________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे ...क्षेत्रमपि सर्वगतिनिवासवृत्तिखतत्त्वमेकैकभावार्थसङ्घातसमवस्थानात्मा रूपादि-ग्रीवायेकगमनसमवस्थानव्यवस्थापितपृथिव्यादि-घटादि व्यापि विश्वस्य सद्व्ययुगपदयुगपद्भाविरूपादिशिवकादिभावविस्पन्दितस्य ।
न क्वचिदपि न प्रवर्तते । यथा रूपादिशिवकादयो मृदो भवनमात्रं तथा युगपद्भूतं पृथिव्यादि परमार्थः । पृथिव्यप्तेजोवाय्वाकाशादि द्रव्यभवनमात्रम् । पॅथिव्याश्वाश्मलोष्टादि, तथाऽपां हिमकरकादि, तेजसोऽ'प्यर्चिरादिस्वभेदा इत्यादि । अयुगपद्भूतं व्रीहि-बीजा-कर-पत्र-नौल-काण्ड-पुष्प-फल-शूक-कण-तुषादि परमार्थ इति सर्वं द्रव्यभवनमात्रम् , एकपुरुषपितृपुत्रत्वादिवसात्ता(वत्तांस्तान्) भावान् भवतीति द्रव्यम्।
क्षेत्रमपि व्याकरणसिद्धान्तगत्यैव क्षि निवासगत्योः [पा० धा० १४०७] इति सर्वस्य सिद्धं सर्वगतिनिवासवृत्तिस्वतत्त्वम् । गतिर्व्याप्तिः । निवासस्तथावस्थानम् । सर्वभावानां प्राप्त्यवस्थानोपकारेण 10 वर्तत इति तद्वृत्तिस्वतत्त्वम् । प्रदेशरचनाविशेषो हि क्षेत्रम् । एकैकभावार्थसङ्घातसमवस्थानात्मा,
एकैकस्य घटपटादेर्भावस्यार्थे पृथुबुध्नादिरूपेण संहत्य समवस्थितस्य आत्मा स्वरूपतत्त्वं प्रधानमित्यर्थः । किं कारणम् ? क्षेत्राभावे तदभावात् क्षेत्रानुग्रहादेव तद्भावात् । यथासङ्ख्यं रूपादि-ग्रीवायेकगमनसमवस्थानव्यवस्थापितपृथिव्यादि-घटादि । यथास्वक्रियं वैशेषिकादीनाम् रूप-रस-गन्ध-स्पर्शवती
पृथिवी [वै० सू० २।१।१], शब्द-स्पर्श-रूप-रस-गन्धात्मा पृथिवी, कक्खटलक्षणा वेति । एवं घटोऽप्यव16 यवी, गुणसमुदयमात्रम् , प्रज्ञप्तिसेन वेति विकल्पनामात्रम् । लोकनयेन तु [त] एव हि रूपग्रीवाद्यवयवा रूपादयो ग्रीवादयश्चैकगतयस्तथा तथा समवस्थिताः पृथिव्यादीन घंटादींश्च व्यवस्थापयन्ति यत्र तत् क्षेत्रम् । किं हि तत् पृथिव्याः पृथिवीत्वं रूपाद्येकगतिसमवस्थानादन्यत् , घटस्य वा ग्रीवाद्येकगतिसमवस्थानादन्यद् घटत्वम् ? तस्मात् सर्वगतिनिवासवृत्तिस्वतत्त्वं तत् । व्यापि विश्वस्येत्यादि याव
"द्विस्पंदितस्य । "विश्वं सद्रव्यं च व्याप्नोति युगपदयुगद्भाविरूपादिशिवकादिभावविस्पंदितं 20 पृथिव्यबादि घटपटादि विपरिणामजातं चेत्यर्थः ।
१°व्यादेः पर० प्र० ॥ २ द्रव्यं भवन प्र०॥ ३ पृथिव्यां चाश्म प्र० ॥ ४ °ताल° य० ॥ ५ शृक प्र० ॥ ६ भवंतीति प्र० । “द्रव्यमिति भव्यमाह । द्रव्यं च भव्ये । भव्यमिति प्राप्यमाह । 'भू प्राप्तावात्मनेपदी' [पा० धा० १८४५] । तदेवं प्राप्यन्ते प्राप्नुवन्ति वा द्रव्याणि"-इति तत्त्वार्थभाष्ये १।१।५। “१८४५ भू प्राप्तावात्मनेपदी भावयते भवते। णिच्सन्नियोगेनैव आत्मनेपदमित्येके । भवति ।"-पा० सिद्धान्तकौमुदी ॥ ७ प्रक्रियां प्र० ॥ ८ करकट° प्र० । 'क्ख' इत्यक्षरं 'रक' इत्येवमालिख्यते स्म प्राचीनलिप्यामिति ध्येयम् । “निष्ठुरः कक्खटः क्रूरः परुषः कर्कशः खरः ॥ दृढः कठोरः कठिनो जरठः..........” इति अभिधानचिन्तामणौ ६।२२-२३ । "कतमश्च महाराज ! आध्यात्मिकः पृथिवीधातुः ? यत् किञ्चिदस्मिन् कायेऽध्यात्म कक्खटत्वं खरगतमुपात्तम् । तत् पुनः कतमत् ? तद्यथा-केशा रोमाणि नखा दन्ता इत्यादि । अयमुच्यते आध्यात्मिकः पृथिवीधातुः । कतमश्च महाराज ! बाह्यः पृथिवीधातुः ? यत् किश्चिद् बाह्यं कक्खटत्वं खरगतमनुपात्तमयमुच्यते बाह्यः पृथिवीधातुः"- इति शिक्षासमुच्चये पृ० २४५ ॥ ९ सत्वेति प्र०॥ १०°नये तु त एव इत्यपि पाठः स्यादत्र ॥ ११ पटादी च भा० ॥ १२ विण्वस्ये य० ॥ १३ °द्विस्यंदि भा० ॥ १४ विण्वं य०॥ १५ व्यपादि प्र०॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org