________________
सामान्यपरीक्षा]
द्वादशारं नयचक्रम् रिष्यते । न, अन्यतोऽपि तयोः सिद्धेः । तौ हि कस्मिंश्चिदेव आकारादिमात्रे, सामयिकत्वाच्छब्दादर्थे प्रत्ययस्य वृद्धव्यवहारादाकारादिमात्रे प्रतिपत्तेः। तथाहि
अत्रोच्यते - तन्न, अन्यतोऽपि तयोः सिद्धेः । अपिशब्दान्नियमाभावेन लोकसिद्धं नामादिकमप्युक्तिप्रत्ययकारणमाह । कयोः सिद्धिः ? उक्तिप्रत्यययोः । तन्नियमाभावं दर्शयति-तौ हि कस्मिंश्चिदेवाकारमात्रे। आदिग्रहणानाममात्रे। आकरणमाकारः, बुद्ध्या यो यथा परिगृह्यतेऽर्थः नाम्ना वा निर्दि- 5 श्यते स एव तस्याकारः। स च तावन्मात्रो न ततोऽधिकः, यथा-आकाशं डित्थ इति वा, स वान्यथा वान्यथा वा, आकाशादिषु विनानुवृत्त्या आकाशकालदिशां त्वन्मतेऽप्येकत्वात् कुतो भिन्नेष्वभिन्नाभिधानप्रत्ययौ ? कुतो वाकाशादितत्तत्त्वानीति ? दृश्येते चात्राप्युक्तिप्रत्ययौ । तस्मान्नास्ति सामान्यम् । घटत्वादिसामान्योपचारात्तेष्वभिधानप्रत्ययाविति चेत् , न, मुख्यसामान्यासिद्धेः साधाभावाच्चोपचाराभावात् तत्त्वपरीक्षायामुपचारस्यावकाशाभावाद् मिथ्याभिधानप्रत्ययत्वप्रसङ्गादाकाशादिष्विति।
10 किश्चान्यत् - सामयिकत्वाच्छब्दादर्थे प्रत्ययस्य । समयाय प्रभवति समयः प्रयोजनमस्य समयभवो वा सामयिकः । यथोक्तम् - सामयिकः शब्दादर्थे प्रत्ययः [वै० सू० ७।२।२०] इति, न सामान्यनिमित्त इति । तौ चाभिधानप्रत्ययौ लोकवृद्धव्यवहारात्मको वृद्धव्यवहारं दृष्ट्वा बालानामभिधानप्रत्ययौ भंवतोऽशिक्षितविचित्रशास्त्रव्यवहाराणामपि अन्ययव्यतिरेकात्मकाद्वृद्धव्यवहारादेव । न तत्त्वानुवृत्ति-१३-२ व्यावृत्तिकृतौ, लोकस्य तत्तत्त्वाद्यज्ञानात् । न तत्तत्त्वात्, तत्तत्त्वाज्ञानात्तेषाम् ।
15 . स्यान्मतम् - संशाकर्म त्वस्मद्विशिष्टानां लिङ्गम् , प्रत्यक्षपूर्वकत्वात् संज्ञाकर्मणः [वै० सू० २॥१॥ १८-१९] इत्युक्तं शास्त्रे। तस्माद् मन्वादयोऽन्तरालप्रलय-महाप्रलयेषु व्युच्छिन्नव्यवहाराणामपि शब्दा
र्थानां सम्बन्धं पश्यन्ति । तस्माद् घंट-घटत्वसमवायसम्बन्धोऽपि सामयिकः 'अस्यायं वाचकः' इति यथा 'अयं पनसः' इति समयं ग्राह्यते बाल इति । एतच्चायुक्तम् , अनवस्थाप्रसङ्गात् - येन शब्देन समयः क्रियते तस्यान्येन कार्य इत्यनुषक्तः, उत्तरस्यार्थाप्रतीतौ अस्य समयो न प्रकल्पते । तत्समयानपेक्षा स्वाभा- 20 विकी यस्यार्थे वृत्तिः स नित्य इति च शब्दार्थसम्बन्धपरिज्ञानप्रयोगव्यवहारपरम्पराया अव्यवच्छेदादुक्तम् । यथाह पतञ्जलि:- न हि तदेव नित्यं यत् तद्भवं कूटस्थमविचाल्यनपायोपजनविकार्यनुत्पत्त्यवृद्ध्यव्यययोगि । किं तर्हि ? तदपि हि नित्यं यस्मिंस्तत्त्वं न विहन्यते । तद्भावस्तत्त्वम् । आकृतौ चापि तत्त्वं न विहन्यते [पातञ्जलम० १.१ पस्पशा० ] इति । समयप्रत्याख्यानवत् प्रतिपादनप्रत्याख्यानातिदेशो वृद्धव्यवहारादाकारादिमात्रे प्रतिपत्तरित्यदोषाय, 'न शब्दादेव' इति वक्ष्यमाणत्वात् ।
१ नत्त अन्यतो य० । नित्त अन्यतो भा० ॥ २ नामादिमप्युक्ति प्र० ॥ ३ °वाह्वारमात्रे मा० ॥ ४ वाम्यथा २ चाकाशादिषु य० ॥ ५ दृश्यते प्र० ॥ ६ °च्छब्दार्थे य० ॥ ७ भवतो
प्रेत य० । भवती शिक्षित भा० ॥ ८ माम्वादयोन्तरालप्रत्ययमहा प्र.॥ ९ घटपटत्वसमप्र० । १० उत्तरास्यार्थाप्रतीतो ऽस्य समयो भा०। उत्तरास्यार्थाप्रतीतौ स्वसमयो य०॥ ११ प्रकल्प्पते भा० २० ही• विना ॥ १२ तहवं प्र०॥ १३ °विकायनुत्पत्त्यवृद्ध्यद्वययोगि प्र०॥ १४ वृद्ध्यव्यव प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org