________________
भङ्गनामानि]
द्वादशारं नयचक्रम् विवक्षितद्वादशविकल्पविशेषणा, अन्यथा अवृत्तित्वमेव वक्ष्यमाणवत् । सा च विध्यादिप्रत्येकवृत्तिरूपाख्यानसमधिगम्या । __ तत्र विधिवृत्तिस्तावद् यथालोकग्राहमेव वस्तु, खपरविषयतायां सामान्यविशेषयोरनुपपत्तेरसंस्ततो विवेकयत्नः शास्त्रेष्विति ।।
सामान्यविशेषौ हि स्वविषयौ परविषयौ वा स्याताम् । तत्र सामान्यं ताव-5 देकस्य सर्वत्वाद् यदि खविषयम् , सामान्यविरोधः । यदि सामान्यम्, तत तत्त्वमित्यत आह-जैनसत्यत्वसाधनवृत्ता तु वृत्तिर्विवक्षितद्वादशविकल्पविशेषणेति, तत्समा-६-२ हारैकरूपतया तत्त्वान्वाख्यानमित्यर्थः, अनेकसम्बन्धिदेवदत्तपितृपुत्रत्वादिधर्मसमाहारैकरूपवस्तुतत्त्वान्वाख्यानवत् । अन्यथेत्येकान्तावधारणे प्रत्येक स्वरूपानवधारणात् अवृत्तित्वमेव वक्ष्यमाणवदिति, तदित्थमिदमेव शास्त्रं वय॑तीति परस्परव्याहततत्त्वास्त्ववृत्तय एव ता इत्यर्थः । वृत्तितत्त्वविनि-10 श्चिचीषायां सा च विध्यादिप्रत्येकवृत्तिरूपाख्यानसमधिगम्येति तद्व्याख्या कार्या । किं कारणम् ? तत्समुदायकार्यत्वात् तस्याः ।
इममर्थ विस्तरेण व्याख्यातुकाम उद्दिशति - तत्र विधिवृत्तिरित्यादि । तत्र एतास्वनन्तरोद्दिष्टासु विध्यादिवृत्तिषु विधिवृत्तिस्तावद् यथालोकग्राहमेव वस्तु । लोकस्य प्राहः, ग्राहवद् ग्राहः, यथा 15 जलचरो प्राहः प्राण्यन्तराण्यभ्यात्माकर्षति तथा लोकोऽपि स्वाभिप्रायसकाशं सर्वमाकर्षति । यो यो लोकग्राहो यथालोक ग्राहम् , एवेत्यवधारणाल्लोकाभिप्रायं नातिवर्तते वस्त्वित्यर्थः । परीक्षकाभिमानिनां तु तीर्थ्यानां स्वपरविषयतायां सामान्यविशेषयोरनुपपत्तेरसंस्ततो लोकाभिप्रीयाद् विवेकयत्नः शास्त्रेष्विति । इतिशब्दो हेत्वर्थे, यस्मादेतमथं प्रतिपादयिष्यामस्तस्माद् यथालोकग्राहमेव वस्तु, ततो लोकाभिप्रायाद्विवेकयत्नानर्थक्यम् ।।
20 तत् कथमिति चेत् , उच्यते - सामान्यविशेषौ हि स्वविषयौ परविषयौ वा स्याताम् , वस्तुनः सामान्यं घटादेर्वस्तुन आत्मनि वर्तेत, परस्य वा पटादेरात्मनि घटाद्व्यतिरिच्यमाने । चतुर्वप्येषु विकल्पेषु साजयादीनां दोष इति मन्यमानो लौकिकः पेक्षं प्राहयति हुँदूषयिषुः सोपपत्तिकम् -तत्र आद्यं सामान्यं तावदेकस्य सर्वत्वाद् यदि स्वविषयम् । सँर्वमेकमेकं च सर्वम् , ७-१ कस्मात् ? कारणस्य वैश्वरूप्यात् । यथाह
25 सर्व सर्वात्मकम् । यद्येवं कस्मात् सर्वमेकत्र नोपलभ्यते सर्वत्र चैकमिति ? उच्यते-देशकालाकारनिमित्तावबन्धात्तु न समानकालमात्माभिव्यक्तिः । ते मन्यामहे जलभूम्योरप्येतत् पारिणामिकं रसादिवैश्वरूप्यं स्थावरस्य जङ्गमतां गतस्य जङ्गमाभ्यवहृतवनस्पत्यादेर्जङ्गमशरीरपरिणामापन्नस्य, जङ्गमस्यापि स्थावरतां गतस्य स्थावराभ्यवहृतस्य तत्परिणतस्य, एवं स्थावरस्य स्थापरतां गतस्य जङ्गमस्य जङ्गमतां गतस्य । तस्मात् सर्वे सर्वात्मकम् [ ]।
30 १ वृत्तानुवृत्ति प्र०॥ २ तत्त्वाद्वाख्यान प्र० ॥ ३ °संबंधेदेव प्र० ॥ ४ प्रायोद्विवेक प्र० ॥ ५ पक्ष्यं भा०॥ ६ उदूष° भा० ॥ ७ सर्वमेकं च य०॥ ८ रसादिधैण्वरूपं य० । रसादिधैथेरूप्यं भा०॥ ९व्यवहतप्र.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org