________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे 2. सम्बन्धदेशोपेक्षायामुपात्तत्यागोऽकस्मात्, तुल्यत्वात् सामान्याभ्युपगमात्। रूपादिभेदसम्बन्ध एव विशेषः, न, अन्यासम्बन्धेऽरूपादित्वाच्छुद्धानां कचिदप्यभावात् । लोके दृष्टो ननु च वायुः शुद्ध एव स्पर्शः, तत्रापि हि क्षेत्रादि
द्रव्यस्य रूपादयो न गृह्यन्ते, अनभिव्यक्तिसौक्ष्म्यात्, द्रव्यादिवत् । । तदाश्रयत्वाद् विशेषस्य ? इति । अत्रोच्यते - सम्बन्धदेशोपेक्षायामुपात्तत्यागोऽकस्मात् । एवं सति
अकस्मादेवोपात्तस्य विशेषस्य त्यागः, सामान्याभ्युपगमात् । कथं सामान्यमभ्युपगतमिति चेत् , तुल्यत्वात् सम्बन्धदेशस्थानां द्रव्यक्षेत्रकालभावप्रत्यासत्तितुल्यलक्षणत्वात् सामान्यस्य समानभावस्य ।
अत्राह -रूपादिभेदसम्बन्ध एव विशेष इति । रूपरसगन्धस्पर्शसङ्ख्यासंस्थानादीनां सप्रभेदानां सम्बन्ध एव विशेष उच्यते, त एव हि परस्परतो विशिष्यमाणा विशेषाख्या इति । अत्रोच्यते-तद् 10 न, अन्यासम्बन्धेऽरूपादित्वात् । अन्यैर्द्रव्यादिभिरसम्बन्धे तेषामरूपादित्वं प्रसज्यते, यस्मात् सर्वे
सर्वत्र सर्वदा सर्वथा द्रव्यक्षेत्रकालभावाविभार्गसम्बद्धरसा एव हि रूपादयः । किं कारणम् ? शुद्धानां क्वचिदप्यभावात् , प्रागुक्तं द्रव्यादिसम्बन्धाभावे रूपादिस्वरूपाभावात् तत्सम्बद्धानामेव दृष्टत्वात् सप्रभेदद्रव्यादिसम्बन्धाभावे रूपादयो न सन्त्येवेत्यरूपादित्वं तेषां प्रसक्तम् । .....इतर आह - लोके दृष्टो ननु च वायुः शुद्ध एव स्पर्शः। स्यादरूपादित्वं यदि 'द्रव्यक्षेत्रकाल1 रूपरसादिभिरसम्बन्धे रूपाद्यभाव एव' इत्ययमेकान्तः स्यात् , स्याच्चानुमानं यदि दृष्टेन न बाध्यते, दृष्टश्व १८-२ वायुः स्पर्शमात्र एव, न हि दृष्टाद् गरिष्ठं प्रमाणमस्तीति । अत्रोच्यते- तत्रापि हि क्षेत्रादिद्रव्यस्य
रूपादयो न गृह्यन्ते, अनभिव्यक्तिसौक्ष्म्यात् , वैध\ण द्रव्यादिवत् । यथा द्रव्यादयो गृह्यन्ते प्रत्यक्षेण न तथा वायौ रूपरसगन्धादयोऽनभिव्यक्तिसौक्ष्म्याद् गृह्यन्ते । किं कारणम् ? चक्षुरादीन्द्रियग्राह्यत्वपरिणत्यभावाद् हेत्वनुमेयताभावात् । यथोक्तं सङ्ग्रहान्तरे10. मूर्तिः कथं न वायो स्वाद्येत च कथं न रूप्येत ।
- तयक्तिग्रहणं प्रति न शक्नुयात् त्विन्द्रियैः कश्चित् ॥ [ ] इति । गन्धर्वन्तोऽबग्निवायवः, मूर्तत्वात् , पृथिवीवत् । एवं रसवन्तौ अग्निवायू , मूर्तत्वात् , भूम्यम्बुवत् । रूपवान् वायुः, मूर्तत्वात् , अग्निभूमिजलवत् । रूपरसगन्धस्पर्शवन्ति वाय्वग्निजलानि, मूर्तत्वात्, पृथिवीवत् । इहापि च साधर्म्यदृष्टान्त उच्यते - वातायनरेणुस्पर्शरसरूपगन्धादिवद् न गृह्यन्त इति, तेषां हि 25 "रविकरोद्दयोतव्यक्तानां रूपमेव ग्राह्यम् ।
। १°मुपांत्यत्यागो य० ॥ २ °वात्तस्य भा० । 'पांत्यस्य य० ॥ ३ 'तुल्यक्षणत्वात् य० ॥ ४ सामानभवनस्य भा० ॥ ५ त्वादन्यैर्द्रव्यादिभिरसंबंध तेषामरूपादित्वादन्यैर्द्रव्यादिभिरसंबंधे तेषामरूपादि इति द्विर्भूतः पाठः सर्वासु प्रतिषु ॥ ६ * * एतच्चिह्नान्तर्गतः सम्बद्धरसा इत्यत आरभ्य द्रव्यादि इत्यन्तः पाठो भा० प्रती नास्ति ॥ ७ शुद्धानं य० ॥ ८ वायो रूप भा० । अत्र 'वायो' इत्यस्य षष्ठ्यन्तत्वे भा० प्रतिपाठोऽपि साधुरेव ॥ ९ ग्राह्यपरि' य० ॥ १० मूर्ति कथं प्र०॥ ११ वायो खाप्येत य० । वायोर्णास्वाप्येत भा० ॥ १२ या त्विन्द्रियैः कंचित् प्र० ॥ १३ °वत्तो। पग्नि भा० । वत्तोपग्नि य० ॥ १४ रविकारो प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org