________________
३८८
अनुयोगद्वारसूत्रम् [ सू० ३३९-३५७] क्षुरः नापितोपकरणम्। प्रत्युत्तरमाह-हन्तावगाहेत, हन्त सम्प्रेषण-प्रत्यवधारणविवादेषु[ ] इति वचनात् । स तत्र छिद्येत वा [भिद्येत वा] ? , तत्र छेदः द्विधाकरणम्, भेदः अनेकधाविदारणम् । प्रश्ननिर्वचनम्- नायमर्थः समर्थः, नैतदेवमिति भावना। अत्रैवोपपत्तिमाह- न खलु तत्र शस्त्र क्रामति, सूक्ष्मत्वादिति भाव: । स भदन्त! अग्निकायस्य वह्ने: मध्यमध्येन अन्तरन्त[:] गच्छेत् यायात् ?, हन्त गच्छेत्। 5 स तत्र दह्येतेत्यादि पूर्ववत् । नवरं शस्त्रमग्निमयं गृह्यत इति, उक्तं च- दव्वं सत्थऽग्गि-विसं० [आचाराङ्गनि० गा० ३६] इत्यादि ।
एवं पुष्कलसंवर्त्तसूत्रमपि भावनीयम् । नवरं अस्यैवं प्ररूपणा- इह वद्धमाणसामिणो णिव्वाणकालातो तिसठ्ठीए वाससहस्सेसु उस्सप्पिणीए य एक्कवीसाए वीइक्कंतेसु एत्थ पंच महामेहा भविस्संति । तंजहा- पढमे पुक्खलसंवट्टए उदगरसे, 10 बीए खीरोदे, तइए घओदे, चउत्थे अमितोदे, पंचमे रसोदे । तत्र पुष्कलसंवर्तोऽस्य भरतक्षेत्रस्य अशुभभावं पुष्कलं संवर्त्तयति, नाशयतीत्यर्थः । एवं शेषनियोगोऽपि प्रथमानुयोगानुसारतो विज्ञेयः । स भदन्त ! गङ्गाया महानद्याः प्रतिश्रोतो हव्यं शीघ्रमागच्छेत् ?। स तत्र विनिघातं प्रस्खलनम् आपद्येत प्राप्नुयात् ? । शेषं पूर्ववत्। स भदन्त ! उदकावर्त वा उदकबिन्दं वा अवगाह्य तिष्ठेत् आसीत ? 15 हन्त ! तिष्ठेत् । स तत्रोदकसम्पर्कात् कुथ्येत वा पर्यापद्येत वा?, कुथनं पूतिभावः, पर्यापत्तिस्तु तद्रूपापत्तिः। शेषं सुगमम्, यावद् अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन सा एका उच्छ्लक्ष्णश्लक्ष्णिकेति वेत्यादि, अत्र उच्छ्लक्ष्णश्लक्ष्णिकादीनामन्योन्याष्टगुणत्वे सत्यप्यनन्तत्वादेव [परमाणु-] पुद्गलसमुदायस्याऽऽद्योपन्यासोऽविरुद्ध एव । तत्र श्लक्ष्णश्लक्ष्णिकाद्यपेक्षया उत् प्राबल्येन 20 श्लक्ष्णा मात्रा उच्छ्लक्ष्णश्लक्ष्णोच्यते । श्लक्ष्णश्लक्ष्णा त्वोघत ऊर्ध्वरेण्वपेक्षया वेति । ऊर्ध्वाधस्तिर्यक्चलनधर्मोपलभ्य ऊर्ध्वरेणुः । पौरस्त्यादिवायुप्रेरितस्त्रस्यति गच्छतीति त्रसरेणुः । रथगमनोत्खातो रथरेणुः । वालाग्र-रि(लि)क्षा-यूकादय: प्रतीता: । शेष प्रकटार्थं यावदधिकृताङ्गुलाधिकार एव । नवरं नारकाणां जघन्या भवधारणीय१. अंतरंत गच्छेत् इति प्रतिषु पाठः । अत्र ‘अन्तरं गच्छेत्' इत्यपि पाठः संभवेत् ॥ २. अत्र श्लक्ष्णश्लक्ष्णिकादीनामन्योन्याष्टगुणत्वे सत्यप्यनन्तत्वादेव पुद्गलसमुदायस्याद्योपन्यासोऽविरुद्ध एव । तत्र लक्ष्णाद्यपेक्षया उत् प्राबल्येन श्लक्ष्णा मात्रा उच्छ्लक्ष्णोच्यते, श्लक्ष्णात्वोघत ऊर्ध्व प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org