________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे .... एतदनिष्टतायां तु परापेक्षपक्षापत्तिः। तथापि द्रव्यभेदः। का हि वृत्तिसाहायकादृते सिद्धवृत्तेर्घटस्य पटाद्यपेक्षा ? तथात्मैवास्य भिद्येत । अथ वा पार्थिवत्वादपेक्षा, समानजातित्वादपेक्ष्यते घटेन पटः, विजातीयात् तर्हि विशेषाभाव उदकादेः । द्रव्यत्वापेक्षा तत्रापीति चेत्, विजातीयाभ्यां गुणकर्मभ्यामविशेषः। तत्रापि सत्तापेक्षेति चेत्, विजातीयात् तीत्यन्तासतो जातेरिवाजातेः कार्याद्वा कथम् ? इति भावाभावयोरविशेषः । तथापि चोभयाभावः।
एतदनिष्टतायां तु परापेक्षपक्षापत्तिरिति । 'घटादेरात्मनोऽन्यथाभवनादनात्मत्वं ततश्च विशेषस्यात्मनश्चाभावः' इत्युक्तविरोधदोषानभ्युपगमे परापेक्षपक्षः परविषयो विशेषो न स्वविषयः' इत्यापन्नः । स किन्नामको दोष इति चेत्, स्वपक्षपरित्यागनामकः । उपचर्य च एवमभ्युपगम्यमानेऽप्ययमपरो 10 दोषः - तथापि द्रव्यभेदः, द्रव्यस्य घटादेरात्मनः स्वरूपपररूपाभ्यां द्विधात्मावस्थानं प्रसक्तं परापेक्षत्वाद्विशेषस्य । स्यान्मतम् - पटाद्यवृत्त्यात्मक एव घटः पटाद्यपेक्षत इति । तन्नेत्युच्यते -का हि वृत्तिसाहा
यकाहते सिद्धवृत्तेर्घटस्य पटाद्यपेक्षा । सहाय[भावः साहायकम् , वृत्तेः सहायकं वृत्तिसाहाय१५-२ कम्, घटवृत्तेः सहायभावं पटस्य मुक्त्वा स्वत एव सिद्धवृत्तेः पूर्वमेव घटस्य कान्या उत्तरकाला पटाद्य
पेक्षा ? नास्त्येवेत्यर्थः । किं कारणम् ? प्रयोजनाभावात् । तथात्मैवास्य भिद्येत, तेन प्रकारेण तथा 15 घटस्वरूपमेव भिद्येत, सहायापेक्षवृत्तित्वात्, शिबिकोद्वाहात्मवृत्तिवत् । ... अथ वा पार्थिवत्वादपेक्षा, अस्ति घटस्य पटाद्यपेक्षेत्याह । का सा ? समाना जातिः ।
समानजातित्वादपेक्ष्यते घटेन पटः । का समानजातिः ? पार्थिवत्वम् । विशेषः कथमिति चेत्, घटात्मत्वाद्विशेषः पटादेरिति । अत्रोच्यते-विजातीयात् तर्हि विशेषाभाव उदकादेः। यदि समानजात्यपेक्षया विशेष इष्यते एवं तबसमानजातीयादुदकादेर्घटस्य विशेषाभावः प्राप्नोति । अनिष्टं चैतत् । 20 द्रव्यत्वापेक्षा तत्रापीति चेत्, व्यत्वसामान्यापेक्षया घटस्य उदकादेर्विशेषो भविष्यतीति चेत् । विजातीयाभ्यां गुणकर्मभ्यामविशेषः, न हि विजातीययोर्गुणकर्मणोर्द्रव्यत्वापेक्षास्ति, ताभ्यामपि च घटस्य विशेष इष्यते । तत्रापि सत्तापेक्षेति चेत्, विजातीयात् तर्हि अंत्यन्तासतः 'अविशेषः' इति वर्तते । एवमपि खरविषाणादेरत्यन्तासतो विशेषाभावः स्यात् , अपेक्ष्याभावात् । किमिव ? जातेरिव
अजातेः । पार्थिवत्वजातेश्च भवसिद्धान्तेन अपगतजातेर्जात्यन्तरापेक्षा नास्ति, तस्याः कथं जात्यन्तरा25 दुदकादेर्वा व्यक्त्यन्तराद् विशेषो भवति, अपेक्षाभावात् ? कार्याद्वा कथं विशेषः' इति वर्तते । कार्य
हि भवत्सिद्धान्ते प्रागविद्यमानं समवाय्यसमवायिकारणसान्निध्ये पश्चादुत्पद्यते, 'क्रियागुणव्यपदेशाभावा१६-१ दसत् कार्यम्' इति सिद्धान्ताभ्युपगमात् , कारणावस्थायां कारणानां कार्यस्यासत्त्वादेव अपेक्षा नास्तीति
.... १°तायां मु परापेक्षोपपत्तिरिति य० ॥ २त्मत्वं नतंच विशेष भा० ॥ त्मकत्वं नतंच विशेष य० ॥ ३ उपचयं च भा० ॥ ४ सहायकं प्र० । “योपधाद् गुरूपोत्तमाद् वु" [ ५-१-१३२ ] इति पाणिनिसूत्रेण 'साहायकम्' इत्येव साधु ॥ ५ वृत्तिसहा. य.॥ ६द्रव्यत्वं सामा प्र०॥ ७ तत्रापि तापेक्षेति प्र०॥ ८ अत्यंतासतासतः य०। अत्यंतासतासतासतः भा०॥ ९ तस्या कथं भा० । तस्यां कथं २० ही. विना य० । तस्यात्कथं २० ही०॥ १० अपेक्ष्याभावात् रही.॥ ११ पंचात्पद्यते प्र०॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org