________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [प्रथमे विध्यरे आत्मा न भवति, अनेकार्थविषयत्वात् सामान्यस्य; अथ आत्मा, ततो न सामान्यम्, एकत्वादात्मनः; सेनाहस्तिनोरिव ।। ____ अथोच्येत - आत्मैव सामान्यम् । सत्त्वादिर्घटादेरात्मा, स हि तत्समुदायकार्यतत एकस्य सर्वत्वात् सर्वस्य चैकत्वात् स्वविषयं सामान्यं घटस्यात्मनि वर्तत इति परमतं 5 प्रदोत्तरमाह- यद्येवम् , सामान्यविरोधः सामान्यस्य विरोधः सामान्येन च विरोधः ।
तत् कथम् ? उच्यते- यदि सामान्यम्, तत आत्मा न भवति, अनेकार्थविषयत्वात् सामान्यस्य । कश्चिदर्थः केनचिदर्थेन कैश्चिद्धभैः समानो भवतीति कृत्वानेकार्थविषयं सामान्यम् । तस्मादनेकार्थविषयत्वात् सामान्यस्य वस्तुनः स्वमात्मा घटादेरेकरूपस्य न भवति, एकत्वादात्मनः,
सामान्यस्य च निवृत्तेरात्मनश्च आत्माभावात् कस्य सामान्यम् ? । अथ मा भूदेष दोष इत्यात्मेष्यते, 10 ततोऽपि न सामान्यम् , एकत्वादात्मनः केन सामान्यं तस्य ? इत्यात्मनः सामान्येन विरोधः,
समानभावो हि सामान्यम् । सेनाहस्तिनोरिवेति, हस्त्यश्वरथपदातिसमूहः सेनेत्यनेकार्थापेक्षां दर्शयति, हस्तीति चैकार्थतां दर्शयति ।
अथोच्यतेति स परिहतुकामस्य परस्याभिप्रायमाह । स्यादेव विरोधो यदि 'आत्मनः सामान्यम्' ७-२ इति भेदेन स्वत्वमभ्युपगम्येतेति । यद्यपि व्यतिरेकार्थषष्ठीप्रापितः स्वस्वाम्यादिभेदः तथाप्यदोषः, 1B व्यपदेशिवद्भावात् 'राहोः शिरः' इत्याद्यव्यतिरेकषष्ठीदर्शनादिति । किं तर्हि ? ब्रूमः- इह तु आत्मैव सामान्यम् । किं तत् ? घटादेः सत्त्वादिरात्मा । यथोक्तम् - ___ आध्यात्मिकाः कार्यात्मका भेदाः शब्द-स्पर्श-रस-रूप-गन्धाः पञ्च त्रयाणां सुख-दुःख-मोहानां सन्निवेशमात्रम् । कस्मात् ? पञ्चानां पञ्चानामेककार्यभावात्, सुखानां शब्द-स्पर्श-रस-रूप-गन्धानां प्रसादलाघवाभिष्वङ्गोद्धर्षप्रीतयः कार्यम् , दुःखानां शोषतापभेदोपष्टम्भोद्वेगापद्वेषाः, मूढानां 20 वरणसदनापध्वंसनबैभत्स्यदैन्यगौरवाणीति । तथा करणात्मकाः श्रोत्र-स्वक्-चक्षु-र्जिह्वा-घ्राण
वाग्-हस्त-पाद-पायू-पस्थ-मनांस्येकादश 'तैर्यग्योन-मानुष-दैवानि बाह्याश्च भेदाः सत्त्वरजस्तमसां कार्य समन्वयदर्शनात् [
] इति । एवं पृथिव्यादि गवादि घटादि । तस्मात् सत्त्वादिर्घटादेरात्मा। स हि तत्समुदायकार्यत्वात् सामान्यम् । तस्मादात्मैव सामान्यमिति ।
- १ सामान्यवस्तुनः भा० ॥ २ व्यतिकार्थषष्टीप्रापितस्वस्वा प्र०॥ ३°भेदापष्वम्भों भा० । भेदापस्तम्भों य० । अत्र 'भेदापष्टम्भो इति भेदापस्तम्भो' इति भेदावष्टम्भों' इति वा पाठोऽपि भवेत् । किन्तु अधुना उपलभ्यमानेषु प्रायः सर्वेष्वपि साङ्ख्य सिद्धान्तप्रतिपादकग्रन्थेषु 'उपष्टम्भ'शब्दस्य 'उपस्तम्भ'शब्दस्य वा प्रयोगदर्शनादस्माभिरपि स आदृत इति ज्ञेयम् । मुद्रितन्यायकुमुदचन्द्रस्य टिप्पण्यां तु [पृ० ३५० ] 'उपष्टम्भ'शब्दस्थाने ब० ज० भां० श्र०प्रतिषु 'अवष्टम्भ' इति पाठान्तरमपि उल्लिखितमस्तीति ध्येयम् ॥ ४ तैर्ययोन भा० । तैर्ययौन" य० ॥ ५ कार्यसमन्वय य० ॥ कायं समन्वय भा० । अत्र 'कार्यम्' इति पाठश्चेत् सम्भाव्यते तर्हि 'बाह्याश्च भेदाः सत्त्वरजस्तमसो कार्यम् , समन्वयदर्शनात्' इति योजनीयम् । य० प्रतिपाठानुसारेण तु 'त्रयाणां सुखदुःखमोहानां सन्निवेशमात्रम्' इति पूर्वतनवाक्यमनुवर्त्य 'बाह्याश्च भेदाः त्रयाणां सुखदुःखमोहानां सन्निवेशमात्रम् , सत्त्वरजस्तमसां कायेसमन्वयदर्शनात्' इति योजनीयम् ॥ ६कायत्वा सामा भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org