________________
शासनस्तवः]
द्वादशारं नयचक्रम् पक्लुप्तविधि-भेदपदार्थंकवाक्यविधिविधानादशेषज्ञानावयवमवबोधसमुद्रावयवीभूतं शासनमेवम्विधमेव ।
जगत्प्रतानविसृतिव्यत्यासेन धीरमास्पदमचलं प्रतिष्ठानं च यस्य तत्र किमाश्चर्य 'जयत्यूर्जितं च' इति ? किं तर्हि ? एवम्विधतैव तु प्रतिपादनीया अन्यमतासाधारणगुणता । सैव विरोधधर्मसम्भावनाऽ-5 भावाद् दुष्प्रतिपादेयभिप्रायः ।
__ अत्राचार्य आह-'किमेव प्रतिपाद्यमस्ति ? प्रतिपादितमेव तत् । यस्माद् द्रव्यार्थपर्यायार्थेत्यादि । द्रव्येणार्थो द्रव्यार्थः, द्रव्यमर्थोऽस्येति वा । अथवा द्रव्यार्थिकः, द्रव्यमेवाओं यस्य सोऽयं द्रव्यार्थः, स्वार्थिकोऽयं ठन्' प्रत्ययः 'द्रव्यार्थिकः' । एवं पर्यायार्थः पर्यायार्थिको वा । अर्थाच्चासन्निहिते [पा० वार्ति० ५।२।१३५] इति वचनादर्थि-प्रत्यर्थिवदिनिरेव स्यादिति चेत् , न; अस- 10 निधानाभावात् तदर्थस्य । अथवा 'अस्ति' इत्यस्य मतमास्तिकः, द्रव्य आस्तिको द्रव्यास्तिकः । तयोर्द्वयोर्भावो द्वित्वं न, तदादयोऽनन्तान्ता विकल्पाः, वचनपथतुल्यसङ्ख्यपरसमयतुल्यसङ्ख्य-४-२ त्वान्नयानाम् ।
जावइया वयणपहा तावइआ चेव "होति णयवाया।
जावइआ णयवाया तावइआ चेव परसमया ॥ [ सन्मति० ३।४७] एवंविधविकल्पोपक्लुप्तनयजालोपष्टैम्भविधि-भेदपदार्थानामेकवाक्यविधिः, तस्य विधानादशेषज्ञानान्यवयवा अस्य सर्वनयजनितानि । अवबोधसमुद्र एवाभेदेनावयवीभूतो यस्मिंस्तदवबोध. समुद्रावयवीभूतं शासनं दुरवगाहगम्भीराक्षोभ्यपदार्थरत्नाकरत्वसामान्यात् , एवम्विधमेवेति, उक्तनयतरङ्गभङ्गसङ्ग्रह-प्रस्तारात्मकमविकलपदार्थावद्योतनादनेकादित्यसमूहवत् कृतप्रकाशं तमसोऽवकाशाभावात् सवितृसहस्रवद् भास्वरत्वादनभिभवनीयम् ।
15
१ संभावनाभावाद् दुःप्रति° य० । °संभावाद् दुःप्रति भा० ॥ २ अत्राचार्य आह इति पाठो य० प्रतिषु नास्ति ॥ ३ किमव भा० । किमेवं पा० डे. ली. ॥ ४ “अत इनिठनौ” पाणिनिव्या० ५।२।११५ ॥ ५ अत्र 'तयोर्द्वयोर्भावो द्वित्वम् , तदादयोऽनन्ता विकल्पाः' इत्यपि पाठः स्यादिति सम्भाव्यते । यथाश्रुतं तु 'तयोद्वयोर्भावो द्वित्वमेव केवलं न; किं तर्हि ? तदादयोऽनन्तान्ता विकल्पाः' इत्यर्थाभिप्रायेण सङ्गमनीयम् ॥ ६ नंतानाविकल्पाः भा० वि० विना। नंतात्रा विकल्पाः भा० वि० । अत्र 'अनन्ता अत्र विकल्पाः' इत्यपि पाठः स्यादिति सम्भाव्यते, तथा सम्भावनायां च मूलमपि °द्वित्वाद्यनन्तविकल्पोपक्लप्त' इति सम्भावनीयम् । 'अनन्तान्ताः' इति पाठे तु “अन्तः खरूपे निकटे प्रान्ते निश्चयनाशयोः । अवयवेऽपि” इति हैमकोशानुसारेण अन्तशब्दस्य स्वरूपवाचित्वमवयववाचित्वं वा गृहीत्वा सङ्गमनीयम् ॥ ७ तुल्यत्वानयानां य० ॥ ८ वतिया भा० । एवमग्रेऽपि ॥ ९ वयणपधा भा० ॥ १० हुंति यः॥ ११°वादा भा०॥ १२°ष्टंभविण्वभेद भा०॥ १३ वयविभूतं भा० । अयं भा० प्रतिपाठोऽपि साधुरेव भाति । अत्र च पाठे 'अवबोधसमुद्र एवाभेदेन अवयवी भूतो यस्मिंस्तदवबोधसमुद्रावयविभूतम्' इति विग्रहः कार्यः, अभूततद्भावाविवक्षायां च्चिप्रत्ययायोगात् 'इ'कारस्य दीर्घत्वाभावेऽपि न क्षतिरिति ध्येयम् ॥ १४ पदार्थावद्योतमद्योतमादनेका भा० । पदार्थावबोधतमद्योतनादनेका रं. ही० । पदार्थावन्योतमद्योतमादनेका भा० २० ही० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org