________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [प्रथमे विध्यरे कत्वादिव्यतिक्रमेण, एवं शब्दादौ त्रिगुणाव्यतिरेकैकरूपत्वं विरोधधर्मसम्बन्धश्च तन्मयत्वात् । ततश्च सर्वस्यावस्थानात् कारणकार्यनियमाभावाद् यदृच्छामात्रत्वादङ्गीकृतपुरुषार्थयत्नार्थहानिः।
सामान्यविशेषयोश्च सम्बन्धित्वादेकतराभ्युपगमेऽन्यतरस्यावश्यापेक्ष्य। त्वात् सामान्याभ्युपगमे नियमपक्षापत्तिरपि ।
परविषयतायामपि असमानावस्थानादसामान्यम् । किं कारणम् ? अनवधृतैकतरकारणत्वाद् द्रव्यादीनाम् ।
स्थूलं चेत्यादि सामर्थ्यादापादनीयम् । एष दृष्टान्तः । साधयं सदा त्रिगुणकत्वादिति । यथा तत्र त्रित्वैकत्वाद्यात्मस्वतत्त्वव्यतिक्रमेणेति विरोधधर्मसम्बन्धोऽव्यतिरिक्तत्रिगुणैकरूपता चेष्यत 10 इति प्रधानस्यैव दृष्टान्तस्य वर्णनम् । एवं शब्दादाविति दान्तिकोपनयः, त्रिगुणाव्यतिरेकैकरूपत्वं विरोधधर्मसम्बन्धश्च शब्दतन्मात्रादिषु, तत्कार्येष्वाकाशादिषु भूतेष्वेकगुणादिवृद्धेषु, तद्विकारेषु च गवादिर्घटादिषु च, श्रोत्रादिष्वेकादशखिन्द्रियेषु च प्रधानधर्मा आपाद्याः । किं कारणम् ? तन्मयत्वात् , सत्त्वादिगुणमयं हि तत् । ततश्च सर्वस्यावस्थानात् प्रधानावस्थायामिव न किञ्चित्
सूत्रादि पेंटादि वा कस्यचित् कारणं कार्य वा प्रमाणं प्रमेयं "वेति नियमाभावात् सर्वत्र यादृच्छिकी 15 प्रवृत्तिः प्रसक्ता, यदृच्छामात्रत्वान्न प्रधानमहदहङ्कारादिकारणकार्यनैयम्यम् । ततश्च यदृच्छामात्रत्वा
दङ्गीकृतपुरुषार्थयत्नार्थहानिः । पुरुषश्चैतन्यस्वरूपः, तस्यार्थो द्विविधः- शब्दाद्युपलब्धिरादिः गुणपुरुषान्तरोपलब्धिरन्तः, तत् कृत्वा तद्विनिवर्तत इति तस्मै पुरुषार्थाय यत्नः प्रधानस्य, तस्य यत्नस्य अर्थः प्रयोजनम् , तस्य हानिर्यादृच्छिकत्वात् । तस्य च हानौ प्रधान-पुरुष-संयोगत्रित्वपरिज्ञानार्थशास्त्रयत्नार्थि] हानिरपि । 20 सामान्यविशेषयोश्च सम्बन्धित्वादित्यादि यावद् नियमपक्षापत्तिरपि । सामान्यं विशेष ९-१ इत्येतौ परस्परसम्बन्धिनौ, आद्यन्तवत् पितापुत्रवद्वा । तत्र यदि सामान्यमभ्युपगम्यते विशेषापेक्षित्वात्
सामान्यस्य विशेषोऽवश्यैष्यः, पितृत्वाभ्युपगमे पुत्रत्वाभ्युपगमवत् । विशेषाभ्युपगमे च सामान्याभ्युपगमस्तद्वदेवेत्यतस्ते बलादेव विशेषपक्षापत्तिरपि नियमपक्षापत्तिरित्यर्थः । अपिशब्दात् प्रागुक्तदोषापत्तिः ।
एवं तावत् स्वविषयत्वे सामान्यस्य दोषा उक्ताः । 25 परविषयतायामप्यसमानावस्थानादसामान्यम् । अमुख्यसामान्यानां सदृशानुप्रवृत्तिव्यावृत्ति
१ यथा त्रित्वैकत्वा य० ॥ २ तत्त्वतिक्रमेणेति प्र० ॥ ३ वर्णनमेव शब्दादाविति प्र०॥ ४°घटादिष्वेकादश भा०॥ ५ पदादि य० । पदाटादि भा०॥ ६ कारणं वा कार्य वा य०॥ ७चेति य० ॥ ८°रतः य.। “प्रधानस्य पुरुषार्था प्रवृत्तिः। स च पुरुषार्थों द्विविधः-शब्दाधुपलब्धिरादिगुणपुरुषान्तरोपलब्धिरन्तश्च"-सायका० माठरवृ० पृ० ७९॥९ अत्र 'तत् कृत्वा' इति पाठः सामान्ये नपुंसकमित्यभिप्रायेण सङ्गमनीयः, अन्यथा 'तं कृत्वा' इति स्यात् ॥ १०विशेषषोवस्यैष्यः भा०। विशेषेषोत्वस्यैष्यः य० ॥११ गमत्वात् प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org