________________
सामान्यपरीक्षा]
द्वादशारं नयचक्रम् त्वात् सामान्यम् । एवं सति आत्मभेद:-सुखं सुखं च सुखादिसमुदयश्च, तदात्मत्वात् । एवं शेषावपि । ततश्च त्रिगुणविपरिणामकारणकल्पनावैयर्थ्यम् ।
नित्यमेव त्र्यात्मकमिति चेत्, एकत्वनित्यत्वात् प्रकाश-प्रवृत्ति-नियमभेदाभावादनारम्भः । उभयस्य चाभावः । यथा च प्रधानावस्थायां त्रित्वैकत्वादि-5 विरोधधर्मसम्बन्धोऽव्यतिरिक्तत्रिगुणैकरूपता चेष्यते सदा त्रिगुणैकत्वात् त्रित्वै
__ अत्र ब्रूमः - एवं सत्यात्मभेदः, समुदायैककार्यत्वात् सुखादि एकमसामान्यमितीष्टस्य सामान्यस्य भेदः । तत् कथमिति चेत् , उच्यते - सुखं सुखश्च सुखादिसमुदयश्च । सत्त्वं सुखम् , रजो दुःखम् , तमो मोहः । तत् त्रयमैकात्म्यापन्नमेकमेवेति सुखस्य सुखत्वं तत्समुदायत्वं च प्राप्तम् । किं कारणम् ? तदात्मत्वात् , यस्मात् सुखाद्यात्मकः समुदायः समुदायात्मकं च सुखम् । एवं शेषा- 10 वपीति दुःखमोहावतिदिशति । एवं दुःखं दुःखञ्च दुःखादिसमुदायश्च, मोहो मोहश्च मोहादिसमुदयश्च । ततः को दोष इति चेत् , ततश्च त्रिगुणविपरिणामकारणकल्पनावैयर्थ्यम् । समुदायैककार्याणां ८-१ त्रयाणामेकत्वाभ्युपगमादेकस्तत्साम्यावस्थाविशेषः, तस्माचावस्थाविशेषादप्रच्युतत्वात् कुतो गुणानां वैषम्यम् ? वैषम्याभावे कुतः प्रकृतेर्महदहङ्कारतन्मात्रभूतेन्द्रियादिपूर्वोत्तरहेतुकार्यभावः ? ..
अत्राशङ्का -नित्यमेव च्यात्मकमिति चेत् , प्रधानावस्थायामपि त्रिगुणत्वान्नित्यं सर्वकालं 15 त्र्यात्मकं सत्त्वरजस्तमआत्मकम[तो] गुणवैषम्य-विपरिणाम-कारणत्वान्युपपद्यन्ते सुखादिसमुदायात्मकत्वेऽप्यात्मभेददोषश्च नास्तीति । एतदपि वाङ्मात्रत्वादनुत्तरम् , तथापि तु सुतरां तथा, एकत्वनित्यत्वात् प्रकाश-प्रवृत्ति-नियमभेदाभावादनारम्भः। एकत्वस्य नित्यत्वात् एकत्वेन वा नित्यत्वात् , सदैकत्वादित्यर्थः । प्रकाश-प्रवृत्ति-नियमकार्यभेदः सत्त्वरजस्तमसां योऽभ्युपगम्यते भवद्भिराचार्य-पवन-पाषाणवत् , तद्यथा - नाटकाचार्यः स्वहस्तोत्क्षेपणादिना प्रकाशात्मना आत्मनो नर्तिकायाश्च 20 व्यवतिष्ठते, पवनः पर्णचलनादिना स्वपरप्रवर्तनेन व्यवतिष्ठते, नौस्तम्भनपाषाणकः स्वपरनियमनेन व्यवतिष्ठते तथा सत्त्वरजस्तमांसि इत्येतन्नोपपद्यते, सर्वकालमेकत्वनित्यत्वात् त्रित्वाभावः, ततस्तदनारम्भः प्रधानावस्थायामिव गुणानां सर्वकालं कार्यानारम्भो निर्व्यापारत्वात् । वैषम्यनिर्मूलता च, आरम्भाभावात् । उभयस्य चाभावः कारणस्य कार्यत्वस्य च, अथवा आत्मनः सामान्यस्य च, सुखादेः समुदायिनस्तत्समुदायस्य च प्रधानस्य । किं कारणम् ? अन्यतराव्यवस्थानेऽन्यतरस्याव्यव-25 स्थानात् । तत् कथं भाव्यत इति चेत्, उच्यते-यथा च प्रधानावस्थायामित्यादि यावत् त्रित्वैकत्वादिव्यतिक्रमेणेति । त्रित्वैकत्वादीयुक्तपरामर्शः, यथा त्रित्वमेकत्वं च विरुद्धौ धर्माविष्येते एवमवयवा अवयवी च, अन्यदनन्यञ्च, आत्मा चानात्मा च, सर्वमसर्व चेत्यादि । आदिग्रहणात् सूक्ष्म
. १ पन्नमेवेति भा० ॥ २ प्राप्तं च किं प्र० ॥ ३ सर्व भा० ॥ ४ 'नियमेन व्यव' य० ॥ ५त्वात्तित्वा भा० । त्वात्तत्वा य० ॥ ६°भावस्तदनारम्भः य० ॥ ७ विरुद्धौ च धर्मा भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org