________________
शासनस्तवः]
द्वादशारं नयचक्रम् लोकप्रत्यक्षादिनिश्चेयेऽपि शेषशासनविसंवदनजनितास्थं च प्रमाणद्वयसंसिद्धिसम्पादितप्रत्ययप्रतिष्ठापितात्यन्तपरोक्षार्थश्रद्धानं जिनशासनम् ।
अस्य चार्थस्य पूर्वमहोदधिसमुत्पतितनयप्राभृततरङ्गागमप्रभ्रष्टश्लिष्टार्थकणिकमात्रमन्यतीर्थकरप्रज्ञापनाभ्यतीतगोचरपदार्थसाधनं नयचक्राख्यं सङ्गितार्थ गाथासूत्रम्
विधि-नियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् । जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् ॥
लोकप्रत्यक्षादिनिश्चयेऽपि, किं पुनरतीन्द्रियार्थे ? शेषशासनविसंवदनजनितास्थं च, शेषशासनानां विसंवदनेन जनिता आस्था अस्मिन् जिनशासनेऽस्माकम् 'इदं वरिष्ठम्' इति परपक्षदौःस्थित्यादेव खपक्षसिद्धिरावीतेनेति । अथवा स्वपक्षसौस्थित्यानुमानमप्यस्तीत्याह -प्रमाणद्वयसंसिद्धीत्यादि । 10 लौकिकपरीक्षकाणां प्रत्यक्षानुमानप्रामाण्यं प्रत्यविसंवादात् पूर्वन्यायेन स्थितास्थितमृत्त्वपृथुबुध्नादिसंस्थानो- ५-२ पादानकारणाभ्यां द्वयेन द्वयस्य वा प्रत्यक्षेणानुमानेन च तद्विनिश्चेयपदार्थद्वयस्य संसिद्धिः, तैया सम्पादितः प्रत्ययः प्रमाणं जैन्यां प्रक्रियायाम् , तत एव च प्रतिष्ठापितमत्यन्तपरोक्षेऽप्यर्थे मेरूत्तरकुरुद्वीप-समुद्र-विमान-भवन-नरकप्रस्तारप्रमाणादौ श्रद्धानं यस्मिंस्तदिदम् 'अर्जितं जयति' इति प्रत्याम्नायते, अन्यथा प्रामाण्याभावात् । यथोक्तम् -प्रत्यक्षग्राहे च सिध्यति पेरोक्षग्राहः 'सिध्येत् । तदसिद्धौ 15 सम्भावनाऽभाव एव, प्रत्यक्षविसंवादित्वात् , उन्मत्तवाक्यवत् [ ] इति ।
___ अस्य चार्थस्येत्यादि यावद् गाथासूत्रमित्यनेन शास्त्रारम्भ-सम्बन्ध-प्रयोजनाभिधानम् । पूर्वमहोदधिसमुत्पतितनयप्राभृततरङ्गागमप्रभ्रष्टश्लिष्टार्थकणिकमात्रमिति सम्बन्धः, न स्वमनीषिकयोच्यते, प्रमाणागमपरम्परागतमेवेदमित्यर्थः । अन्यतीर्थकरप्रज्ञापनाभ्यतीतगोचरपदार्थसाधनं प्रयोजनम् , शिष्यानुग्रहस्यान्यथा कर्तुमशक्यत्वात् । नयचक्राख्यमारभ्यं शास्त्रम्, तदन्तरेण 20 तदसिद्धेः । शिष्यस्य प्रसङ्गविप्रसृतधियो मा भूव्यामोह इति सङितार्थ गाथासूत्रमिदम् -विधि-नियमत्यादि । अन्यशासनानृतत्वप्रतिपादनसाधनमिदम् । अर्थापत्त्या तु 'भवति'शुद्धपदोच्चारणवद् विधि-नियमभङ्गवृत्तियुक्तत्वाज्जैनं वचः सत्यमिति गम्यते ।
१°क्षादिनिश्चयेपि प्र० ॥ २ करणाभ्यां प्र० ॥ ३ तथा सम्पा॰ प्र० ॥ ४ प्रमाणां य० ॥ ५परोक्षाग्राहः प्र०॥ ६ सिध्यति तदसिद्धौ य० ॥ ७°तरङ्गामगप्रभ्रष्ट' प्र० ॥ ८°प्रज्ञानाभ्य भा०॥ ९'नृतत्वाप्रतिपा प्र०॥ १० एतच्च नयचक्रवृत्तिकार एव ग्रन्थान्ते इत्थं स्पष्टीकरिष्यति--"इत्येवमनेन समस्तेन ग्रन्थेनैतदभिहितम-विधि-नियमभनवृत्तिव्यतिरिक्तत्वादनर्थकवचोवजैनादन्यच्छासनमनृतम् । जैनमेव शासनं सत्यम, विधिनियमभङ्गवृत्त्यात्मकत्वात्, भवतिवद् घटवद्वेति"-नयचक्रवृ० पृ० ५६८-१॥
नय०२ Jain Education International For Private & Personal Use Only
www.jainelibrary.org