________________
शासनस्तवः]
द्वादशारं नयचक्रम् तत्तु सर्वथा योगिनां गम्यम्, सर्वनयप्रपञ्चसंस्कृतधियामननुविषयप्रज्ञत्वात् तेषाम् । अस्मदादिभिरेकदेशमाहात्म्यदर्शनाच्छेषमाहात्म्यमनुमानेन गम्यते । न गम्यं क्वचिदिति, यथैकदेशागम्यत्वेऽनभिभवनीयत्वेऽपि अन्यत्र गम्यता 'विषयखण्डपतेस्तथा मा भूदिति न गम्यं कचित् । अथवा गमनीयं गम्यं प्रतिपादनीयम् । न गम्यं प्रतिपादनीयम् , लोकप्रसिद्धव्यवहारानुपातिस्याद्वादपरिग्रहस्फुटपदार्थत्वादेकदेशगतेः शेषसुगमत्वात् । अयोग्यपुरुषापेक्षया वा न गमयितव्यम् , यथा
स्थूलमतये न वाच्याः सूक्ष्मा अर्थाः स तानगृह्णानः।
व्याकुलितमना मिथ्यात्वं वा गच्छेदपरिणामात् ॥ [ अथवा प्रागसमीक्ष्योक्तार्थसमीकरणार्थ कल्पनान्तरैर्न गमनीयं कचित् । यथा बौद्धे सर्व क्षणिकम्' इति प्रतिज्ञाय स्मृत्यभिज्ञान-बन्ध-मोक्षाद्यभावदोषपरिहारार्थं सन्तानकल्पना। प्रधाननित्यतां प्रतिज्ञाय परिणामकल्पना व्यक्तात्मना कापिले । क्रियावद् गुणवत् समवायिकारणम् [वै. सू० ११११५] इति सामान्यद्रव्यलक्षणं प्रतिज्ञाय एकान्तनित्यानित्यवादे च तदव्याप्तिपरिहारार्थम् 'अद्रव्यमनेकद्रव्यं च द्विविधं द्रव्यम्' इति 'द्रव्यत्वं च सामान्य-विशेषाख्यं तत्तत्त्वम्' इति द्रव्य-पर्यायनयद्वयाश्रयणेन पदार्थप्रणयनं काणभुजे । तथा 'द्रव्य-गुण-कर्माणि नाना' इति प्रतिज्ञाय तदत्यन्तभेदे नीलोत्पलादि-सद्व्यादिसामानाधिकरण्य-विशेषण] विशेष्यत्वादिव्यवहाराभावदोषभयात्
१ मतनु वि० । 'विषयानुगामिनी प्रज्ञा अनुविषयप्रज्ञा, योगिनस्तु अननुविषयप्रज्ञाः। ते हि न एकदेशमाहात्म्यदर्शनाच्छेषमाहात्म्यमनुमानेन अवगच्छन्ति' इति 'अननु विषयप्रशत्वात्' इति पाठस्य आशयः प्रतिभाति । अथवा 'अननुमानविषयप्रशत्वात्' इत्यपि पाठोऽत्र स्यादिति सम्भाव्यते ॥ २ त्वेनाभि पा० । 'त्वेनामें वि० ॥ ३ विषयखण्डयतेस्तथा प्र० । अत्र विषयो देशः इत्यर्थः ॥ ४ मन्य मिथ्या विसं० विना ॥ ५ बौद्धः भा• विसं० । बौद्धौ भा० विसं० विना। अत्र पूर्वापरसन्दर्भानुसारेण 'बौद्धे' इत्येव पाठः समुचितः टीकाकृदभिप्रेतश्चेति भाति ॥ ६°क्षाभाव य०॥ ७°रार्थसंता प्र०॥ ८त्मता भा० । “हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥१०॥"-सात्यका०॥ ९"क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम्" इति वैशेषिकसूत्रे पाठः ॥ १० वि. विनाऽन्यत्र-वाद च भा० पा० । 'वाद च डे. ली. १० ही० ॥११ “तथा तम् -स्याद्वादम् अन्तरेण सामानाधिकरण्यं विशेषण-विशेष्यभावोऽपि नोपपद्यते। तथा हि भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकत्रार्थे वृत्तिः सामानाधिकरण्यम् । तयोश्चात्यन्तभेदे घट-पटयोरिव नैकत्र वृत्तिः। नाप्यत्यन्ताभेदे, भेदनिबन्धनत्वादस्य, न हि भवति-नीलं नील मिति । किञ्च नीलशब्दादेव तदर्थप्रतिपत्तौ उत्पलशब्दानर्थक्यप्रसङ्गः। तथैकं वस्तु सदेवेति नियम्यमाने विशेषण-विशेष्यभावाभावः । विशेषणं विशेष्यात् कथञ्चिदर्थान्तरभूतमवगन्तव्यम् । अस्तित्वं चेह विशेषणं, तस्य विशेष्यं वस्तु तदेव वा स्यादन्यदेव वा ? न तावत् तदेव, न हि तदेव तस्य विशेषणं(व्य) भवितुमर्हति । असति च विशेष्ये विशेषणत्वमपि न स्यात्, विशेष्यं विशिष्यते येन तद् विशेषणमिति व्युत्पत्तेः । अथ अन्यत् , तर्हि अन्यत्वाविशेषात् सर्व सर्वस्य विशेषणं स्यात् । अतो नासावत्यन्तं भेदेऽभेदे वा सम्भवतीति भेलभेदलक्षणः स्याद्वादोऽकामेनाप्यभ्युपगन्तव्य इति ।"-सिद्धहेम० लघुन्यासे पृ०२-१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org