________________
विशेषपरीक्षा]
द्वादशारं नयचक्रम् । पार्थिवत्वादितुल्यत्वाच तद्वत् तदात्मत्वं, तत्तत्त्वेन अपेक्ष्यत्वादिति विवेक
विशेषाभावः प्राप्तः । निष्पन्ने चोपरतव्यापारावस्थायां सिद्धत्वात् कार्यस्य कारणानां कारणत्वाभावात् कार्यकारणविशेषाभावः । इतिशब्दो हेतूपसंहारार्थः, इत्युक्तहेतुपारम्पर्याद्' भावाभावयोरविशेषः, यथा पूर्वोक्तविधिना संतोऽसदपेक्षाऽभावाद् विशेषाभावः, एवमसतोऽपि सैदपेक्षाऽभावादविशेषः । असतो वा कापेक्षा ? एवमनयोरविशिष्टत्वात् सैत्त्वमेव वा अभावस्य भाववत् , असत्त्वमेव वा भावस्य अभाववत् । । तथापि चोभयाभावः, भावाभावयोरभावः सामान्यविशेषयोरात्मविशेषयोर्वा घटादेरिति ।
एवं तावद् घटादेः पार्थिवत्वाद्यपेक्षा न युक्ता । अभ्युपेत्यापि तदपेक्षा पार्थिवत्वादितुल्यत्वाच्च तद्वत् तदात्मत्वम् । कार्यस्य घटस्य कारणेन मृदा सह पार्थिवत्वेन धर्मेण तुल्यत्वात् तद्वदिति घटस्य घेटभवनात्मत्ववत् तदात्मत्वं मृत्त्वं, पार्थिवत्वात्मघटत्ववद्वा । किं कारणम् ? तत्तत्त्वेनापेक्ष्यत्वात् । तस्य भावः तत्त्वम् , भवनं भावः, तस्य तत्त्वं तत्तत्त्वम् , तत्तत्त्वेनापेक्ष्यत्वात् , घटभवनवंद- 10 पेक्ष्यते हि पार्थिवत्वम् , तस्मात् प्राप्तं तदात्मत्वं घटत्वं पार्थिवत्वस्य घटात्मवद् घटत्वेनापेक्ष्यत्वात् । इतिशब्दो हेत्वर्थे, अतस्तदा मत्वादपेक्ष्यमाणस्य विवेकयत्नार्थहानिः विशेषार्थापेक्षाप्रतिपादनयत्नहानिः । अविशेष इति, एवं च कृत्वा स एव अविशेषः । आदिग्रहणात् द्रव्यत्वादितुल्यत्वात् सत्त्वतुल्यत्वादित्येवमेवाविशेष आपाद्यः ।। ... स्यान्मतम् - अयं विशेष एव न भवति, आपेक्षिकत्वात् सामान्यविशेषाणां द्रव्यत्वादीनामौपचारिक-15 त्वाच्च । द्रव्यत्वं गुणत्वं [कर्मत्वं] च सामान्यानि विशेषाश्च [वै० सू० १॥२।५] इत्युक्तानि, किं १६-२ पुनर्गोत्वघटत्वादीनीति ? कस्तर्हि विशेषो मुख्यः ? अन्त्य एव । सामान्यमपि मुख्यं भाव एवेत्यभिप्रायः। यस्मादणुष्वेकाकाशदेशातीतप्राप्तषु अन्यत्वज्ञानाभिधानप्रभावविभावितोऽन्यो विशेषः, न हि आकस्मिकावन्योक्तिप्रत्ययौ, तस्मादस्त्यसौ । स एव च विशेषो मुख्यः । यथोक्तम् - अन्यत्रान्त्येभ्यो विशेषेभ्यः [वै० सू० १।२।६] इति । तथा भाव [एव] च मुख्यसामान्यम् , सैदिति यतो द्रव्यगुणकर्मसु द्रव्य- 20 गुणकर्मभ्योऽर्थान्तरं सा सत्ता [वै० सू० १।२।७ ८] इति वचनात् । द्रव्यत्वादीनामौपचारिकत्वात्तद् व्यात्मतयोपपादितमिति ।
१ सतोदसदपेक्षा प्र० ॥ २ तदपेक्षा य० ॥ ३ सत्वमेवावभावस्य प्र० । 'सत्त्वमेवाभावस्य' इत्यपि पाठः सम्भवेदत्र ॥ ४त्वाचा तद्वत् भा० ॥ ५ घटभावनात्सत्ववत् प्र० ॥ ६ नापेक्षत्वात् प्र० ॥ ७°घदनपेक्ष्यते हि भा० । 'वदनपेक्ष्यत्वे हि य० ॥ ८ घटत्वं भा० प्रती नास्ति ॥ ९°दात्मतादपे प्र०॥ १० सत्यतुल्य य० ॥ ११ काशवेशाती य० । काशवेत्साती भा. । “आकृतिः संस्थानम् । परिमण्डलसंस्थानाः सर्व एव परमाणव इति तुल्याकृतित्वं पार्थिवाणूनां पार्थिवाणुभिः सर्वेः समानगुणत्वम् । 'अणुमनसोश्चाद्य कर्म वि० सू०५-२-१३] इत्यदृष्टकारित क्रियावत्वं सर्वेषां समानमिति । आधारोऽप्येकदेशः। तस्मादाकाशदेशात् कश्चित् परमाणुरतिक्रान्तः, कश्चिञ्च तत्समकालमेव तत्र आयातः । तत्र 'अयमन्यः पूर्वस्मात्' इति अन्यप्रत्ययो निनिमित्तः परमर्षेरपि न भवति । दृष्टश्च अन्यप्रत्ययः । तस्य अन्यप्रत्ययस्य यो हेतुः सोऽन्त्यविशेषस्तस्मात् परमाणुद्रव्यादन्य इत्येवं नैगमनयस्य बुद्धिः" - इति विशेषावश्यकभाष्यस्य कोट्टार्यवादिगणिमहत्तरविरचितायां वृत्तौ पृ० १५५-२ ॥ १२ दृश्यतां पृ. ६ टि. १ ॥ १३ कत्वात्तद्ध्यात्मतयो प्र०॥
नय०४ Jain Education International For Private & Personal Use Only
www.jainelibrary.org