________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे अन्तरेण तत्त्वमारब्धद्रव्याभावेऽपि छिद्रबुनघटादौ घटाभिधानप्रत्ययौ दृष्टौ । आभामात्रेऽपि तु तो तत्र तत्त्वोपनिलयनात् कृताविति चेत्, स्थाणु-मृगतृष्णिकयोनर-सलिलत्वप्रसङ्गः, तत्र तदभिधानप्रत्ययसद्भावात् । नरत्वसलिलत्वानुपनिपाते नरसलिलोक्तिप्रत्ययौ मा भूताम् । अनुपचरितकिश्चिद्भूताकारात्तु किञ्चिदुक्ति। प्रत्ययौ स्याताम् ।
तथा विशेषोऽपि । यदि खविषयः, विशेषविरोधः। यदि विशेषस्तत आत्मा
तत्त्वसम्बन्धादृतेऽप्यभिधानप्रत्यययोः प्रवृत्तिं दर्शयंश्चाह - तथा ह्यन्तरेणेत्यादि । तत्त्वं हि द्रव्ये समवैति । द्रव्यश्च द्विधा- अद्रव्यमनेकद्रव्यश्च । अद्रव्ये त्वाकाशादौ तत्त्वाभावेऽप्युक्तिप्रत्ययावुक्तौ ।
अनेकद्रव्यमारब्धद्रव्यम् , तच्च समवाय्यसमवायिकारणैरारभ्यते । समवायिकारणं घटस्य कपालानि, १४-१ 10 असमवायिकारणं तत्संयोगाः । 'आङ्' इति च विध्युपायमर्यादोपसङ्ग्रहार्थः । को विधिः ? स्वतः स्वात्मनि
च, के उपायः ? संयोगादिनिमित्तान्तरसहितानि, का मर्यादा ? आ अन्यावयविद्रव्यात् द्रव्याणि द्रव्यान्तरमारभन्ते । विनाशोऽपि कारणविभागात् कारणविनाशाद्वा। तत्रच्छिद्बुध्ने घटे कारणविभागादुत्पन्ने संयोगाभावादारब्धद्रव्याभावेऽपि घटाभिधानप्रत्ययौ दृष्टी, तथा कुड्यलिखिते समवाय्य
समवायिकारणाभावे शिशूनां च क्रीडनके लोष्टपाषाणादौ सद्भावासद्भावस्थापनाकृते । भंवेदेतत्- आभा15 मात्रेऽपि तु आकारमाने संस्थानमात्रे सादृश्यमात्र इत्यर्थः, तौ चोक्तिप्रत्ययौ तत्र तत्त्वस्य घटत्वस्यो
पनिलयनात् कृतमि(कृताविति चेत्, तत्र तत्त्वाभाव उक्तः, सत्यपि च तत्त्वेऽस्मदिष्टाकारमात्रोक्तिप्रत्ययौ चोक्तौ, अथाप्याभाँमात्रे तत्त्वोपनिलयनमिष्यते त्वया ततः स्थाणु-मृगतृष्णिकयोर्नर-सलिलत्वप्रसङ्गः, तत्र तदभिधानप्रत्ययसद्भावात् तत्तत्त्वोपनिलयनाच्च, घटत्वोपनिलयनाद् घटवत् ।
अनुपनिपाते नरत्वस्य स्थाणौ सलिलत्वस्य मृगतृष्णिकायां नरसलिलोक्तिप्रत्ययौ मा भूताम् , 20 तौ च दृष्टौ, कथमगृहीतविशेषणत्वान्नरत्वसलिलत्वानुपनिपीते नायुक्तौ ? तत्रोपचारलभ्यौ हि तो, इह
तु लोकनये विनोपचारेण लभ्यौ । कथमिति चेत् , अनुपचरितकिञ्चिद्भूताकारात्तु किश्चिदुक्तिप्रत्ययौ स्यातां भवितुमर्हतः, आकारस्यासम्पूर्णस्य दृष्टत्वादेव । भवत्पक्षे पुनर्न हि तत्त्वं किञ्चिन्निलीनं
"किञ्चिन्न निलीनमित्यस्ति । १४-२ एवं तावत् सामान्य विकल्पद्वये विचारितम् , विशेषोऽधुना विचार्यः । तत आह- तथा विशेषो25 ऽपीति । सोऽपि द्वयीं कल्पनां नातिवर्तते - स्वविषयः परविषयो वेति । तत्र यदि स्वविषयः, विशेषविरोधः । विशेषस्य विरोधो विशेषाभावापत्तेः, विशेषेण विरोध आत्माभावापत्तेः । किं वाङ्मा
१ तत्वं हि द्रव्यसमवैति भा० । तत्वं च द्रव्ये समवैति य० ॥ २ भावे व्यक्तिप्रत्ययावुद्धौ। अनेक प्र० ॥ ३ इत च विध्युपायमर्यादायसंग्रहार्थः प्र० ॥ ४ क इति पाठः प्रतिषु नास्ति ॥ ५°द्रचुन्ने प्र० ॥ ६ भागा उत्पन्ने प्र०॥ ७ क्रीडनकेलाबुपाषाणादौ य० ॥ ८ भवेदेतदातामात्रे य० । भवेदेतामात्रे भा० ॥ ९ मात्राऽक्तिप्र° भा० । मात्र उक्तिप्र इत्यपि स्यादत्र पाठः ॥ १० °भासमात्रे य० ॥ ११ °यनात्व घट भा०॥ १२°पातनेनायुक्तौ य०॥ १३ लभ्यौ इतौ भा०॥ १४°कारातु प्र० ॥ १५ किंचिनिलीनमित्यस्ति य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org