________________
सामान्यपरीक्षा ]
तत्र द्रव्यमपि भवनलक्षणं युगपदयुगपद्भेदभाविमृद्भवन परमार्थरूपादिशिवकादिवृत्ति व्यापि ।
द्वादशारं नयचक्रम्
लक्षणानां पैरेष्टानां परेष्टानां परविषयाणामसम्भवात् स्वष्टसमानभवनलक्षणसामान्यसम्भवात् पेरकीयमसामान्यमेवेत्युपरि उपसंहरिष्यैति लौकिकः, तत् सिद्धं कृत्वा तावदाह - असमानावस्थानादसामान्यमिति । तत् पुनर्द्रव्यक्षेत्र कालभावविषयम्, ते हि द्रव्यादयः परे परैरिष्यमाणा घटादेर्वस्तुनः, तदपि 5 परसत्तैदपेक्षया समानमि युच्यते नात्मानमेवेति परविषयम् । किं पुनः कारणं तदसामान्यम् ? इत्यत आह - अनवधृतैकतर कारणत्वादिति, नावधियते द्रव्यमेव क्षेत्रमेव काल एव भाव एव वा कारणमिति । एवं तर्हि 'एकमकारणत्वात्' इति वाच्यम्; न चात्र डतरडतमौ प्रामुतः, कस्मात् ? अन्य - किं यत् तदो निर्धारणे द्वयोरेकस्य डतरच् । वा बहूनां जातिपरिप्रश्ने उतमच् [ पा० ५/३/९१-९२] इत्यत्र ‘एक’शब्दस्यापठितत्वात् । एवं तर्ह्यतिर्शयिकः तरप्प्रत्ययः । समानगुणेषु हि स्पर्द्धा भवति, गुणवचना- 10 भावान्नेति चेत्, कारणत्वगुणतोऽतिशयो भविष्यति । एवं तर्हि तमबस्त्विति चेत्, द्वयोर्द्वयोः प्रकर्षविवक्षायां तैरेबियदोषः । अथवा एकाच्च प्राचाम् [पा० ५ ३ । ९४ ] इति जातिपरिप्रश्नेऽस्त्येव डतरजित्यदोषः । केन ९-२ अनवधृतमेकतर कारणत्वं द्रव्यादीनामिति चेत्, उच्यते - लौकिकैर्व्यवहारनयप्रधानैः, स च आर्हतनयैकदेश एव । न पुनर्यथा शास्त्रकाराः सामान्यमेव विशेष एव द्रव्याद्यन्यतमदेव वा कारणं कार्य वेत्यवधारयन्ति ।
१५
Jain Education International
कथं पुनर्द्रव्यादिकारणतावधार्यते न वेति ? उच्यते - द्रव्यं तावत् तत्र द्रव्यमपि भवनलक्षणं व्यापीत्यभिसम्भन्त्स्यते । अपिशब्दात् क्षेत्रमपि । सर्वतन्त्रसिद्धान्ते व्याकरणे द्रव्यं च भव्ये [ पा० ५|३|१०४ ] इत्युक्तत्वाद् भवतीति भव्यं भवनयोग्यं वा द्रव्यम् । द्रवति द्रोष्यति दुद्रावेति द्रुः, द्रोर्विकारोऽवयवो वा द्रव्यम्, दुद्रु गतौ [पा० धा० ९४४ - ९४५ ], सदैव गत्यात्मकत्वाद् विपरिणामात्मकं हि तत् । तु यथा गुणसन्द्रावो द्रव्यम् [ पातअलम० ५।१।११९] क्रियावद् गुणवत् समवायिकारण- 20 मिति द्रव्यलक्षणम् [वै० सू० १|१|१५ ] इति वा । कथं भवतीति चेत्, भिद्यते इति भेदः, भेदेन भवितुं शीला तस्या धर्मो वा साधु भवतीति [वा] भेदभाविनी मृत्, तस्या भवनं भेदभाविमृद्भवनम्, तदेव परमोऽर्थः कोऽसौ ? रूपादयः शिवकादयश्च । ते पुनर्यथासङ्ख्यं युगपदयुगपच्च भेदभाविमृद्भवनपरमार्थरूपादिशिवकादयः, समानाधिकरणसमासः । पुनरपि ते वृत्तिरस्य तेषु वा वृत्तिरस्य तदिदं युगपदयुगपद्भेदभाविमृद्भवनपरमार्थरूपादिशिवकादिवृत्ति । किं तत् ? द्रव्यम् । व्याप्नोतीति व्यापि, 26
1
१ परेष्टानां परविषया० भा० ॥ २ परकीय सामान्य प्र० ॥ ३ 'ष्यते य० । एतत्पाठानुसारेण तु ‘उपसंहरिष्यते । लौकिकस्तत् सिद्धं कृत्वा तावदाह' इति योजनीयम् ॥ ४° मानादस्थानाद सामान्य य० । 'मानादसामान्य भा० ॥ ५ अत्र 'नात्मानमेव' इति सङ्गमयितुं 'तदपेक्ष्य' इति पाठः स्याच्चेत् साधु ॥ ६ नावप्रियं भा० ॥ ७° तदोर्निर्घा भा०२० ही ० विना ॥ ८ इनाचैकंश भा० । इत्यचैकश य० ॥ ९ शायिकः भा० ॥ १० तमवस्त्विति २० वि० विना ॥ ११ तरपित्य प्र० । कायं वेत्य भा० ॥ १३ अत्र तवेति इति पाठः समीचीनः प्रतिभाति, तथा च 'तव पक्षे कथं पुनर्द्रव्यादिकारणतावधार्यते' इति प्रष्टुराशयो भाति ॥ १४ तत्व द्रव्यमपि प्र० । १५ द्रव्ये च भा० । द्रव्य च य० ॥ १६ ननु यथा य० ॥ १७ शीलस्तस्या प्र० ॥
१२ कार्य चेत्य' य० ।
For Private & Personal Use Only
15
www.jainelibrary.org