________________
सामान्यपरीक्षा]
द्वादशारं नयचक्रम् तथा च सर्वस्यास्य जगतो द्रव्याद्यपेक्षया तथा तथा विशेषणैकता, तद्भेदत्वसम्बन्धत्वाभ्याम्, विकचसुरभिशरन्नीलोत्पलवत् । तत्रान्यस्य कस्यचिदपोह्यस्य सदृशस्य तत्तत्त्वस्य वा समानस्याभावात् सामान्यानुपपत्तिः। उदितदोषानुबद्धा एकसर्वत्वात् स्वसामान्यापत्तिा ।
एवं सामान्य व्याख्यायेदानीं तदर्थोपसंहारेणानुमानमाह - तथा चेत्यादि यावद् विशेषणैकता।। तथा चेति एवं च कृत्वा प्रतिपादितपरस्परभेदत्वे परस्परसम्बन्धैक्यापत्तौ च सर्वस्यास्य जगतो द्रव्यदेशकालभावापेक्षया तेन तेन प्रकारेण विशेषणकता। द्रव्यं क्षेत्रेण कालेन भावेन च विशिष्यते, द्रव्येण क्षेत्रमितरौ च, एवं 'तैस्तत् परस्परतश्च तानि । यथाङ्गुलिर्वक्रप्रगुणताद्ययुगपद्भाविभावै रूपादियुगपद्भाविभावैः देशेन तंद्र(तद्र)व्यान्तरैश्च विशिष्यते 'अङ्गुलिर्वका ऋज्वी प्रदेशेऽस्मिन्नाकाशस्य वर्तते प्रदेशिनी अधुना' इत्यादि तथैकैकमपि वस्तु घटपटादि न केनचिन्नाभिसम्बध्यते तथा तथा 10 "विशिष्यते च तद्भेदत्वसम्बन्धत्वाभ्याम् । प्रयोगश्चात्र - द्रव्यादिविशेषणसम्बन्धी घटः, वस्तुभेदत्वे १२.१ सति तत्सम्बन्धत्वात् , विकचसुरभिशरन्नीलोत्पलवत् । विकच-मुकुलितादि क्षेत्रविशेषणम् , सुरभि"नीलतादि सहक्रमभाविरूपादिभावविशेषणम् , शरदिति कालविशेषणम् । उत्पलमिति द्रव्यम् , तदपि तेषां विशेषणमेव व्यवच्छेदकत्वात्।
एवमनेकत्वसामान्यमापाद्य प्राक् प्रतिज्ञातं परविषयतायामप्यसमानावस्थानादसामान्यं परेषा- 15 मिति तदर्शयति-तत्रान्यस्य कस्यचिदपोह्यस्य सदृशस्य तत्तत्त्वस्य वा सैंमानस्याभावात् सामान्यानुपपत्तिः । एवमापादितपरस्परविशिष्टैकत्वजगतो घटैकत्वमात्रत्वेऽर्थान्तराभावात् कुतोऽर्थान्तरापोहलक्षणं विद्वन्मन्याद्यतनबौद्धपॅरिक्तृप्तं सामान्यम् ? कुतो वा समानं दृश्यत इति सदृशम् , सदृशभावः सादृश्यमिति सादृश्यलक्षणं सामान्यम् , संदृशस्य तस्याभावात् ? कुतो वा तत्तत्त्वम् ? तस्य भावस्तत्त्वम् , तत्तत्त्वमस्य तत्तत्त्वम् , तत्तु भिन्ने भवति समानानेकार्थानुवृत्तिलक्षणं सत्त्वद्रव्यत्वगुणत्व- 20 कर्मत्वादि ।
स्यान्मतम् – परस्परविशिष्टैकत्वादेव तत्समुदयः परविषयसामान्यमिति । एतच्चायुक्तमित्यत आहउदितदोषानुबद्धैकसर्वत्वात् स्वसामान्यापत्तिर्वा । यदुक्तं प्राक् 'स तत्समुदायकार्यत्वात् सामान्यम्' इत्यत्र एवं सत्यात्मभेदः - सुखं सुखं च सुखादिसमुदयश्च, तदात्मत्वात् । एवं शेषावपि
१ तदर्थोप्रसारणा' य० ॥ २ स्परभेदात्त परस्पर' भा० । स्परभेदंते परस्पर° य० ॥ ३ भावेन विशि° य० ॥ ४ तैभूत् पर' य० ॥ ५ अत्र देशेन द्रव्यान्तरैश्च इत्यपि पाठः सम्भाव्यते ॥ ६ केनचिंताभि भा० ॥ ७ विशेष्यते य० ॥ ८ चातद्भेद भा० ॥ ९ द्रव्यादिविशेषेण य० ॥ १० मीलनादि य० ॥ ११ शरदिति कालविशेषणम् इति पाठो य० प्रतिषु नास्ति ॥ १२ प्रीतिशानं भा० । प्रीतिज्ञान य० ॥ १३ परविषयिता प्र० । दृश्यतां पृ० १४ पं० ६॥ १४ सामानस्य भा०॥ १५ परिक्लिप्तं भा० । परिक्षिप्तं य०॥ १६ सशस्यातस्य भा० । अस्मिंस्तु भा० पाठे 'न सः असः' इति नन्तत्पुरुषं कृत्वा षष्ट्यन्तं रूपं ज्ञेयम् 'अतस्य' इति, तद्भिन्न स्वेत्यर्थः । तथा च 'सदृशस्यान्यस्याभावात्' इति भा० पाठानुसारेणार्थः प्रतीयते। १७ दृश्यतां पृ० १२ पं० ३॥ १८°कायत्वसामान्यम् य० । कायत्वमासान्यम् भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org