________________
सामान्यपरीक्षा]
द्वादशारं नयचक्रम् ... कालोऽपि युगपदयुगपत्कालखतत्त्वभूतपदार्थनिरूपितवृत्तिः- अनेकप्रभेदोपवास्तिकायपृथिव्यादियुगपद्वृत्तिः, आदान-धारण-पाचन-निसर्जनसलिलनिर्वयंव्रीहिकणौदनादिनिर्वृत्तिवृत्तिषु अयुगपदृत्तिः। - द्रव्याद्यपि तु रूपादिशिवकादियुगपदयुगपद्भाविभावाः, उक्तवदेव तथा
कालोऽपीत्यादि । कालोऽपि परविषयं सामान्यम् । परिणामवती क्रियैव काला, कैलनं कालः, 5 १०-२ कलासमूहो वा । यथा - मासमास्ते गोदोहमास्त इति । वर्तनं भवनमिति तत्पर्यायो वर्तनालक्षणो वा द्रव्यात्मा । स च युगपदयुगपत्कालस्वतत्त्वभूतपदार्थनिरूपितवृत्तिः, पूर्वोक्तरूपादिशिवकादिपरिणैतिवद् वक्ष्यमाणास्तिकायसलिलनिर्वय॑पृथिवी ब्रीहिकणौदनादिवद्वा । तद्यथा- युगपद्वृत्तिस्तावदनेकप्रभेदोपर्वयेत्यादि यावद् युगपद्धत्तिः । साङ्ख्यादिप्रक्रियोपवर्णास्त एव हि धर्माधर्माकाशपुद्गलजीवास्तिकायाः सप्रभेदाः, अथवा पृथिव्यादय एव अस्तिकायाः विद्यमानकायाः, ते यत्र युगपद्वर्तन्ते स तद्युगपद्वृत्तिः कालः । 10 यत्र च आदान-धारणेत्यादि यावन्निवृत्तिवृत्तिष्वयुगपद्धत्तिरिति । यथोक्तम् -
आदानीयालयो मासास्त्रयो मासास्त धारणाः। ,
पाचनीयास्त्रयो मासास्त्रयो मासो विसर्जनाः ॥ [ ] इति । ई(प्र)दान्याः पूर्व उत्तरः पूर्वोत्तरश्च वायवः, शेषाः शोषकाः । अत्रापि प्रतिप्रक्रियमादित्यसन्तापापीतसलिलधारण-पाचन-[नि]सर्जनघत्, धूम-ज्योतिः-सलिल-मरुत्सङ्घातमेघादान-धारण-पाचन-15 [नि]सर्जनवत् , विस्रसापरिणतपुद्गलविकाराभ्रत्वादिवद्वा, पुद्गलाविनाभावाद् देववैक्रियादेरपि आदानाद् धारणम् , धारणात् पाचनम् , पाचनान्निसर्जनम्। निसृष्टस्य सलिलस्य कार्याणि भूमिद्रवीभाववनस्पत्योषधि- - प्ररोहपुष्पफलप्राणिशरीराप्यायनादीनि । ततोऽपि कार्यान्तराण्याहारबलवपुःस्थामादीनि घटपटादिनिर्वृत्तयश्चेत्यादि । निवृत्तयः कार्याणि, तासां निवृत्तीनां वृत्तिष्वयुगपद्धत्तिः काल एव, तदुपष्टम्भजन्यत्वात् तेषां ११-१ भावानामिति ।
. 20 ____ इदानीं भाव उच्यते । स तु पूर्वोक्तेषु द्रव्यादिषु भवनं भाव इत्युक्तत्वादुक्त एव । तदर्शयन्नाह-द्रव्याद्यपि वित्यादि । गुणपर्यायवद् द्रव्यम् [तत्त्वार्थसू० ५।३७]. इत्युक्तम् । गुणा रूपादयः, शिवकादयः पर्यायाः, ते युगपदयुगपद्भाविनः, त एव भावाः । क्षेत्रकालौ च द्रव्यमेव, भवनसामान्याद्भाव एव वा । तस्मान्न तानि द्रव्यादीनि युगपदयुगपद्भाविभावव्युदासेन भवितुमर्हन्ति
१ कालनं कालः कालसमूहो वा प्र० ॥ २°णतवद् य० ॥ ३°वीहिनरौदनादिवद्वा इति सर्वावपि प्रतिषु पाठ उपलभ्यते, किन्त्वत्र नरशब्दस्यासङ्गतत्वाद् युगपदयुगपत्कालखतत्त्वभूतपदार्थनिरूपणप्रस्तावे युगपद्भाविनां पृथिव्याद्यस्तिकायानामयुगपद्भाविनां च व्रीहि-कणी-दनादीनां विवक्षितत्वाच्च ब्रीहि गौदनादिवद्वा इति पाठः सम्भावितोऽस्माभिः । अथवा "निसृष्टस्य सलिलस्य कार्याणि भूमिद्रवीभाववनस्पत्योषधिप्ररोहपुष्पफलप्राणिशरीराप्यायनादीनि'' इत्यनन्तरं वक्ष्यमाणत्वात् तदनुसारेण व्रीहिप्ररोहणादिवद्वा इत्यपि पाठोऽत्र स्यादिति ध्येयम् ॥ ४ वर्णेत्यादि प्र० ॥ ५ घिसर्जनाः य० ॥ ६ इदात्याः य० । एतदनुसारेण इहान्त्याः इत्यपि पाठः सम्भवेदत्र । अस्मिंस्तु पाठे 'इह आदानीयादिषु चतुषु अन्त्या विसर्जनाः पूर्व उत्तरः पूर्वोत्तरश्च वायवः' इत्यर्थसङ्गतिर्द्रष्टव्या । अत्र इहाऽऽप्याः इत्यपि पाठश्चिन्त्यः ॥ ७°त्तरं च प्र०॥ ८°स्थावादीनि प्र० ॥९ °त्तयण्चेत्यादि भा० । त्तय एवेत्यादि य० ॥ १० इत्युक्तत्वात् क्त एव प्र०॥ ११ °कालौ द्रव्यमेव य०॥ . ...
नय०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org