________________
विशेषपरीक्षा]
द्वादशारं नयचक्रम् परविषयतायां तु विशेषस्यानवस्थानादविशेषः । इह द्रव्यादिप्रत्यपेक्षया सर्वस्यास्य सम्बद्धत्वादेकैकस्य निरवशेषमिदं जगद् विशेषणं स्यात्, एकघटसंहतनानावस्थगुणवत् । तत्र सर्वार्थानां नित्यप्रवृत्तत्वात् समयमपि नास्ति तेषां समवस्थानं यदाश्रयो विशेषार्थोऽवस्थाप्येत, आत्तवत् ।
दोषा उक्ताः, इह तु प्राधान्येनैव अन्येन च प्रकारेण दोषाभिधानं प्रक्रियते । अनवस्थानादविशेष इति । साधयिष्यमाणमनवस्थानं सिद्धं कृत्वाह । यथा च प्राक् 'असमानावस्थानादसामान्यम्' इति प्रक्रम्य सामान्याभावः प्रतिपादितस्तथेहापि तद्विपर्ययेण तदेव प्रकरणं योज्यम् - किं कारणम् ? अनवधृतैकतरकार्यत्वादित्यादि सर्वं तादृगेव यावत् तैत एतानि घटादिवस्त्वात्मविशेषपक्षपाहिणाप्यवश्यापेक्ष्याणि, १७-२ प्रत्यक्षत एव तथा तथा परेण विशिष्टत्वादात्मनः; किमु परविषयमुख्यविशेषवादिना ? प्रत्यक्षत एव तथा तथा परविषयस्य विशेषस्य भवनात् परेण विशिष्टेन भूयत इति । इहेति परविषयविशेषपक्षे 10 द्रव्यादिप्रत्यपेक्षया सर्वस्यास्य सम्बद्धत्वादेकैकस्य निरवशेषमिदं जगद् विशेषणमिति, पूर्ववदेव द्रव्यं द्रव्यान्तराणि क्षेत्रं कालं भावं च प्रत्यपेक्षते स्वप्रभेदान् परप्रभेदांश्च, एवं क्षेत्रं कालो भावश्चेति सर्वं सर्वेण सम्बद्धम् , तस्मात् सर्वस्य सम्बद्धत्वात् पूर्ववत् संहक्रमवृत्तिरूपादिशिवकादिपृथिव्यादिब्रीह्याद्यङ्करादिसमवस्थानाद् द्रव्याणां क्षेत्रतोऽपि तेषामेकगतिसमवस्थानात् कालतोऽप्यनेकप्रभेदोपवर्ण्यधर्मा[द्यस्तिकायपृथिव्यादिपानीयादानधारणा दिसमवस्थानाद् भावतोऽपि पूर्ववद् द्रव्यादिरूपादिशिवकादिभवनसमवस्थानात् 15 स्यादेकघटसंहतनानावस्थगुणवदिति । यथोक्तम् -द्रव्यमेव हि तथावस्थानादू रूपादिभावं लभते, एकपुरुषपितृपुत्रत्वादिवत् [ ], द्रव्यमेव हि घटाख्यं रूपं रसो गन्धः स्पर्शः सङ्ख्या संस्थान शुक्लं नीलं तिक्तं कटु सुरभि मृदु कर्कशं शुक्लतरं शुक्लतमं चेत्यादिविशेषणतां नातिवर्तते । त एव ह्येते गुणाः पर्यायाश्च नानावस्थाः परस्परविशिष्टाः परस्परस्य द्रव्यस्य च विशेषणम् , द्रव्यमेव गुणाः पर्यायाश्च । तथान्येऽपि द्रव्यक्षेत्रकालभावाः सप्रभेदा इति । स्याच्छब्दात् पुनः स्यादेतदेवं यद्येतद् वक्ष्यमाण- 20 दोषेण न व्याहन्येतेत्यत आह - तत्र सर्वार्थानां नित्यप्रवृत्तत्वात् समयमपीत्यादि यावद् यदाश्रयो विशेषार्थोऽवस्थाप्येतेति । एवं परस्परविशेषणत्वेन सर्वेऽर्था नित्यं प्रवृत्ता एवेति समयमात्रमपि नास्ति तेषां समवस्थानम् । समवस्थानाश्रयो हि विशेषोऽवस्थाप्येत, तदभावात् कुतो विशेषः ? आत्त-१८-१ वदिति तत्कालावगृहीतक्षणोत्पन्नविनष्टभाववदित्यर्थः । ततः किमिति चेत्, सँमवस्थानाभावान्निराश्रयः खपुष्पवन्नास्ति विशेषः ।
स्यान्मतम् - सम्बन्धदेशो न दृष्यते, उपेक्ष्यत इति । किमुक्तं भवति ? सम्बन्धदेशान् द्रव्यादीन मुक्त्वा निराश्रयत्वाद् विशेषो मा भूत् , सम्बन्धदेशस्थानां तु घटपटादीनां किमिति मुंधा विशेषो न स्यात्
25
१ दृश्यतां पृ० १४ पं० ६ ॥ २ अनवृत्तिकतरकायत्वात् भा० । अनिवृत्तिकतरकायत्वात् य० । दृश्यतां पृ० १४ पं० ६ ॥ ३ दृश्यतां पृ० १८ पं० ३॥ ४ ग्राहिणाप्यवश्यापेक्ष्याणि प्रत्यक्षग्राहिणाग्यवश्यापेक्ष्याणि प्रत्यक्ष इति य० प्रतिषु द्विर्भूतः पाठः ॥ ५साह प्र० ॥ ६ स्यादेवं भा० ॥ ७°त्पश्यविनंष्ट भा० । 'त्पत्त्यविनष्ट' य०॥ ८संस्थानाभावा प्र०॥ ९मुवा प्र.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org