________________
विशेषपरीक्षा]
द्वादशारं नयचक्रम् न भवति, अन्यत्वाद् विशेषस्य गुणतः कालतो वा; अन्यथा घटादौ सामान्यापत्तेः। अथ आत्मा, ततो विशेषो न भवति, एकत्वादात्मनः। ।
अथोच्येत-नैकत्वान्यत्वविरोधदोषी, 'आत्मैव विशेषः' इत्यनपादानादिप्रतिज्ञानात् । यद्यात्मापेक्ष एव विशेषः एक एवान्य इत्यात्मनोऽन्यथाभवनादनात्मत्वं रूपादिरूपेण घटरूपादिपूर्वोत्तराणामभावत्वम् । तथा चोभयाभावः।।
त्रेण ? ने युच्यते, यदि विशेषस्तत आत्मा न भवति, अन्यत्वाद्विशेषस्य । 'विशेषेण विरोधस्तावद् यदि घटादावात्मनि विशेषो वर्तते स्वविषयः तत आत्मा न, अन्यत्वाद्विशेषस्य रूपादेर्देशतः परस्परतो विशिष्यमाणस्येति तदर्शयति -गुणत इति । कालतो वा प्रतिक्षणान्यान्योत्पत्त्या विनंष्टषु रूपादिषु कस्तदात्मा ? इत्यात्माभावः । तदभावे कस्य विशेषः ? अन्यथा घटादौ सामान्यापत्तेः । अन्यथेति रूपादीनां समुदायैक्यापत्त्यभ्युपगमे विशेषपक्षत्यागः सामान्यपरिग्रहश्वापद्यते, तत्र चोक्ता दोषाः सुखं 10 सुखं च सुखादिसमुदयश्च इत्यादयः, त एवात्र 'रूपं रूपं [च] रूपादिसमुदयश्च' इत्यादयः । मा भूदास्माभावदोषः तस्मिंश्चात्माभावे विशेषाभावदोष इति पक्षान्तरं गृह्णीयात् – अथात्मा सविशेषः, आत्मा एक एव स एवानन्य इति । ततो विशेषो न भवति, एकत्वादात्मनः, घटादेर्वस्तुन एक वादात्मनस्तत्तत्त्वादित्यर्थः, अन्यो हि विशेषः ।
एतदोषपरिहारार्थमथोच्येत परेण-नैकत्वान्यत्वविरोधदोषौ । आत्मनो विशेषः' इति 1B सम्बन्धापादानयोः षष्ठीपञ्चमीनिर्देशे भेदेन 'आत्मनि विशेषः' इत्यधिकरणसप्तम्या 'निर्देशे वा स्यातामेतौ दोषौ । किं तर्हि ? 'आत्मैव विशेषः' इत्यनपादानादिप्रतिज्ञानान्नैकत्वान्यत्वविरोधदोषी ममेति । १५-१ अत्रोच्यते-यद्यात्मापेक्ष एव विशेष इति तत्प्रत्युच्चारणम् , द्वितीयविकल्प आयातो विशेषस्य विरोध इति । अत्राप्ययं दोषः-एक एवान्य इत्यात्मनोऽन्यथाभवनादनात्मत्वं रूपादिरूपेण । किं वाङ्मात्रेण ? नेत्युपपत्तिमाह - अन्यथाभवनादिति। तन्निदर्शयति-घटरूपादिपूर्वोत्तराणामभावत्वम् । तत् कथम् ? 20 अन्येऽन्ये रूपादय एव भवन्तीति घटाभावः, तदभावे कस्य "विशेषः ? घट एवं वान्यथा भवतीति रूपाद्यभावः । ततश्चोत्तरेषां शिवकादीनां पिण्डावस्थातः पूर्वेषां च मृत्त्वादीनामभावः । अथवा घटतोऽन्यत पटत्वम् , रूपतोऽन्यच्छब्दादित्वम् , तेन प्रकारेण अन्यथाभवनाद् घटाभीवो रूपाद्यभावश्च । तथा चोभयाभावः, आत्माभावो विशेषाभावश्च अथवा रूपाद्यभावप्रापितो घटात्माभावो घटात्माभावप्रापितो रूपाद्यभाव इति ।
25
१ विशेषेण विरोधस्तावद् यदि घटादावात्मनि विशेषेण विरोधस्तावद् यदि घटादावात्मनि इति सर्वासु प्रतिषु द्विर्भूतः पाठः ॥ २ आत्मनोन्यत्वाद्वि य० । आत्मानोऽन्यत्वाद्वि भा० ॥ ३°णान्यान्योत्पत्य य.। णानान्योत्पत्त्य भा०॥ ४विनंष्टपरुषादिषु कस्तदात्मा प्र०॥ ५ पत्त्याऽभ्युप भा० । पत्याऽभ्युप य० ॥ ६°ग्रहं चाप प्र०॥ ७ पृ. १३ पं० १॥ ८निर्देश वा प्र० ॥ ९ भवनात्मत्वं य० ॥ १० अन्योन्यरूपा य० । अन्ये रूपा भा०॥ ११ विशेषाः भा०॥ १२ एवान्यथा भा०॥ १३ भवंतीति प्र०॥ १४°भावौ रूपाधभावं च प्र. ॥ १५ प्राप्तितो य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org