________________
सामान्यविशेषपरीक्षा] द्वादशारं नयचक्रम् गुणक्रिययोरण्वोरेव, न तु तयोरपि अन्त्यविशेषसमवायेन अपक्षिप्तप्रत्यासत्त्योः । तस्मात् सामान्याभावाद् विशेषाभावः, सर्वत्रैवोभयाभावः। _ अर्थाश्लेषलक्षणायां त्वासत्तौ पृथिवीघटरूपादीनामेव स्यात् सामान्यविशेषता, नेतरसामान्यविशेषयोः ।
गुणक्रिययोरण्वोरेव 'स्यातां सामान्यविशेषौ' इति वर्तते । तथासत्तिः घटकपालयोः, न पिण्ड- 5 घटयोः; एवं कपालशैकलयोः, न घटशकलयोः; शकलशर्करयोः, न घटशर्करयोः; पांशुशर्करयोः, न शकलशर्करयोः; पांशुधूल्योः, न धूलीशर्करयोः; धूलीत्रुट्योः, न पांशुत्रुट्योः; त्रुटिपरमाण्वोः, न धूलीपरमाण्वोः । अथवा घटस्य च घटस्य च, न घटस्य कपालस्य चेत्यादि । तयोरपि अण्वोः पार्थिवशुक्लगतिसमायिनोरेवाण्वोः, न आप्यपार्थिवादिनीलशुक्लगतिस्थितिजातिगुणक्रिययोः । न तु तयोरपीत्यादि यावदपक्षिप्तप्रत्यासत्त्योरिति । तुल्यजातिगुणक्रियासमवायिनोरन्यत्वप्रत्ययप्रभावोल्लिङ्गितान्त्य-10 विशेषयोः तत्समवायेनापक्षिप्ता अपहृता प्रत्यासत्तिस्तयोरपि इति कृत्वा कुतस्तटुंड्यासन्नप्रकरणम् ? तस्मात् सामान्याभावाद् विशेषाभावः, सर्वत्रैवोभयाभाव इति ,व्यगुणकर्मणां न सामान्य नापि विशेषः इत्यतः प्रभृति यावत् 'अण्वोः' इत्येतदवधिमध्याभिहितोपत्तिबलाद् यथोपपादितसामान्यविशेषाभावं स्मारयति ।
___ अत्राह - सा द्विधा प्रत्यासत्तिः, अर्थसम्बन्धादनर्थसम्बन्धाच्च । तत्रानर्थलक्षणा सद्-द्रव्य-15 पृथिवी-मृद्-घटादितत्त्वानुवृत्तिबुद्धिग्रहणा यथोक्ता, सामान्यविशेषसमवायानामर्थत्वाभावात् । अर्थलक्षणा तु द्रव्यगुणकर्मसम्बन्धात्मिका, तेषामर्थसंज्ञितत्वात् । यथोक्तम् - अर्थ इति द्रव्यगुणकर्मसु [वै० सू० ८।२।३] । तत्र क्रियावत् [वै० सू० ५॥१॥३५] इत्यादि द्रव्यलक्षणम् । तद्भेदलक्षणं च - रूपरस-२०-२ गन्धस्पर्शवती पृथिवी, रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च, तेजो रूपस्पर्शवत् , वायुः स्पर्शवान् [वै० सू० २।१॥1-४] , यत्र रूपादिचातुर्गुण्यं सा पृथिवी, गन्धहीना द्रवस्नेहाधिकाश्चापः, 20 द्रवस्नेहरसगन्धहीनं तेजः, रूपहीनो वायुः, ट्रैव्याश्रय्यादिलक्षणो गुणः । श्रोत्रंग्रहणो योऽर्थः स शब्दः [वै० सू० २।२।२१ ] । चक्षुर्ग्रहणो योऽर्थः स रूपम् । इत्याद्यर्थलक्षणनियतया प्रत्यासत्त्या सामान्यविशेषौ स्यातामिति ।
अत्रोच्यते - अर्थाश्लेषलक्षणायां त्वासत्तौ पृथिवीघटरूपादीनामेव स्यात् सामान्यविशेषता, लक्षणोद्देशनिर्देशकृतैवेत्यर्थः । नेतरसामान्यविशेषयोः 'सामान्यविशेषता' इति वर्तते, सत्त्व- 25
१ रणवारेघ भा० । रण्वादेरेव य० ॥ २ वर्तेते प्र० ॥ ३ धाकलयोः पा० वि० ॥ ४ "तुट्योः भा०। एवमप्रेऽपि। य० प्रतिष्वपि प्रायः सर्वत्राप्यने 'तुटि'शब्द एव दृश्यते ॥ ५°वायिनोरेवण्योः भा० । वायिनोरण्वोः य० ॥ ६ बुद्ध्यासंतप्रहरणं प्र० ॥ ७ पृ० २९ पं०५॥ ८ पृ० ३१ पं० १॥ ९ कर्मवस्तु य० ॥ १० "क्रियावद् गुणवत् समवायिकारणमिति द्रव्यलक्षणम्”-वै० सू०॥ ११ "स्निग्धाः"-वै० सू०॥ १२ "स्पर्शवान् वायुः"-वै० सू०॥ १३ "द्रव्याश्रयी अगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्"-वै० सू० १११११६ ॥ १४ 'ग्रहणोऽर्थः स शब्दः भा० । ग्रहणोऽर्थः शब्दः य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org