________________
१० . न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे विधिराचारः स्थितिः......। नियमः...... । तयोर्भङ्गाः-१ विधिः, २ विधिविधिः, ३ विधेर्विधि-नियमम् , ४ विधेनियमः, ५ विधि-नियमम् , ६ विधि-नियमस्य विधिः, ७ विधि-नियमस्य विधि-नियमम् , ८ विधिनियमस्य नियमः, ९ नियमः,
१० नियमस्य विधिः, ११ नियमस्य विधिनियमम् , १२ नियमस्य नियमः। तेषां । वृत्तिः स्वविषयसम्पातनेन भावना अर्थानाम् । जैनसत्यत्वसाधनवृत्ता तु वृत्ति
तद्व्याचक्षाणः सूरिः विधि-नियमशब्दावलौकिकौ' इति परो मा मंस्तेति तत्पर्यायशब्दानु६-१ ञ्चारयति - विधिराचार इत्यादि । विधीयत इति विधिर्भावसाधनोऽध्याहृतकर्बर्थः । यो विदधाति स
कर्ता द्रव्यार्थः । को विदधाति ? पिण्डशिवकादिभावान् मृद्विदधाति । तया हि मृदा शिवकादयो
विधीयन्ते । लक्षणतस्तु अनपेक्षितव्यावृत्तिभेदार्थो द्रव्यार्थो विधिः, लोके दृष्टत्वात् । 'आदानमर्यादया 10 चार आचार आत्मरूपापरित्यागः पररूपानपेक्षः । एवं स्थित्यादिषु योज्यम् । पर्यायार्थतस्तु नियमः,
निराधिक्ये, आधिक्येन यमनं नियमः परस्परप्रतिविविक्तभवनादिधर्मलक्षणः प्रतिक्षणनियतोऽवस्थाविशेषो युगपद्भाव्ययुगपढ्वी वा रूपादिः 'शिवकादिश्च यो यो भवति स एव स एवेति । पर्यायशब्दानां शेषाणामप्ययमों यथाक्षरं योज्यः ।
तयोर्भङ्गा विधिर्विधि[विधि ]रित्यादि । तत्र विधिरनपेक्षितभेदानुगतिव्यावृत्तिव्यापारो 16 यथा गौरिति । *विधिविधिस्तु शुक्लादिभेदनियमवादिनं प्रत्यभेदप्रतिपादनव्यापृतः - कोऽयं शुक्लादिभेदो
नाम गोत्वव्यतिरिक्तः ? इति । 'विधेर्नियमोऽतिप्रसक्तस्य विशेषेऽवस्थापनं विधिप्रधानस्यैव तदंशेऽवस्थापनम् , यथा गां शुक्लामानयेति । तदुभयात्मकं "विधेर्विधि-नियमम् । विधि-नियमं तु विधिश्च नियमश्च विधि-नियमम् , द्वन्द्वैकवद्भावः, तुल्यकक्षौ विधिनियमावेव सहितौ, ढ्यात्मकं
सर्वमिति । शेषा यथायोगमेतद्व्याख्यानुसारेण व्याख्येया भङ्गाः । सामान्येन तु कारणं विधिः, कार्य 20 नियमः, उभयं* विधि-नियमम् , शेषास्तद्विकल्पा एव ।
___एवं भङ्गान् व्यवस्थाप्येदानी वृत्तिं व्याख्यातुकाम आह-तेषां विधि-नियमभङ्गानां वृत्तिरिति । तस्यास्तु लक्षणम् - स्वविषयसम्पातनेन भावना अर्थानाम् , आत्मीय आत्मीये विषये विषयेऽवार्य यया तदर्था भाव्यन्ते । तथाहि - तथा भवन्ति नान्यथेति, नित्य एवाकृतकत्वादाकाशवत्, अनित्य एव
कृतकत्वाद् घटवद् वेति । यथोक्तम् - द्रव्यस्यानेकात्मनोऽन्यतमैकात्मावधारणमेकदेशनयनान्नयः ' [ ] इति । प्रत्यक्षानुमानाभ्यां "पूर्ववत् स्थितास्थितमृत्त्वपृथुबुध्नादिसंस्थानोपादानकोरणाभ्यां वृत्ति
१°धनो व्याह प्र० ॥ २ आदान मर्यादया य० ॥ ३ चार आत्मरूपा य० । चार आचार आचार आत्मरूपा भा०॥ ४°द्भावी रूपादि य० ॥ ५ शिवकादिं च भा०। शिविकादि च य० ॥ ६ तयोभेगा भा० । तयोर्भागा य०॥ ७ * * एतच्चिह्नान्तर्गतो विधिविधिस्तु इत्यत आरभ्य उभयं इत्यन्तः पाठो भा० प्रती नास्ति ॥ ८°व्यावृत्तः य० ॥ ९ विधिनियमो य० ॥ १० विधिर्विधेर्नियमं य० ॥ ११ भंगायवस्थाप्ये प्र०॥ १२ लक्षणं विषयसम्पा' य० ॥ १३ °वताय प्र. ॥ १४ पूर्वावस्थिता य० ॥ १५ करणाभ्यां भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org