________________
३८९ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-म - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम्
शरीरावगाहना अङ्गुलासङ्ख्येयभागमात्रा उत्पद्यमानावस्थायाम्, न त्वन्यदा, उत्तरवैक्रिया तु तथाविधप्रयत्नाभावादाद्यसमयेऽप्यङ्गुलसङ्ख्येयभागमात्रैवेति । एवमसुरकुमारादिदेवानामपि, नवरं नागादीनां नवनिकायदेवानामुत्कृष्टोत्तरवैक्रिया योजनसहस्रमित्येके । पृथिवीकायिकादीनां त्वङ्गुलासङ्ख्येयभागमात्रतया तुल्यायामप्यवगाहनायां विशेष:वणऽणंतसरीराणं एगऽणिलसरीरगं पमाणेणं ।
अणलोदग पुढवीणं असंखगुणिया भवे वुड्डी || १॥ [ 1 [ हे० ३३९-३५७] अथोत्सेधाङ्गुलनिर्णयार्थमाह से किं तं उस्सेहंगुले इत्यादि । उत्सेधः अणंताणं सुहमपरमाणुपोग्गलाणमित्यादिक्रमेणोच्छ्रयो वृद्धिनयनं तस्माज्जातमङ्गुलमुत्सेधाङ्गुलम्, अथवा उत्सेधो नारकादिशरीराणामुच्चैस्त्वम्, तत्स्वरूपनिर्णयार्थमङ्गुलमुत्सेधाङ्गुलम्, तच्च कारणस्य परमाणु[- त्रसरेण्वादेरनेक10 विधत्वादनेकविधं प्रज्ञप्तम्, तदेव कारणानेकविधत्वं दर्शयति - तद्यथेत्यादि । परमाणू इत्यादिगाथां सूत्रकृत् स्वयमेव विवरीषुराह से किं तं परमाणू इत्यादि । परमाणुर्द्विविधः प्रज्ञप्तः - सूक्ष्मो व्यावहारिकश्च तत्र सूक्ष्मस्तत्स्वरूपाख्यानं प्रति स्थाप्यः, अनधिकृत इत्यर्थः ।
से किं तं वावहारिए इत्यादि, कियद्भिः पुनः सूक्ष्मैर्नैश्चयिकपरमाणुभिरेको 15 व्यावहारिकः परमाणुर्निष्पद्यते ? अत्रोत्तरम् - अणंताणमित्यादि । अनन्तानां सूक्ष्मपरमाणुपुद्गलानां सम्बन्धिनो ये समुदयाः द्व्यादिसमुदायात्मकानि वृन्दानि तेषां या समितयो बहूनि मीलनानि तासां समागमः संयोग एकीभवनं समुदयसमितिसमागम:, तेन व्यावहारिकपरमाणुपुद्गल एको निष्पद्यते । मुक्तं भवति - निश्चयनयः
5
कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः ।
एकरस-वर्ण- गन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ १॥ [ 1
इत्यादिलक्षणसिद्धं निर्विभागमेव परमाणुमिच्छति, यश्चैतैरनेकैर्जायते तं सांशत्वात् स्कन्धमेव व्यपदिशति, व्यवहारस्तु तदनेकतानिष्पन्नोऽपि यः शस्त्रच्छेदाऽग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलताऽप्रतिपत्तेः परमाणुत्वेन व्यवहरति, 25 ततोऽसौ निश्चयतः स्कन्धोऽपि व्यवहारनयमतेन व्यावहारिकः परमाणुरुक्तः । न च १. “आह चानुयोगद्वारमूलटीकाकारो हरिभद्रसूरि :- उत्तरवैक्रिया तु तथाविधप्रयत्नभावादाद्यसमयेऽप्यङ्गुलसंख्येयभागमात्रैवेति" इति मलयगिरिसूरिविरचितायां बृहत्संग्रहणीटीकायाम्, गा० २८० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org