________________
३०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ प्रथमे विध्य रे
सन्नता हि द्रव्यस्य द्रव्यस्य च तत्रैव सामान्यविशेषौ स्याताम्, न गुणकर्मणोः । एवं च तयोः सत्त्वसामान्य-द्रव्यारम्भादिविशेषाभावः । तथासत्तिः सिकतानां वज्रस्य च तेषां सामान्यविशेषौ स्याताम्, न भूम्यम्भसोः; यावत् तुल्यजाति
तदासन्नत्वाद् ‘द्रव्यम्' इति गृह्यते, तत्रैव च सामान्यविशेषौ स्यातां न गुणकर्मणोः । कस्मात् ? 6 यस्मात् तद्बुद्ध्यासन्नता द्रव्यस्य द्रव्यस्य च न द्रव्यस्य गुणस्य च, तथा न द्रव्यस्य कर्मणां च, न १९-२ गुणस्य कर्मणश्चेति सामान्याभावो विशेषाभवञ्च तद्बुद्ध्यासत्त्यभावात् । एवं च कृत्वा तयोः सत्त्वसामान्य- द्रव्यारम्भादिविशेषाभावः । तयोः द्रव्यगुणयोर्गुणकर्मणोर्द्रव्यगुणकर्मणां च तयोश्च तयोश्चेत्यावृत्त्या सत्त्वलक्षणं* सामान्यं मा भूत् । तस्मात् 'सत्' इति त्रयाणामविशेष इत्ययुक्तम् । तथा 'अनित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवत्' इति च सामान्यं द्रव्यगुणकर्मणां मा भूत् । उक्तं च वः शास्त्रे - 10 सदनित्यं द्रव्यवत् कार्य कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेष: [ वै० सू० १1१1८ ] । 'एवं तर्हि अनानात्वं द्रव्यगुणकर्मणां प्राप्तम्' इति चोदिते विशेष उच्यते - नाविशेष एव, आरम्भानारम्भभेदात्, द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् । कर्म कर्मसाध्यं न विद्यते [ त्रै० सू० १।१।१०-११ ] इति । किञ्चान्यत् - लक्षणभेदात् क्रियावद् गुणवत् समवायिकारणमिति द्रव्यलक्षणम्, द्रव्याश्रयी अगुणवान् संयोगविभागध्व [कारणमनपेक्ष इति गुणलक्षणम्, एकद्रव्यमगुणं संयोग15 विभागेष्व ] नपेक्षं कारणमिति कर्मलक्षणम् [वै० सू० १।१।१५-१६-१७ ] । तथा विरोधाविरोधभेदात्, कार्याविरोधि द्रव्यं कारणाविरोधि च, उभयथा गुणः, कार्यविरोधि कर्म [ चै० सू० १।१।१३-१४ ] । इत्येवमादिद्रव्यगुणकर्म नानात्वहेतुकलापञ्च विशेषाभावादनर्थक आपद्यते । एवं तावद् द्रव्यस्य [ द्रव्यस्य ] च सामान्यविशेषौ स्याताम्, न गुणकर्मणोः ।
"
-
इतर आह – यथा द्रव्ययोः प्रत्यासत्तिर्द्रव्यत्वाभिसम्बन्धात् तथा सत्त्वाभिसम्बन्धाद् द्रव्यगुण20 कर्मणां भविष्यति । यथोक्तम् - सदिति यतो द्रव्यगुणकर्मसु द्रव्यगुणकर्मभ्योऽर्थान्तरं सा सत्ता [र्वै० सू० १।२।७-८ ] इति । अत्र ब्रूमः - द्रव्ययोरपि त्वदनुकम्पाद्रवीकृतचेतसा मया त्वयि चित्तानुवृत्त्या उक्तम्, तत्राप्याशां मा कृथाः, तदपि नोपपद्यते बुद्ध्यासत्तिकृतसामान्यविशेषवादिनो भवतः सामान्याभावे विशेषाभावात् । तथासत्तिः सिकतानां वज्रस्य च पार्थिवत्वसामान्यानुविद्धत्वादश्मसिकतालोष्टवत्रादीनाम् । तेषां सामान्यविशेषौ स्याताम्, न भूम्यम्भसोः, अन्यतरस्य पार्थित्वाभावात् । २०- १ 25 तेनैव हेतुक्रमेण तथासत्तिः पिण्डघटयोः, न मृत्-सिकतानाम् एवं परतः परतो यावत् तुल्यजाति
१ गृह्येत य० ॥ २ विशेषे स्यातां य० । विशेषस्थातां भा० ॥ ३ 'कर्मणश्च' इति स्यादत्र पाठः ॥ ४ भावं च प्र० ॥ ५ सत्त्वं य० ॥ ६ * * एतच्चिहान्तर्गतः 'सामान्य' इत्यत आरभ्य सत्त्वलक्षणं इत्यन्तः पाठो य० प्रतिषु नास्ति ॥ ७ आरंभमारंभभेदात् य० ॥ ८ भागेद्यनपेक्षं प्र० ॥ ९ कारण विरोधि च प्र० । "न द्रव्यं कार्य कारणं च वधति" - वै० सू० १।१।१२ । अस्य व्याख्या - " द्रव्यं न खकार्य हन्ति न वा स्वकारणं इन्ति, कार्यकारणभावापन्नयोर्द्रव्ययोर्वध्यघातकभावो नास्तीत्यर्थः, आश्रयनाशारम्भकसंयोगनाशाभ्यामेव द्रव्यनाशादिति भावः । वधतीति सौत्रो निर्देशः " - वै० सू० उप० पृ० २० ॥ १० “गुणाः " - वै० सू० ॥ ११ कार्य विप्र० ॥ १२ क्रमः प्र० । एवमग्रेऽपि ॥ १३ नेत्राप्या' प्र० ॥ १४ 'वत्वालत्वाभावात् भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org