________________
अनुयोगद्वारसूत्रम् [सू० ३३९ - ३५७]
वक्तव्यम्- अयं तर्हि शस्त्रच्छेदादिविषयो भवति, यतस्तन्निषेधार्थमेव प्रश्नमुत्पादयतिसे भंते इत्यादि, स भदन्त ! व्यावहारिकपरमाणुः कदाचित् असिः खड्गः तद्धारां वा क्षुरो नापितोपकरणं तद्वारां वा अवगाहेत आक्रामेद् ? अत्रोत्तरं हन्तावगाहेत, हन्तेति कोमलामन्त्रणे अभ्युपगमद्योतने वा, अवगाहेतेति शिष्यपृष्टार्थस्याभ्युपगमवचनम् । पुनः पृच्छति - स तत्रावगाढः संश्छिद्येत वा द्विधा क्रियेत भिद्येत 5
अनेकधा विदार्येत सूच्यादिना वस्त्रादिवद्वा सच्छिद्रः क्रियेत ? उत्तरमाह - नायमर्थ: समर्थ:, नैतदेवमिति भावः । अत्रोपपत्तिमाह- न खलु तत्र शस्त्रं क्रामति, इदमुक्तं भवति - यद्यप्यनन्तैः परमाणुभिर्निष्पन्नाः काष्ठादयः शस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तकस्यानन्तभेदत्वात् तावत्प्रमाणेनैव परमाण्वनन्तकेन निष्पन्नोऽसौ व्यावहारिकः परमाणुर्ग्राह्यो यावत्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान्न 10 शस्त्रच्छेदादिविषयतामासादयतीति भावः । पुनरप्याह- स भदन्ताग्निकायस्य वह्नेर्मध्यंमध्येन अन्तरे व्यतिव्रजेद् गच्छेत् ? हन्तेत्याद्युत्तरं पूर्ववत् । नवरं शस्त्रमिहाग्निशस्त्रं ग्राह्यम् ।
पुनः पृच्छति - से णं भंते पुक्खल इत्यादि, इदमपि सूत्रं पूर्ववद्भावनीयम् । नवरं पुष्करसंवर्तस्य महामेघस्येयं प्ररूपणा - इहोत्सर्पिण्यामेकविंशतिवर्षसहस्रमाने 15 दुष्षमदुष्षमालक्षणे प्रथमारकेऽतिक्रान्ते द्वितीयस्यादौ सकलजनस्याभ्युदयार्थं क्रमेणामी पञ्च महामेघाः प्रादुर्भविष्यन्ति, तद्यथा- पुष्कलसंवर्तक उदकरसः प्रथमः, द्वितीय: क्षीरोदः, तृतीयो घृतोदः, चतुर्थोऽमृतोदः, पञ्चमो रसोदः । तत्र पुष्कलसंवर्तोऽस्य भरतक्षेत्रस्य पुष्कलं प्रचुरमपि सर्वमशुभानुभावं भूमिरूक्षता दाहादिकं प्रशस्तस्वकीयोदकेन संवर्तयति नाशयति, एवं शेषमेघव्यापारोऽपि 20 प्रथमानुयोगादवगन्तव्यः । उदउल्ले सिय त्ति उदकेनार्द्रः स्यादित्यर्थः, शस्त्रता चात्रोदकस्यावसेया । से णं भंते! गंगाए इत्यादि, गङ्गाया महानद्या: प्रतिश्रोतो हव्यं शीघ्रमागच्छेत्, पूर्वाद्यभिमुखे गङ्गाप्रवाहे वहति सति पश्चिमाद्यभिमुखः स आगच्छेत् तन्मध्येनेति भावः । विणिहायमित्यादि, विनिघात: तच्छ्रोतसि प्रतिस्फलनम्, तमापद्येत प्राप्नुयात्, शेषं पूर्ववत् । से णं भंते उदगावत्तमित्यादि, 25
Jain Education International
For Private & Personal Use Only
-
३९०
www.jainelibrary.org