________________
न्यायागमानुसारिणीवृत्यलङ्कृतम् [प्रथमे विध्यरे यत्नार्थहानिः, अविशेषः । अन्त्येऽपि तद्रव्यादिप्रभेदगतिग्राह्यत्वात्, अन्यथा योगिनामज्ञानप्रसङ्गात्।
अत्रोच्यते - अन्त्येऽपि तद्रव्यादिप्रभेदगतिग्राह्यत्वात् । अन्ते भवोऽन्त्यः, अन्त्येऽपि तस्मिन् विशेषे विशेषाभाव इति अपिशब्दात् सम्बन्धः । को हेतुः ? तद्रव्यादिप्रभेदगतिग्राह्यत्वात् । द्रव्य5 मादिर्येषां त एते द्रव्यादयः द्रव्यक्षेत्रकालभावाः, तेषां प्रभेदः तत्प्रभेदः, तत्प्रभेदेन गतिः परिणामो वृत्तिर्विकल्पः, यथा 'अस्य कार्यस्येयं गतिः' इति दृष्टत्वात् । तया गत्या ग्राह्यत्वम् , कस्य ? अन्त्यविशेषस्य । तस्मात् तद्र्व्यादिप्रभेदगतिग्राह्यत्वाद् नान्त्यविशेषः कल्प्यः, द्रव्यादिव्यतिरेकेण प्रत्यक्षानुमानाभ्यामग्राह्यत्वात् तत्स्वरूपेणैव ग्राह्यत्वाच्च । तद्यथा-योगी प्रत्यक्षेणैकं परमाणुं पश्यन् व्यणुकत्वात् प्रच्युतं
पश्यति अन्यं त्र्यणुकत्वात् प्रैच्युतमन्यं द्वथणुकसमवेतमन्यं ध्यणुकसमवेतं च, द्रव्यतः स्वत एव च भिन्नानि __10 तानि परमाण्वादिद्रव्याणि पश्यति, तत्र किमन्यविशेषेण ? एवं क्षेत्रतो.प्यूर्धभागस्थितमेकमपरमर्वा१७-१ ग्भागस्थितम् । कालतोऽपि कञ्चित् प्रथमे समये स्थितम् , अन्यं द्वितीये स्थितमागतं वा । युगपदोगत
स्थितयोरपि द्रव्यक्षेत्रभावकृतं नानात्वमस्त्येव । भावतः कश्चित् कृष्णं शुक्लं कश्चित् सुरभिमसुरभिं तिक्तं कटुकं वेत्यादि, अथवा कृष्णमन्यं कृष्णतरं कृष्णतमं द्विगुणत्रिगुणसङ्ख्येयासयेयानन्तगुणकृष्णादिं वा। एवं शेषवर्णैर्गन्धरसस्पर्शश्च सप्रभेदैर्दर्शनं वाच्यम् । अन्यथेति परस्परविशिष्टद्रव्यादिविशेषाभावे विषय16 निरपेक्षत्वाद् योगिनामज्ञानप्रसङ्गात्। अवश्यं द्रव्यादयो विषयाः स्वत एव विशिष्टा एषितव्याः। न चेत्, योगिनो मिथ्याज्ञानप्रसङ्गः, अन्यथास्थितस्यार्थस्य अन्यथादर्शनात् । अन्त्यविशेषाणां च परस्परविशेषोक्तिप्रत्ययप्रवृत्तौ निमित्तान्तरं कल्प्यम् । स्वत एव विशिष्टत्वेऽन्त्यविशेषस्य कल्पना वा त्याज्या, परमाणूनामपि तद्वद् विशेषो निमित्तनिरपेक्षः किं नेष्यते ? विशेषेष्वपि निमित्तान्तराणि चेत्, अनवस्थाप्रसङ्गः, ततश्च विशेषोक्तिप्रत्ययानुपपत्तिरेवेत्यलं प्रसङ्गेन । स्थितम् - न स्वविषयो विशेष इति । 20 परविषयविशेषपरीक्षावसरः, तत आह-परविषयतायां तु विशेषस्यानवस्थानादविशेषः । ननु प्रागप्युक्तम् -परापेक्षपक्षापत्तिर्वा इति, सत्यम् , तत्रै उपात्तपरित्यागादहृदयत्वापादनद्वारेण प्रसङ्गतोऽन्येऽपि
१ली. विनान्यत्र-तत्तद्रव्यादि य० । तद्रव्यादि भा० ॥ २ अन्त्ये भवो प्र.। “अन्तेषु भवा अन्त्याः'' [ प्रशस्त. भा० पृ० १६८ ] इति प्रशस्तपादभाष्यानुसारिण्येव अन्त्यशब्दव्याख्या प्रायः सर्वत्रापि बहुमता स्वीकृता च । शङ्करमिश्रस्तु वैशेषिकसूत्रोपस्कारे मतद्वयमत्रोपन्यस्यति- “अन्तेऽवसाने भवन्तीत्यन्त्याः, यतो न व्यावकान्तरमस्तीत्याचार्याः । उत्पाद विनाशयोरन्ते अवसाने भवन्तीत्यन्त्या नित्यद्रव्याणि । तेषु भवन्तीत्यन्त्या विशेषा इति वृत्तिकृतः"-बै० सू० उप० १।२।६ ॥ ३ तस् िविशेषाताव इति भा० ॥ ४ यथास्य कायस्येयं भा० । यथा कायस्येयं य० । अत्र 'कायस्य शरीरस्य' इत्यर्थाभिरुचौ तु यथाश्रुतो भा०प्रतिपाठः साधुरेवेति ध्येयम् ॥ ५ प्रच्युताशनं व्यणुक य० । प्रच्युद्युताशनां व्यणुक भा० । अत्र प्रच्युतात्मानं व्यणुक इति पाठोऽपि सम्भवेत् ॥ ६ व्यगुणसम भा० ॥ ७ क्षेत्रतोपूर्वभागस्थितमेकपरमवाभाग भा० । क्षेत्रतोपूर्वभागस्थितमेकपरमर्वाग्भाग° य० । ऊर्ध्वशब्दसमानार्थक एव ऊर्धशब्दोऽपि शब्दकोषेष्वस्ति । अत्र च नयचक्रवृत्ती प्रायः सर्वत्रापि ऊर्वशब्दस्थाने ऊर्धशब्द एव दृश्यत इति ध्येयम् । अवाग्भाग अधोभाग इत्यर्थः ॥ ८ किंचित् प्र.॥ ९°दागतयोरपि य० ॥ १० किंचित् य० ॥ ११ कृष्णादि घा प्र० ॥ १२ पृ० २४ पं० १॥ १३ तह उपात्त' य. तऽपात्त भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org