________________
३३
वस्तुखरूपनिरूपणम्]
द्वादशारं नयचक्रम् अनुवृत्त्यपेक्षा घटान्तरेषु । यदि स्यात् ततोऽनुवर्तेत स तेष्वपि, ततश्च सर्वसामान्यात् स एव स स्यात् , तद्यथा-पूर्वाहापराह्नयोरेक एव घटः। तत्सन्निवेशखरूपा
परिकल्पितम् । यथोक्तम - अन्तरङ्गबहिरङ्गयोरन्तरङ्गो विधिबलवान् । य एष प्रेक्षापूर्वकारी पुरुषः स प्रातरुत्थाय प्रत्यङ्गवर्तीनि स्वानि कार्याणि कुरुते, ततः सम्बन्धिनाम् , ततः सुहृदाम् , ततः शेषाणाम् [पा० म० भा० १।१।५६ ] इति । तदन्तरङ्गत्वं कुतः ? स्वमूर्तिस्थत्वात् , स्वा मूर्तिीवाद्यात्मिका, । तत्रस्थैत्वाजलाद्याहरणसमर्थस्य भवनस्य । प्रधानत्वाच्च तदेव ग्राह्यम् । कुतः प्रधानम् ? तदर्थत्वात् सामान्यविशेषयोः, कन्यार्थवस्त्रालङ्कारवत् , घटार्थो हि सामान्यविशेषकल्पनाव्यापारः । ब्रीहिकणार्थपलालादिवदप्रधानत्वात् सामान्यविशेषयोस्त्याज्यता । व्यवस्थितत्वाच्च तदेव घटभवनं ग्राह्यम् । व्यवस्थितं च आत्मन्येव स्थितत्वात् , न यथा तौ सञ्चारिणौ सामान्यविशेषावव्यवस्थितौ परापेक्षत्वादयवस्थितत्वाच्चावस्तु वन्ध्यापुत्रवत् । क पुनः सञ्चारिणौ ? सद्व्यादिषु । सद्-द्रव्य-पृथिवी-मृद्-घटत्वा- 10 भिसम्बन्धात् 'अस्ति द्रव्यं पार्थिवो मार्तिको घटः' इति घटे सम्प्रत्ययः [ ] इत्युक्तं ह्याचार्येण । घटभवनस्योदकाद्याहँरणासक्तात्मनः पुनः क सञ्चरणम् ?
। अनपेक्षत्वाच, 'तदेव वस्तु' इत्यभिसम्भन्त्स्य ते प्रत्येकं सर्वत्र । तद्धि घटभवनं न घट इति वा पट इति वा घटपटादिद्रव्यान्तरमपेक्षते यथा अनुवृत्तिव्यावृत्तिसामान्यवादिमते तदर्थं घटपटाद्यर्थान्तरांपेक्षा व्यावृत्तिविशेषवादिमते च तदर्थं पटादिद्रव्यान्तरापेक्षा । लौकिकानुवर्तिव्यवहारनयवादिमते तु सन्निहित-1B स्वाधीनवृत्तित्वाद् घंटात्मभवनस्य न तदपेक्षास्तीति त दर्शयति-न हि तस्यानुवृत्त्यपेक्षा घटान्तरेषु । अर्थापत्त्या न व्यावृत्त्यपेक्षा पटादिद्रव्यान्तरेषु । यदि स्यादपेक्षा ततोऽनुवर्तेत स घटः तेष्वपि २२-१ घटान्तरेष्वपि । न पुनरपेक्षास्ति, तस्य स्वसामर्थेनैव सिद्धत्वाद् घटात्मनः । यद्यपेक्षेत घटो घटान्तराणि, घटान्तरेष्वप्यनुवर्तेत । ततश्च सर्वसामान्यात् स एव स स्यात् , 'घटान्तरमपि घटात्मैव स्यात् , तत्तत्त्वानुवृत्तेः, घटात्मवत्' इति दोषः स्याद् देशभिन्नेष्वपि घटेषु कालभिन्नघटवत्। तन्निदर्शयति - 20 तद्यथा-पूर्वाहापराहृयोरेक एव घट इति । नापि घटस्तत्त्वानुवृत्तिमपेक्षते, घटात्मन्यसिद्धे तत्त्वानुवृत्त्यसिद्धेः; तत एव च न पटादिव्यावृत्तिमपेक्षते, तदायत्तत्वादित्यत आह - तत्सन्निवेशॆस्वरूपा
१"असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति । बहुप्रयोजनैषापरिभाषा। अवश्यमेवैषा कर्तव्या। सा चाप्येषा लोकतः सिद्धा। कथम् ? प्रत्यङ्गवती लोको लक्ष्यते । तद्यथा-पुरुषोऽयं प्रातरुत्थाय यान्यस्य प्रतिशरीरं कार्याणि तानि तावत् करोति, ततः सुहृदाम्, ततः सम्बन्धिनाम्” - इति पाठः पातञ्जलमहाभाष्ये ॥ २ मूर्तिग्रीवा प्र०॥ ३°स्थत्वाजला प्र०॥ ४ प्रधानत्व । तदेव भा० । प्रधानत्वाञ्च देव य० ॥ ५ पलादि० प्र०॥ ६ आत्मन्यवस्थितत्वात् य० ॥ ७ एतच्च आचार्यायं वचनं नयचक्रवृत्तिकारः पुनरप्यग्रे उद्धरिष्यतीत्थम् - "यथोक्तम् -'सन्यपृथिवीमृद्धटादि(भि)सम्बन्धादस्ति द्रव्यं पार्थिवो मार्तिको घट इति घटे सम्प्रत्ययः' इति” - नयचक्रवृ० पृ० ४२२-१॥ ८°हरणसक्ता पा० ॥ ९ °रापेक्ष्या प्र० ॥ १० घटाताभव प्र०॥ ११ वृत्त्य घटा य०॥ १२ पद्यपेक्षेत भा० । पटाद्यपेक्षेत य० ॥ १३ °सामान्याश एव भा. पा० । सामान्यांश एव भा. पा. विना । तुलना-“ततश्च सर्वविशिष्टत्वात्स एव न स्यात्"-नयचक्रवृ० पृ० ३४ पं० १३ ॥ १४शास्वरूय० ॥
नय०५ Jain Education International For Private & Personal Use Only
www.jainelibrary.org