________________
विशेषपरीक्षा ]
द्वादशारं नयचक्रम्
२९
अथोच्येत - एककालसहावस्थानादर्थानां विशेषो भविष्यति, अवतिष्ठते हि किञ्चित् कश्चित् कालम् । एवमपि तथाभूतसामान्याभ्युपगमादविशेषत्वमेव । सर्वसामानाधिकरण्याच्च एकविकारेऽपि सर्वस्यान्यथात्वं जायते, तन्मात्रेऽन्यत्वात्, गन्धोनाधिकभ्वम्भोवत् ।
अथ तु तद्ध्यासन्नमेव ग्रहीष्यते सामान्यविशेषयोः, एवं तर्हि द्रव्यगुणकर्मणां न सामान्यं नापि विशेषः, तेषां परस्परासत्त्यभावात् । तद्बुद्ध्या
I
अथोच्येत परेण - यदि सम्बन्धदेशसमवस्थानादर्थानां विशेषो न भवति, एककालसहावे स्थानादर्थानां विशेषो भविष्यति, यस्मादवतिष्ठते हि किञ्चित् कश्चित् कालम्, यथा पूर्वापरस्थितघटपटाविति । ननु विशेषकारणमत्र वक्तुं प्राप्तम्, इदं तु सामान्यकारणमेव आशङ्कितमिति । अत्रोच्यते - सामान्यद्वारेण विशेषः सिद्ध्यतीति तदसिद्धिद्वारेण विशेषासिद्धिरिति सर्वत्र ग्राह्यम् । अत्राप्याचार्य 10 उत्तरमाह - एवमपि तथाभूतसामान्याभ्युपगमादविशेषत्वमेव । पराभ्युपगम एव उत्तरत्वमापद्यते, एककालावस्थाने कालसामान्याभ्युपगमाद् देशसम्बन्ध सामान्याभ्युपगमर्वेदुपात्तत्यागो ऽकस्मात् तुल्यत्वादित्य विशेषत्वमेव ।
किचान्यत् -- प्रागुक्तविधिना सर्वसामानाधिकरण्याच्च विशेषस्वतत्त्वस्य परस्परांपेक्षत्वाद् १९-१ विशिष्यमाणत्वाद् भावानां परस्परतः सर्वं जगदेकाधिकरणम्, तत्रैकविकारेऽपि सर्वस्य शेषस्याप्यशेषस्य 15 तदपेक्षत्वादन्यथात्वं विकारो जायते । कुतः ? तन्मात्रेऽन्यत्वात् । को दृष्टान्तः ? गन्धोनाधिकंभ्वम्भोवदिति, यथा भ्वम्भसोरयथासङ्ख्येन गन्धोनस्य अम्भसो गन्धाधिकायाश्च भुवः तेनाधिकभावेन " विकारो दृष्टः - गन्धहीना आपः तदधिका भूरिति । तस्मान्नास्त्येव अनवस्थानान्निराश्रयः खपुष्पवद् विशेष इति ।
अथ तु तद्बुद्ध्यासन्नमेव ग्रहीष्यते सामान्यविशेषयोरिति । अथेत्यधिकारान्तरे । तुर्विशेषणे प्राक्तनाद्देशकालात्त्यधिकाराद् बुद्ध्यासत्त्यधिकारं विशिनष्टि । बुद्ध्या आसन्नं, 'सः' इति बुद्धिस्तद्बुद्धिः, 20 योऽसौ प्रथमो घटः स एव द्वितीय इति बुद्धिः । का सा ? तत्त्वानुवृत्तिबुद्धिः, व्यावृत्तिबुद्धिरपि तद्बुद्ध्यासत्त्या द्रव्यत्वबुद्धौ प्रसक्तायाम् ' नापो न सिकता न शिवकादिर्घट एव' इति । यथोक्तम् - अनुवृत्तिप्रत्ययकारणं सामान्यम्, व्यावृत्तिबुद्धिहेतुर्विशेषः [ ] इति । अत्र ब्रूमः - एवं तर्हि द्रव्यगुणकर्मणां न सामान्यं नापि विशेषः । किं कारणम् ? तेषां परस्परासत्त्यभावात् । तया तद्बुद्ध्या द्रव्यस्य गुणस्य कर्मणो वासत्तिर्गृह्यते, किं द्रव्यबुद्ध्या गुणो गृह्यते कर्म वा ? द्रव्यबुद्ध्या हि तद् द्रव्यमेव, 25
१वस्थानार्थानां प्र० ॥ २ 'स्थाने ककाल य० ॥ ३ 'मादेश प्र० । 'दृष्टांतत्यागो भा० । दृश्यतां पृ० २८ पं० १ ॥ ५ 'ण्यात्व विशेष भा० ॥ ७स्याशेषस्याप्य य० । 'स्य शेषस्य शेषस्याप्य भा० ॥ ८ दन्यथात्वधिकारो प्र० ॥ ९ कत्वंभावदिति यथा भ्वंभसौरयथासंख्येन न गंधोनस्य प्र० ॥ १० तर्हिनाधिक प्र० ॥ ११ धिकारो य० । Sधिकारो भा० ॥ १२ गृही य० ॥ १३ 'सत्य' प्र० । एवमग्रेऽपि ॥ १४ बुद्ध्यासन्नः स इति बुद्धिर्योऽसौ य० ॥ १५ कर्माणं वा भा० ॥
Jain Education International
४ वद्रषांतत्यागो य० । ६ त्वाद्वि विशि य० ॥
For Private & Personal Use Only
www.jainelibrary.org