________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे सङ्घातावस्थानभेदाद्वा घटपटवदत्यन्तभेद एव सर्वार्थानाम् । तथाहि-परमाण्वादीनां घटो भवति, घटस्य वा कपालानि । अनवस्थाने वा नित्यप्रवृत्तत्वात् सर्वार्थानां समयमपि तथा समवस्थानं नास्ति यथा समानता निरूप्येत ।
अथान्तरेण रूपप्राप्तिमुक्तिप्रत्ययाभ्यां दण्डिवद् व्यक्तिभिन्नार्थसिद्धि
5 इत्यादि यावत् सामान्यविशेषयोश्च तत्सम्बन्धित्वादेकतराभ्युपगमे नियमपक्षापत्तिरपि इति । स्वविषय
सामान्यापत्तिति वाशब्दो विकल्पार्थः स्वसामान्यपक्षाभिहितसर्वपूर्वोत्तरपक्षविकल्पप्रदर्शनार्थः, 'द्रव्यं १२-२ द्रव्यं च द्रव्यादिसमुदयश्च' इत्यादि विकल्पजातं सर्वमिहोपि संभवतो योज्यम् ।
___तथा सङ्घातावस्थानभेदाद्वा घटपटवदत्यन्तभेद एव सर्वार्थानाम् । यदि सचाहनयदर्शनेन .. सँर्वमेकम् , अथ ऋजुसूत्रनयदर्शनेन सर्वं भिन्नम् , तथापि सङ्घातेनावस्थितानां घटपटवदत्यन्तं परस्परतो 10 भेद एव, नैकत्वं सर्वार्थानाम् । नैनूक्तम् - सङ्घहनयदर्शनेनैकमिति, सत्यमुक्तम् , तत्तु सङ्घातेनावस्थिताना नोपपद्यते दृष्टविरुद्धत्वादित्यभिप्रायः । ततः किमिति चेत् , तथाहि - एवं च कृत्वा, किं ? परमाण्वादीनां घटो भवति घटस्य वा कपालानि, पिता पुत्रः कः सम्बन्ध इत्यर्थः। घटस्य वा कपालानीति तद्विनाश
जन्यत्वस्याप्यसम्बन्धं दर्शयति । आदिग्रहणाद् ब्यणुकत्र्यणुकादीनां ग्रीवादीनां चान्यत्र सङ्घातसमवस्थान- भेदात् समवस्थानकृत एव तेषां सम्बन्धः, तथा च समानं भवन्ति ते । 16 स्यान्मतम् - एवं व्याख्यातुस्तवैव मतेन परस्परविलक्षणानामर्थानां भेदादेवानवस्थान प्राप्तम् ,
द्रव्यादिभेदभिन्नानामन्योन्यनिरपेक्षाणां सङ्घातसमवस्थानाभावादिति । अत्रोच्यते - अनवस्थाने वा नित्यप्रवृत्तत्वात् सर्वार्थानां समयमपि तथा समवस्थानं नास्ति यथा समानता निरूप्येत, परस्परनिरपेक्षोत्पादविनाशत्वादित्यर्थः ।
एवं सर्वैकभिन्नपक्षयोः सामान्याभाव उक्तः। पक्षान्तरेऽपि वक्तुकामः ग्राहयति -अथान्तरेण 20 रूपप्राप्तिमित्यादि यावत् सिद्धिरिष्यत इति । अन्तरेणैकरूपप्राप्तिं भेदरूपप्राप्तिं वा उक्तिप्रत्ययाभ्यां
दण्डिवदिति, नागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यते, विशेषप्रत्ययानामनाकस्मिकत्वाञ्च दण्डनिमित्त
दण्डिप्रत्ययाभिधानवत् , 'दण्डोऽस्यास्तीति दण्डी' इत्यत्र हि दण्डसंयोगनिमित्तौ देवदत्ते दण्ड्युक्तिप्रत्ययौ १३-१ यथा दृष्टावेवं द्रव्यत्वघटत्वादिसामान्यविशेषसमवायनिमित्तौ द्रव्यघटाद्युक्तिप्रत्ययौ स्याताम् , नान्यथा।
व्यक्तिभिन्नार्थसिद्धिरिष्यत इति, उक्तिप्रत्ययाभ्यां द्रव्यघटादिव्यक्तितो भिन्नस्य द्रव्यत्वघटत्वादे26 रर्थस्य सिद्धिरिष्यते । एवं गुणकर्मणोश्च सङ्ख्योत्क्षेपणादिव्यक्तिभिन्नतत्तत्त्वार्थसिद्धिरेषितव्या, भिन्नेष्वर्थे
वभिन्नोक्तिप्रत्ययदर्शनादिति ।
१ दृश्यतां पृ० १४ पं० ४ ॥ २ °हापि तंभवतो प्र० ॥ ३ * * एतचिह्नान्तर्गतः सर्वमेकम् इत्यत आरभ्य सर्वार्थानाम् । न इत्यन्तः पाठो य० प्रतिषु नास्ति ॥ ४ भवति ते भा० ॥ ५ स्थानभावादिति प्र० ॥ ६सामान्यभाव प्र.॥ ७ प्रत्यया दण्डिवदिति य० ॥ ८ कर्मगवाश्व भा० २० ही। कर्मगवाश्च भा. रं. ही. विना॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org