________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे भवनात् तेषाम् , अन्यथा द्रव्यादीनां वन्ध्यापुत्रवदभावत्वापत्तेः । भावोऽपि सर्ववस्तुतत्त्वव्यापी।
अत एतानि घटादिवस्त्वात्मसामान्यपक्षग्राहिणाप्यवश्यापेक्ष्याणि, प्रत्यक्षत एव तथात्मत्वात् ; किमु परविषयमुख्यसामान्यपक्षवादिना ? प्रत्यक्षत एव 5 तथा तथा परविषयस्य समानस्य भवनात्, परेण समानेन भूयते ।
कथञ्चिदपीति उक्तवदेव इत्यतिदिशति । तथाभवनात् तेषामिति तदेव भवनं हेतुत्वेन व्यापारयति । अन्यथेति भवनसामर्थ्याभावे द्रव्यादीनां वन्ध्यापुत्रवदभावत्वापत्तेः, न सन्ति द्रव्यादीनि भवनशून्यत्वाद् वन्ध्यापुत्रवत् । पञ्चमीनिर्देशात् तद्वैधर्येण भवनहेतुत्वमावीतेनाह । नेष्यते च द्रव्यादीना
मभावत्वम् , भावत्वमेवैषाम् । भावश्च भवनसम्बन्धी घटवत् । अतो द्रव्यादीनि भवनसम्बन्धीनि। भवनं 10 द्रव्यादीन् व्याप्नोतीत्यत आह-भावोऽपि सर्ववस्तुतत्त्वव्यापीति ।
अत एतानीत्यादि यावदपेक्ष्याणीति । एतस्मात् प्रतिपादितोपपत्तिबलाद् द्रव्यादीनि भावपर्यन्तानि भवनप्रधानान्यप्रत्याख्येयानि तस्माद् घटादिवस्त्वात्मसामान्यपक्षग्राहिणापि स्वविषयसामान्यवादिनेत्यर्थः । अपिशब्दात् स्वग्राहरक्तमनसापि सता त्वया अवश्यांपेक्ष्याणि सारं सारमेषितव्यानीत्यर्थः। किं कारणम् ? प्रत्यक्षत एव तथात्मत्वात् । दृश्यते एव हि द्रव्याघेकरूपभवनसामान्यतोक्तविधिना । 15 किमु परविषयमुख्यसामान्यपक्षवादिनेति, द्रव्यादीनां परस्परभिन्नानां समानभवनान्मुख्यं सामान्यम् , ११-२ "लोकश्चैवंविधसामान्यवादी, व्यवहारनयानुयायित्वात् । न तु यथा सौख्यादिषु सादृश्यान्यापोह
तत्त्वादि प्रमाणविरुद्धम् । तच्चोपचरितं भवितुमर्हति न मुख्यम् , सादृश्यानुवृत्तीनां लोके 'समानेन भूयते' इति सामान्यलक्षणस्यादृष्टत्वाद् दृष्टत्वाच्चास्मदिष्टस्य लौकिकस्य सामान्यस्येत्यत आहप्रत्यक्षत एव तथा तथा परविषयस्य समानस्य भवनात् , तेन तेन प्रकारेण द्रव्यक्षेत्रकालभावा20 पेक्षयुगपदयुगपद्भाविभावस्य लंपादिशिवकादिरूपस्य समानस्य भवनात् । सर्वतश्रसिद्धान्तेन व्याकरणेन लोकानुवृत्तिना निरुक्तिं तत्त्वानुवादिनीमप्याह - परेण समानेन भूयत इति, समानो भवतीत्यर्थः । समानभावः सामान्यम् , यद् भवन्ति सर्वभावाः स तेषां भाव इति स्वार्थिको भावप्रत्ययः । स्वभावसम्बन्धार्था चात्र कर्तृलक्षणा षष्ठी 'तस्य भावः' इति । यथा - 'शिलापुत्रकस्य शरीरम्' इति ।
१ भावनात्तेषां भा०। भावना तेषा य० ॥ २ वंध्यादिपुत्र य० ॥ ३ हेतुमावीतेनाह य० ॥ ४भावं च प्र०॥ ५एवानीत्यादि प्र०॥ ६ प्राधान्यप्रत्या' य०॥ ७ शब्दाश्च ग्राह प्र० ॥ ८ श्यापेक्षाणि प्र० ॥ ९मारसषितव्यानी भा० । मारमषितव्यानी य०॥ १० प्रत्यक्ष एवं प्र० ॥ ११ लोकं विविध प्र० ॥ १२ ननु यथा प्र० ॥ १३ सांख्यादीषूसाह भा०। एतदनुसारेण सांख्यादीष्टसाह इत्यपि पाठोऽत्र स्यात्, यतः “दृष्टत्वाचाऽस्मदिष्टस्य लौकिकस्य सामान्यस्य” इति वक्ष्यतेऽनन्तरमेव ॥ १४ प्रमाणावि भा०॥ १५ तच्चोपवनितं प्र०॥ १६ प्रत्यक्ष एवं प्र० ॥ १७ रूपाशिवकादि प्र० । अत्र रूपशिवकादि इत्यपि पाठः सम्भवेत् ॥ १८ निरुक्तितत्वादिवादिनाप्याह य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org