलवदत्यन्तविनाशम् , द्विविधमपि प्रलयं न भजते, द्रव्यस्य पर्यायान्तरेण पर्यायस्यापि ;व्याविनाभावादेव, एकान्तासदुत्पत्तिविनाशवादयोरहेतुदृष्टान्तत्वादेकान्तनित्यवादे च धर्मा25 विर्भावतिरोभावाभावात् । तद्धि तेन रूपेण सर्वकालं सद् , वर्ततेः सत्तार्थत्वादिति तदेव व्याचष्टे
१ व्यावृत्तिरेवति भा० । °व्यावृत्तिरेवेति य० ॥२ व्यावृत्तेएव पटादेः प्र. ॥ ३ यत्वादोष प्र० ॥ ४ प्रकल्प्यंते भा०ही. ली. विना ॥ ५ भा० विनान्यत्र-तरतारणाय डे. ली. । तरचारणाय पा. वि. रे. ही। "तदिदमितरेतराश्रयं भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । तद्यथा नौ वि बद्धा नेतरत्राणाय भवति"
अलमहाभाष्ये १।१११॥ ६ स्याद्रक्तवदिति प्र०॥ ७ दृश्यतां पृ० ३२ पं० २॥ ८ पदादिषु प्र० ॥ ९ पूर्वघट प्र० ॥ १० लोकप्रसिद्ध भा० वि० ॥ ११ भा० विनान्यत्र-सत्वार्थाः पा० । सप्तार्थाः डे० ली। सस्वार्थाः वि० २० ही० ॥ १२ पटयोवस्था य० ॥ १३ स्तरंगधत् प्र० ॥ १४ द्रव्याविभावादेव भा० ॥ १५ °वादे व पा० वि० विना । °वादेन वि० ॥ १६ तिरोभावाभावाभावात् भा०। तिरोभावात् वि० ली० ॥ १७ भूपेण भा० ॥ १८ वर्तते सत्ता य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org