________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे शेषशासनिवचनानि प्रत्यक्षानुमान विनिश्चेयपदार्थविपर्ययप्रणयनेन अश्रावणशब्दवादिवचनवदाशङ्कामपि सत्यत्वे न जनयितुमलम्। ..
लौकिकव्यवहारोऽपि न यस्मिन्नवतिष्ठते।
तत्र साधुत्वविज्ञानं व्यामोहोपनिवन्धनम् ॥ तद्व्यतिरिक्ताः शासनिनः कपिल-व्यास-कणाद-शौद्धोदनि मस्करिप्रभृतयः, तेषां वचनानि। प्रत्यक्षानुमानविनिश्चेयपदार्था रूपादयो घटादयोऽन्यादयश्च । तेषां विपर्ययेण प्रणयनं तैः कृतम् । तेन विपर्ययप्रणयनेन निरुक्तीकृतं विसंवादत्वम् । तत् कथम् ? प्रत्यक्षविनिश्चेयास्तावद् युगपद्धाविषु प्रतिनियतेन्द्रियविषयेषु घटाद्याधाराहते ग्रहणाभावान्न रूपादय एव, रूपाद्यन्यतमधर्मग्रहणद्वारमन्तरेण . घटाद्यग्रहणात् तदभावे तदभावाच न द्रव्यमात्रमेव । अयुगपद्भाविष्वपि पिण्ड-शिवकादिषु मृदग्रहणे 10 पिण्ड-शिवकाद्यग्रहणात् मृदभावे पिण्ड-शिवकाद्यभावात् न पर्याया एव । मृदोऽपि शिवकाद्यन्यतमावस्थाविशेषावस्थानमन्तरेण अग्रहणादभावाच्च न द्रव्यमेव। एतेनाम्यादि-धूमादिलिँङ्ग-लिङ्गिव्यवहारो व्याख्यातः कार्यानुमानविनिश्चयेऽपि न विशेषों एव, निर्मूलत्वात् , खपुष्पवत् । न सामान्यमेव, अविशेषितत्वात् , खपुष्पवत् । तस्मादेवं प्रत्यक्षानुमानविनिश्चेयपदार्थेषु सर्वलोकप्रसिद्धेषु विपर्ययप्रणयनमन्यशासनिनाम्रूपादय एव घटः, घट एव रूपादयः, रूपादयश्च घटश्च रूपादिगुणोऽवयवीयर्थः, न रूपादयो न 15 घट इति वा। अश्रावणशब्दवादिवचनवदिति सर्वलोकप्रसिद्धेन्द्रियप्रत्यक्षविरोधिवचनोदाहरणदिनुमानविरोधाद्यप्युदाहृतमेव । आशङ्कामपि सत्यत्वे न जनयितुमलमिति, निःसन्दिग्धमेवासत्यत्वं तेषामित्यर्थः।
अपि च_२लौकिकव्यवहारोऽपीत्यादि यावद् व्यामोहोपनिबन्धनमिति । सातिशयबुद्धिभिरपि परीक्षकैर्निरतिशयलोकप्रसिद्ध्यनुवर्तिभिः परात्ममतविशेषप्रतिपत्तिनिराकरण-तत्त्वप्रतिपादने कार्ये, इतरथा 20 साक्षिविरहितव्यवहारवंदेनियताथैव परीक्षा स्यात् । लौकिकास्तु नित्यानित्यावक्तव्याद्यनेकान्तरूपमेव घटादिकमर्थमव्युत्पन्ना अपि प्रतिपद्य व्यवहरन्तो दृश्यन्ते । तदपॅह्नवप्रवृत्तयश्चैकान्तवादाः 'नित्य एव, अनित्य एव, अवक्तव्य एव घटः' इत्यादयः । तत्र शेषशासनेषु 'साध्धिदं साधु त्विदम्' इति विचारो व्यामोहस्यैव निबन्धनं हेतुरित्यर्थः, विचारानवकाशाद् विसंवादाच्च । ।
.. १ निरुक्ततं भा० ॥२°यस्तावद् प्र० । येषु तावत् इत्यपि पाठः स्यादत्र ॥३°घटद्योवाराहते भा० । घटघोवाराटने यः॥४शिबिका य० । एवमग्रेऽपि ॥ ५ * * एतच्चिद्वान्तर्गतः स्थानमन्तरेण इत्यत आरभ्य । विशेषा इत्यन्तः पाठो य० प्रतिषु नास्ति ॥ ६°लिंगंलिंगलिंगिव्यवहारो भा० ॥ ७ मानविनिश्चयेपि भा० ॥ ८ सर्वलोके प्र भा० ॥ ९ रूपादयं च घटं च प्र० ॥ १० °दनुमानुविरो' य० । °दनुविरो° भा० ॥ ११ जनयतितुमल भा० ॥ १२ “उक्तं हि-लौकिकन्यवहारोऽपि न यस्मिन्नवतिष्ठते । तत्र साधुत्वविज्ञानं व्यामोहोपनिबन्धनम् ॥” इत्येवमुद्धृता सम्पूर्णा कारिका उत्तराध्ययनसूत्रबृहद्वत्तौ [पृ० २-१] प्रवचनसारोद्धारटीकायां [पृ०२-१] च १३ °शययुद्धिभि प्र० ॥ १४ काये प्र०॥ १५ वदिनिघतार्थव प्र०॥ १६"त्पन्न अपि प्र०॥ १७ व्यवहारंतो भा० । व्यवहारतो य० ॥ १८ पर्व प्रवृ प्र०॥ १९ साध्वेदं प्र० ॥ २० व्यामोहस्येव निव प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org