________________
३९१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् उदकावर्तोदकबिन्द्वोर्मध्ये अवगाह्य तिष्ठेदित्यर्थः, स च तत्रोदकसम्पर्कात् कुथ्येद्वा प्रतिभावं यायात् पर्यापद्येत वा जलरूपतया परिणमेदित्यर्थः, शेषं तथैव, पूर्वोक्तमेवार्थं संक्षेपत: प्राह- सत्थेण गाहा गतार्था, नवरं लक्षणमेवास्येदमभिधीयते, न पुनस्तं
कोऽपि छेत्तुं भेत्तुं वाऽऽरभते इत्येतत् किलशब्देन सूचयति, सिद्ध त्ति ज्ञानसिद्धा: 5 केवलिनो न तु सिद्धाः सिद्धिगताः, तेषां वंदनस्यासम्भवादिति। अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन या परिमाणमात्रेति गम्यते सा एका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा, सैव श्लक्ष्णश्लक्ष्णिका, उत्तरप्रमाणापेक्षया उत् प्राबल्येन श्लक्ष्णश्लक्ष्णिका उच्छ्लक्ष्णश्लक्ष्णिका, इतिरुपप्रदर्शने, वा उत्तरापेक्षया
समुच्चये, एवं श्लक्ष्णलक्ष्णिकेति वा इत्यादिष्वपि वाच्यम् । एते 10 चोच्छ्लक्ष्णश्लक्ष्णिकादयो यद्यपि यथोत्तरमष्टगुणत्वेन प्रतिपादयिष्यन्ते तथापि
प्रत्येकमनन्तपरमाणुनिष्पन्नत्वसाम्यं न व्यभिचरन्त्यत: प्रथमं निर्विशेषितमप्युक्तं सा एगा उस्सण्हसण्हिया इ वा इत्यादि, प्राक्तनप्रमाणादष्टगुणत्वादूर्ध्वरेण्वपेक्षया त्वष्टभागवर्तित्वात् श्लक्ष्णश्लक्ष्णिकेत्युच्यते, स्वत: परतो वा ऊर्ध्वाधस्तिर्यक्चलनधर्मा रेणुरूर्ध्वरेणुः, एतानि चोच्छ्लक्ष्णश्लक्ष्णिकादित्रीणि पदानि परमाणू तसरेणू 15 इत्यादिगाथायाम् अनुक्तान्यप्युपलक्षणत्वाद् द्रष्टव्यानि । त्रस्यति पौरस्त्यादिवायुप्रेरितो
गच्छति यो रेणु: स त्रसरेणुः, रथगमनोत्खातो रेणू रथरेणुः, वालाग्र-लिक्षादय: प्रतीताः । देवकुरूत्तरकुरु-हरिवर्ष-रम्यकादिनिवासिमानवानां केशस्थूलताक्रमेण क्षेत्रशुभानुभावहानिर्भावनीया, शेषं निर्णीतार्थमेव यावत् नेरइयाणं भंते ! केमहालिया
सरीरोगाहणेत्यादि । अवगाहन्ते अवतिष्ठन्ते जीवा अस्यामित्यवगाहना 20 नारकादितनुसमवगाढं क्षेत्रं नारकादितनुरेव वा । यद्यनेनोत्सेधाङ्गलेन नारकादीनां
शरीरावगाहना मीयन्ते तर्हि भदन्त ! नारकाणां तावत् केमहालिया कियन्महती किंमहत्त्वोपेता, कियतीत्यर्थः, शरीरस्यावगाहना शरीरमेव वा अवगाहना भवद्भिरन्यैश्च तीर्थकरैः सदेव-मनुजा-ऽसुरवरायां पर्षदि प्रज्ञप्ता प्ररूपिता ? अत्र भगवान्
गौतममामन्त्र्योत्तरमाह- गौतम ! द्विविधा द्विप्रकारा प्रज्ञप्ता, तद्यथा- भवधारणीया 25 चोत्तरवैक्रिया च । ननु शरीरावगाहनाया: प्रमाणे पृष्टे तवैविध्यलक्षणभेदकथनम
१. वचन जेसं१ मां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org