________________
न्यायागमानुसारिणीवृत्त्यलष्कृतम्
[प्रथमे विभ्यरे निबोहिअनाणं [नन्दिसू० २४ ] 'ति । चैतज्ञानसंस्कृतधियां नित्य एव, अनित्य एव, अवक्तव्य एव' इत्येवमायेकान्तवादिग्राहेषु घटादेः कुम्भकारादिवेतनदानाद्यभावप्रसङ्गान नित्य एव, चिकीर्षा-स्मरण-प्रत्यभिज्ञान-संरक्षणाद्यभावप्रसङ्गान्नानित्य एव, स्वरूपानवधारणे वाग्व्यवहारोच्छित्तिप्रसङ्गात् 'अवक्तव्यः' इति वक्तव्यत्वावक्तव्यत्वयोः स्ववचनविरोधानावक्तव्य इत्येवमादिदोषप्रदर्शनेन, स्यान्नित्यः, स्यादनित्यः, स्यादवक्तव्यः' इत्यनेकान्ताभ्युपगमाद् यथाप्रमाणं धर्म-धर्मिव्यवस्थानात् तद्दोषपरिहारेण वस्तुस्वरूपोपपादनेन परमतनिषेधानुज्ञानाभ्यां प्रवादिनां परस्परविरोधनिरोधैकवाक्योपानयनाद् मध्यस्थसाक्षिवत् प्रमाणीभूतम् , तेषामपि तत्त्वावबोधपाटवाधानसमर्थत्वात् । - स्यान्मतम्-नन्वत एव स्थाणु-पुरुषादिविषयसंशय-विपर्ययवद् नित्यानित्यायेकान्तविकल्पात्मकत्वाद्
व्यामोहहेतुरपि, काल-नियति-स्वभाव-पुरुष-'दैवेश्वर-यदृच्छायेकान्तकारणविकल्पजगत्प्रतानविसृति10 दर्शनादिति । अत्रोच्यते-न; व्यत्यासधीरास्पदत्वात् । एकपुरुषपितृ-पुत्रत्वादिवज्जैनं हि शासनं ___ कालादिजगत्प्रभेदैकान्तगतीळत्यस्य व्यावर्त्य परस्परविरोधनिवारणेन अनेकान्तात्मकप्रतिष्ठानसमाधान३-१ कारणमेकान्तानेकवादसमाहारात्मकैकप्रतिपत्तिकं परमतनिषेधानुमोदनाभ्यामेव । न काल एव, न
नियतिरेव, एककारणवादिनां कारणसत्त्ववत् कार्यसत्त्वेऽनैकान्तिकत्वात् , कारणस्यापि कारणवत्त्वे
ऽनवस्थादोषादनेककारणत्वप्रसङ्गादनेककारणत्वस्य सिद्धेः, अनेककारणत्वेऽपि सदाद्यविशेषादनन्वय1B स्याभावादित्यादिदोषात् 'कालोऽपि, नियतिरपि' इत्यादि, एकान्ते दोषदर्शनादनेकान्वे चादोषप्रदर्शनाद् १ लौकिकवादसंवादि । यथोक्तम्
क्वचिनियतिपक्षपातगुरु गम्यते ते वचः
स्वभावनियताः प्रजाः समयतन्त्रवृत्ताः क्वचित् । . स्वयङ्कतभुजः कचित् परकृतोपभोगाः पुन
न वा विशदवाद ! दोषमलिनोऽस्यहो विस्मयः॥ [सिद्ध० द्वा० ३८] इति । तदेवंविधं शासनमूर्जितम् , स्वातत्र्यात् परमतोपंजीवनवैलव्यरहितत्वात् परैराघातस्य सुसिद्धान्ता(न्तस्या)त्यागात् कल्पनान्तराश्रयणाभावादनाकुलत्वाञ्च । जेतृत्वाद्वा अर्जितम् । अनन्तरोक्तहेतुमिर्जयति, परस्परानुवर्तिनयोत्साहबलसम्पदुपेतत्वाद्वा जयत्येव, उदितपुण्यनयोपेतचक्रवर्तिशासनवत् । ..
. १ अत्र ‘जत्थ आभिणिबोहियणाणं तत्थ सुयणाणं । जत्थ सुयणाणं तत्थाभिणियोहियणाणं । दोऽवि एयाई अण्णमण्णमणुगयाई"-इते नन्दिसूत्रे पाठः । अस्य व्याख्या-"जत्थेत्यादि । यत्र पुरुषे आभिनिबोधिकज्ञानं तत्रैव श्रुतज्ञानमपि। तथा यत्र श्रुतज्ञानं तत्रैवाभिनिबोधिकज्ञानम् । आह-यत्राभिनिबोधिकज्ञानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतझानं तत्राभिनिबोधिकज्ञानमिति गम्यत एव, ततः किमनेनोक्तेन ? इति; उच्यते-नियमतो न गम्यते, ततो नियमावधारणार्थमेतदुच्यत इत्यदोषः । नियमावधारणमेव स्पष्टयति-द्वे अप्येते आभिनिबोधिक-श्रुते अन्योन्यानुगते परस्परप्रतिबद्धे ।"-नन्दिसूत्रमलय० वृ०॥ २ "इतेः खरात् तश्च द्विः” [प्रा. व्या० ११४२] इति सूत्रेण 'इति'शब्दस्य आदेरिकारस्य लुक् ॥ ३'श्रुतज्ञानसंस्कृतधियाम्' इत्यस्य वक्ष्यमाणेन 'प्रवादिनाम्' इत्यनेन सम्बन्धः प्रतिभाति ॥ ४ नत्वत य० ॥ ५ दैवथेरयह य० ॥ ६ तारवि य० ॥ ७ र व्यत्या य० ॥ ८ णत्वे य० ॥ ९ नं चाददोष भा०॥ १० °जीविनवै य०॥ ११ सुसिद्धतात्यागात् भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org