________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे तथापि स्वविषयसामान्यविशेषापत्तिः । सा चोक्तदोषा।
तस्मात् सर्वथान्तरङ्गं खमूर्तिस्थं प्रधानं व्यवस्थितमनपेक्षम् - न हि तस्य द्रव्यत्वपृथिवीत्वगुणत्वरूपत्वाद्यनुवृत्तिव्यावृत्तिबुद्धिलक्षणयोर्न स्यात् । इष्यते च तयोरपि वैशेषिकैः गुणसमुदायद्रव्यवादिभिश्च सादृश्यानुवृत्तिनिवृत्तिलक्षणसामान्यविशेषता । कोऽभिप्रायः ? अर्थाश्लेष5 लक्षणासत्तिकृतसामान्यविशेषाभ्युपगमे तत्त्वानुवृत्तिव्यावृत्तिबुद्धिग्रहणौ न स्याताम् । तत्त्वानुवृत्तिनिवृत्तिकृतयोर्वाभ्युपगमेऽर्थाश्लेषकृतप्रत्यासत्त्योरभाव इति विरोधाद् न प्रकल्पते इत्ययमभिप्रायः ।
किश्चान्यत् - तथापि स्खविषयसामान्य विशेषापत्तिः। अर्थाश्लेषलक्षणासत्तौ सत्यामपि 'स्वविषयमेव सामान्यम् , स्वविषय एव विशेषः' इत्येतौ प्रागुक्तौ विकल्पावापन्नौ । सा चोक्तदोषा, सापि च
स्वविषयसामान्यविशेषापत्तिरुक्तदोषैव - यदि स्वविषयम्, सामान्यविरोधः । यदि सामान्यं तत २१-१ 10 आत्मा न भवति, अनेकार्थत्वात् सामान्यस्य । अथ आत्मा ततो न सामान्यम् , एकत्वादात्मनः । अथ
आत्मैव सामान्यम्, रूपादिर्घटादेरात्मा तत्समुदायकार्यत्वात् । एवं सत्यात्मभेद: - रूपं रूपं च रूपादिसमुदयश्च इत्यादि । तथा विशेषोऽपि । यदि स्वविषयः, विशेषविरोधः । यदि विशेषस्तत आत्मा न भवति, अन्यत्वाद्विशेषस्य गुणतः कालतो वा, अन्यथा घटादौ सामान्यापत्तेः। अथ आत्मा
ततो विशेषो न भवति, एकत्वादात्मनः। अथोच्येत --नैकत्वान्यत्वविरोधंदोषौ, 'आत्मैव विशेषः' 15 इत्यनपादानादिप्रतिज्ञानात्; यदि आत्मापेक्ष एव विशेषः, एक एव अन्य इत्यात्मनोऽन्यथाभवना.
दनात्मत्वमित्यादिपूर्वोक्तदोषसम्बन्धिनी स्वविषयसामान्यविशेषापत्तिः ।। .. अत्राह संसर्गवादी - यदि 'आत्मैव सामान्यम् , आत्मैव विशेषः' इति ब्रूयां साङ्ख्य-बौद्धवत् स्युरेते दोषा ममापि । न पुनरहमेवपक्षः । मम तु सामान्यविशेषौ द्रव्यगुणकर्मभ्योऽर्थेभ्योऽत्यन्तभिन्नौ, नौगृहीतविशेषणा विशेष्ये बुद्धिरस्तीति 'सत्त्वाभिसम्बन्धात् सत्, द्रव्यत्वाभिसम्बन्धाद् द्रव्यम्' इत्यादि20 सामान्यविशेषवादिनः कथं स्वविषयसामान्यविशेषपक्षदोषाः ? इति । अत्रापि परविषयसामान्यविशेषवादिप्रत्याख्यानात् का गतिः ? इत्यलं प्रसङ्गेन ।
तस्मादित्युक्तदोषोपसंहारार्थः, एतदोषापेतं सर्वथान्तरङ्ग वस्तु इति प्रतिपत्तव्यं घटादि इत्यभिसम्भन्त्स्यामः । सर्वेण प्रकारेण सर्वथा यों तां गतिं गत्वा 'सामान्यमेव, विशेष एव' इत्येवमादिना विचार्य "विचार्य अन्तरङ्गं वस्तु घटस्य केनचित् प्रतिविशिष्टेनाकारेण उदकाद्याहरणधारणादिसमर्थेन 25 भवनं समानेन चार्थान्तरैस्तदेवाश्रयणीयम् , न बहिरङ्ग सत्त्वद्रव्यत्वादि स्वपरविषयसामान्यविशेषवादि
----- १ गुणरूपत्वा य० ॥ २°नुवृत्तिबुद्धि य० ॥ ३ प्रकल्प्यते य० । अत्र प्रकल्पेते इति भा० पाठे 'सामान्यविशेषौ न प्रकल्पेते' इत्यर्थो ज्ञेयः। प्रकल्प्यते इति इति य. पाठे तु 'सामान्यविशेषता न प्रकल्प्पते' इत्यभिसम्बन्धो ज्ञेयः ॥ ४ भा० विनान्यत्र-इत्येतो प्रागुक्तौ विक डे. ली. । इत्युतो प्रागुक्तौ विक पा० २० ही। इत्युक्तौ विक वि० ॥ ५ दृश्यतां पृ० ११ पं०६॥ ६ पृ. २२ पं० ६॥ ७°दोषो ही. विना ॥ ८ एक एक एव भा०॥ ९ °वावी य०॥ १० °वयंरेते भा० । वत्परेते य० ॥ ११ कर्मभ्योत्यंतभिन्नौ य० ॥ १२ नागृहीतविशेषणविशेषणविशेष्ये भा०॥ १३यां गतां गतिं य० । “एवं यां तां गतिं गत्वा कल्पयिस्वापि सर्वथा सर्वप्रकारेण"-नयचक्रवृ० पृ. ९२-२॥१४ विचारांतरंगं य०॥ १५°षतादिपरि य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org